ज्ञानपीठप्रशस्तिः
एषा ज्ञानपीठप्रशस्ति: भारते कृतां साहित्यक्षेत्रीयाम् अपूर्वां सिद्धिम् अभिलक्ष्य दीयते प्रतिवर्षम् । ‘दि टैम्स् आफ् इण्डिया’-पत्रिकाया: प्रकाशकै: साहुजैनपरिवारीयै: ‘भारतीयज्ञानपीठ’नामक: न्यास: प्रतिष्ठापित: । श्री साहुशान्तिप्रसादजैन, श्रीमती रमा जैन च एतस्य प्रतिष्ठापकौ । एतेन न्यासेन दीयते एषा प्रशस्ति: । प्रशस्तिरेषा पञ्चलक्षरूप्यकात्मिका भवति इदानीम् । संविधानेन अनुमतया ययाकयाचिदपि भाषया कृता कृतिरचना एव एतां प्रशस्तिं प्राप्तुम् अर्हा भवति । भारतस्य लेखकानां कृते दीयमाना प्रतिष्ठिता प्रशस्तिः अस्ति। एषा प्रशस्तिः भारतस्य संविधानस्य अष्टमानुच्छेदे याः भाषाः उल्लिखिताः तासां भाषाणां अत्युत्तमभारतीयलेखकस्य कृते दीयते । एषा प्रशस्तिः १९६० तमवर्षस्य मेमासस्य २२ तमे दिनाङ्के स्थापिता । प्रथमतया एषा प्रशस्तिः १९६५ तमे वर्षे मलयालस्य लेखकाय श्रीमते जि.शङ्करकुरुपाय प्रदत्ता । विजेतारः प्रशस्तिफलकेन, एकादशलक्षरूप्यकैः , वाग्देव्याः कांस्यप्रतिमया च सम्मानिताः भवन्ति ।
साहुशान्तिप्रसादजैन:
सम्पादयतुसाहुशान्तिप्रसादजैनवर्य: क्रि.श.१९११ तमे वर्षे उत्तरप्रदेशे नजीबाबादनगरे जन्म प्राप्नोत् । बनारसहिन्दुविश्वविद्यालये आगराविश्वविद्यालये च तेन विज्ञानविषयिणी स्नातकपदवी प्राप्ता । वाराणस्याम् अखिलभारतीयं प्राच्यविद्यासम्मेलनं यत् प्रवृत्तं तत्र विद्वद्भि: सूचितं यत् साहित्यक्षेत्रस्य प्रोत्साहनाय राष्ट्रस्तरीया गौरववर्धिका काचित् विशिष्टा प्रशस्ति: प्रदातव्या, तदर्थं कश्चन न्यास: प्रतिष्ठापनीय: इति । तत: १९४४ तमे वर्षे फेब्रवरीमासस्य १८ दिनाङ्के ‘ज्ञानपीठप्रशस्ति’न्यास: प्रतिष्ठापित: जात: । शान्तिप्रसादजैनवर्य: अस्ति न्यासस्यास्य संस्थापकन्यासी । तस्य पत्नी रमाजैनवर्या न्यासाध्यक्षा जाता । २७.१०.१९७७ तमे वर्षे शान्तिप्रसादवर्य: दिवं गत: । क्रि.श.१९६५ तमात् वर्षात् ज्ञानपीठप्रशस्तिप्रदानप्रथा आरब्धा । आदौ प्रशस्तिमूल्यं सार्धैकलक्षरूप्यकात्मकम् आसीत् । इदानीं तु प्रशस्तिमूल्यम् अस्ति पञ्चलक्षरूप्यकात्मकम् । प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति । क्रि.श.१९८२ तः ,एतां प्रशस्तिं भारतीयसाहित्यस्य कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
प्रशस्तिभूषिताः विविधभाषाः
सम्पादयतुमलयाळभाषीय: जि. शङ्करकुरुपवर्य: प्रथमां ज्ञानपीठप्रशस्तिं प्राप्तवान् क्रि.श.१९६८ तमे वर्षे । क्रि.श.१९८२ तमवर्षपर्यन्तम् अपि विशिष्टसेवां कृतवत: कृतिकारस्य विशिष्टायै कृत्यै एषा प्रशस्ति: प्रदीयते स्म । किन्तु अनन्तरकाले निर्णीतं यत् समग्रां सिद्धिम् अभिलक्ष्य एव एषा प्रदातव्या इति । अद्यापि सा एव परम्परा अनुवर्तते । हिन्दीभाषया कन्नडभाषया च सप्तवारं, वङ्गभाषया पञ्चवारं, मलयाळभाषया मराठीभाषया च चतुर्वारम्, उर्दुगुजरातिभाषाभ्यां त्रिवारम्, असामिया-ओरिया-पञ्जाबी-तळिलु-तेलुगुभाषाभि: द्विवारं च एषा प्रशस्ति: प्राप्ता । ज्ञानपीठप्रशस्तिं प्राप्तवती पञ्चदशी भाषा संस्कतम् । ११.११.०८ दिनाङ्के २००५, २००६ वर्षयो: ज्ञानपीठप्रशस्ति: घोषिता ज्ञानपीठप्रशस्तिभाज: डा सीताकान्तमहापात्रस्य आध्यक्ष्येण युक्तया समित्या । २००५ तमवर्षीया प्रशस्ति: हिन्दीकविना कुन्वरनारायणवर्येण सम्प्राप्ता ।
संस्कृतभाषया प्राप्तम्
सम्पादयतुक्रि.श.२००६ तमवर्षीया प्रशस्ति: संस्कृतीयेन सत्यव्रतशास्त्रिवर्येण, कोङ्कणीभाषीयेण रवीन्द्रकेळकरवर्येण च सम्प्राप्ता । ४२ तमी प्रशस्ति: एषा । संस्कृतेन एषा प्रशस्ति: प्राप्ता अस्ति ऐदम्प्राथम्येन ।
ज्ञानपीठप्रशस्त्या पुरस्कृताः
सम्पादयतुउल्लेखाः
सम्पादयतु- ↑ The multi-faceted playwright[नष्टसम्पर्कः], Frontline (magazine)
- ↑ "Malayalam, Urdu writers claim Jnanpith awards". The Hindu (Chennai, India). २५ September २०१०. आह्रियत २५ September २०१०.[नष्टसम्पर्कः]