प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दुर्गावती देवी

(दुर्गा भाभी इत्यस्मात् पुनर्निर्दिष्टम्)

दुर्गावती देवी ( /ˈdʊrɡɑːvət dɛv/) (हिन्दी: दुर्गावती देवी, आङ्ग्ल: Durgawati Devi) दुर्गाभाभी नाम्ना प्रसिद्धा । सा आङ्ग्लविराधिने आन्दोलने मुख्यक्रान्तिकारिणी आसीत् । दुर्गा भाभी एव लाहोर-महानगरात् बहिर्निर्गन्तुं भगत सिंह इत्यस्य साहाय्यम् अकरोत् । तस्याः पतिः भगवतीचरण वोहरा भारतस्वतन्त्रतायाः आन्दोलने अतिसक्रियः क्रान्तिकारी आसीत् । भगवतीचरणस्य पत्नीत्वात् सर्वे क्रान्तिकारिणः तां दुर्गा भाभी इति आह्वयन्ति स्म ।

Durgawati Devi
दुर्गावती देवी
Durga Bhabhi and Nehru.jpg
पण्डितस्य उपस्थितौ लखनौ-नगरस्य शालायां स्वागतवचनदात्री दुर्गाभाभी
जन्म ७/१०/१९०७
इलाहाबाद-महानगरं, उत्तरप्रदेशराज्यम्
मृत्युः १५/१०/१९९९
गाजियाबाद-नगरम्, उत्तरप्रदेशराज्यम्
अन्यानि नामानि दुर्गा भाभी
वृत्तिः क्रांतिकारी edit this on wikidata
कृते प्रसिद्धः बहूनां क्रान्तिकारिणां रक्षणं कृतवती एषा
भार्या(ः) भगवतीचरणः
अपत्यानि शचीन्द्रः

अन्तर्विषयाः

जन्म, परिवारश्चसम्पाद्यताम्

१९०७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे (७/१०/१९०७) दिनाङ्के उत्तरप्रदेशराज्यस्य इलाहाबाद-महानगरे दुर्गायाः जन्म अभवत् । तस्याः पितुः नाम बाङ्के बिहारी भट्ट, मातुः नाम यमुनादेवी आसीत् । तस्याः पितरौ दुर्गामातुः उपासकौ आस्ताम् । अतः दुर्गावती देवी इति पुत्र्याः नामकरणम् अकुरुताम् । दुर्गायाः अग्रजः अपि आसीत् । दुर्गा यदा दशमासानां शिशुः आसीत्, तदा तस्याः मातुः निधनम् अभवत् । यदा सा नववर्षीया आसीत्, तदा तस्याः अग्रजस्य मृत्युः अभवत् । दुर्गायाः मातुः निधनानन्तरं तस्याः पिता पुनर्विवाहम् अकरोत् । परन्तु पुर्नर्विवाहः सफले न जाते तस्याः पिता वैरागिवत् जीवनं जीवति स्म । एवं गृहस्य दायित्वं दुर्गायाः उपरि आपतितम् । गृहस्य दायित्वे आपतिते सति सा तृतीयकक्षां यावदेव अध्ययनम् अकरोत् । एवं तया बाल्यं दुःखेन व्यतीतम् ।

विवाहःसम्पाद्यताम्

एकादशे वयसि दुर्गायाः विवाहः आग्रा-नगरवासिना भगवतीचरणेन सह अभवत् । तयोः शचीन्द्र-नामकः एकः पुत्रः अभवत् । भगवतीचरणस्य पिता शिवचरणः आङ्ग्लसर्वकारस्य अधिकारी आसीत् । परन्तु भगवतीप्रसादः बाल्यकालात् क्रान्तिकारिविचारान् धरते स्म । शिवचरणः 'राय बहादूर' इति पदवीम् आङ्ग्लसर्वकारात् स्व्यकरोत्, अतः भगवतीचरणः गृहत्यागम् अकरोत् ।

शिक्षणम्सम्पाद्यताम्

पितुः गृहे गृहदायित्वस्य कारणेन दुर्गा अधिकम् अध्ययनं कर्तुं न प्राभवत् । परन्तु विवाहानन्तरं भगवतीचरणस्य प्रोत्साहनेन तया पुनः पठनं प्रारब्धम् । तया एतावत् अध्ययनं कृतं यत्, सा लाहोर-नगरस्य प्रतिष्ठितमहाविद्यालयस्य प्राध्यापिका अभवत् ।

स्वातन्त्र्यान्दोलने योगदानम्सम्पाद्यताम्

भगवतीचरणः सम्पन्नः, समृद्धः व्यक्तिः आसीत् । सः बाल्यकालादेव क्रान्तिकारिप्रवृत्तौ सल्लग्नः आसीत् । तस्य द्वे गृहे अलाहाबाद-महानगरे, त्रीणि गृहाणि लाहोर-नगरे आसन् । तस्य गृहाणि क्रान्तिकारिभ्यः आश्रयस्थानानि आसन् । यत्र भगवतीचरणः पठति स्म, तस्मिन् महाविद्यालये एव भगत सिंह, सुखदेव, यशपाल इत्येते अपि पठन्ति स्म । विद्यार्थिकाले एव सर्वैः मित्रैः एकस्याः क्रान्तिकारिसंस्थायाः स्थापना कृता आसीत् । 'नौ जवान भारत सभा' इति तस्याः संस्थायाः नाम । सर्वे मुहुर्मुहुः भगवतीचरणस्य गृहे गोष्ठीं कर्तुम् एकत्रिताः भवन्ति स्म । सर्वेषां क्रान्तिकारिणां व्यवस्था दुर्गा विवेकेन करोति स्म । सर्वे क्रान्तिकारिणः तां दुर्गा भाभी इति सम्बोधयन्ति स्म ।

पत्युः क्रान्तिकारिप्रवृत्तिषु दुर्गा समानतया सहभागिनी आसीत् । भगवतीचरणद्वारा यत् सर्वकारविरोधिकार्यं भवति स्म, तस्मिन् दुर्गायाः योगदानं निश्चयेन भवति स्म । भगवतीचरणः यदि सर्वकारविरोधिन्याः पत्रिकायाः मुद्रणं करोति, तर्हि तस्याः पत्रिकायाः वितरणस्य दायित्वं दुर्गायाः भवति । भगवतीचरणः सर्वकारविरोधकं विज्ञापनं मुद्रति चेत्, दुर्गा तस्य विज्ञापनस्य प्रसारं करोति । एवं पत्युः अनुगामिनी दुर्गा भारतस्वतन्त्रतान्दोलने स्वामूल्यं योगदानम् अयच्छत् । भगवतीचरणेन मुद्रितस्य 'रेवल्यूशनिस्ट्' नामकस्य समाचारपत्रस्य प्रचारं दुर्गा प्रतिगृहं गत्वा करोति स्म ।

भगत सिंह इत्यादीनां रक्षणम्सम्पाद्यताम्

१९२७ तमे वर्षे मेरठ-काण्डे भागग्रहणात् आङ्ग्लसर्वकारस्य दृष्टौ भगवतीचरणः दोषी अभवत् । अतः सः गुप्तस्थलं गत्वा अगोपयत् (छुप गया) । तस्मिन् वर्षे सर्वैः क्रान्तिकारिभिः मिलित्वा लाला लाजपत राय इत्यस्य मृत्योः प्रतिशोधस्य योजना कृता आसीत् । आङ्ग्लाधिकारिणः सॉन्डर्स् इत्यस्य हत्यायाः योजना तैः कृता । तस्मिन् हत्याकाण्डे भगत सिंह, राजगुरु, सुखदेव, चन्द्रशेखर आजाद इत्यादयः सम्मिलिताः आसन् । १९२८ तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तदशे (१७/१२/१९२८) दिनाङ्के भगत सिंह, राजगुरु इत्येताभ्याम् अग्निशस्त्रेण सॉन्डर्स् मृतः । दुर्गा भाभी यदा शालातः गृहं गच्छन्ती आसीत्, तदा मार्गे तया सॉन्डर्स् इत्यस्य शवः दृष्टः । क्रान्तिकारिणां योजनासाफल्येन सा प्रसन्ना आसीत् । परन्तु क्रान्तिकारिणां रक्षणविषये तस्याः मनसि भयः समुत्पन्नः ।

रात्रौ सुखदेवः तस्याः गृहं प्रापत् । सः दुर्गाम् अवदत्, “भाभी ! एकस्य क्रान्तिकारिणः रक्षणं कर्तव्यम् अस्ति । लाहोर-नगरात् बहिः निर्गमने भवती तस्य साहाय्यं करिष्यति वा ?” इति । “क्रान्तिकारिणां रक्षणं कर्तुं दुर्गा सर्वदा सज्जा एव भवति” इति दुर्गा अवदत् । सुखदेवः अवदत्, “भाभी ! आङ्ग्लमहिलायाः वस्त्राणि धृत्वा सज्जा भवतु । भगत सिंह इत्यस्य पत्न्याः अभिनयं भवत्या कर्तव्यम् अस्ति” इति । सुखदेवस्य कथनानुसारं दुर्गा आङ्ग्लमहिलायाः परिधानम् अधरत् । दुर्गा स्वस्याः स्कन्धे ‘पर्स्’ अस्थापयत् । तस्मिन् अग्निशस्त्रम् आसीत् । यदि योजना सफला न भवेत्, तर्हि तस्य उपयोगं कृत्वा स्वस्याः, भगत सिंह इत्यस्य च रक्षणं कर्तुं शक्नुयात् । परिवारस्य पूर्त्यै तया स्वपुत्रः शचीन्द्रः अपि आङ्ग्लबालकस्य सदृशं सज्जीकृतः । सॉन्डर्स् इत्यस्य हत्यायां राजगुरुः अपि आसीत् । अतः सः जीर्णवस्त्राणि धृत्वा परिचारकस्य परिधानम् अधरत् ।

ब्राह्ममुहूर्ते सः परिवारः लाहोर-नगरस्य रेलस्थानकं प्रापत् । स्वस्य मुखस्य दर्शनम् अधिकं न भवेत् इत्युद्दिश्य भगत सिंह शचीन्द्रं स्वहस्ते स्व्यकरोत् । सॉन्डर्स् इत्यस्य हन्तकाः नगरात् बहिः गन्तुं न शक्नुयुः इति आङ्ग्लाधिकारिभिः सर्वत्र आरक्षकाः नियुक्ताः आसन् । परन्तु आङ्ग्लपरिवारस्य स्वाङ्गे क्रान्तिकारिणः सन्ति इति आङ्ग्लाधिकारिणः ज्ञातुं नाशक्नुवन् । सर्वे क्रान्तिकारिणः सारल्येन लाहोर-नगरात् पलायिताः । क्रान्तिकारिणां हावडा-नगरप्राप्तेः समाचारं दुर्गा भाभी पूर्वम् एव सुशीलाभगिनीम् उक्तवती आसीत् । अतः हावडा-रेलस्थानके सुशीला भगिनी सर्वेषां स्वागतार्थम् उपस्थिता आसीत् । भगवतीचरणः अपि हावडा-रेलस्थानके आसीत् । सर्वे मिलित्वा अग्रिमयोजनायै हावडा-नगरे एव कानिचन दिनानि यापयन् ।

भगवतीचरणस्य मृत्युःसम्पाद्यताम्

सॉन्डर्स् इत्यस्य हत्यानन्तरम् अपि क्रान्तिकारिणां मनसि लाला लाजपत राय इत्यस्य मृत्योः क्रोधः शान्तः नाभवत् । अतः भगत सिंह भारतीयसंसदि अग्निगोलकस्य प्रहारेण आङ्ग्लानां हृदयानि व्यदारयत् । परन्तु पूर्ववत् सः नागोपयत् । आङ्ग्लानां सम्मुखं सः समर्पणम् अकरोत् । आङ्ग्लसर्वकारस्य दुष्प्रवृत्तयः समाजस्य सम्मुखम् उपस्थापयितुं तेन एतादृशः निर्णयः कृतः आसीत् ।

कारागारात् भगत सिंह इत्यस्य मुक्त्यर्थं चन्द्रशेखरः, भगवतीचरणः योजनां कुर्वन्तौ आस्ताम् । अग्निगोलकस्य प्रहारं कृत्वा कारागारभङ्गस्य योजना कृता आसीत् । परन्तु अग्निगोलकस्य परीक्षणकाले भगवतीचरणस्य हस्ते अग्निगोलकस्य विस्फोटः अभवत् । तस्मिन् अकस्माते भगवतीचरणस्य मृत्युः अभवत् । मृत्योः किञ्चित् समयं पूर्वं भगवतीचरणः अन्यान् क्रान्तिकारिणः अवदत्, “मित्राणि ! इतः परं दुर्गायाः संरक्षणस्य दायित्वं भवताम्” इति । १९३० तमस्य वर्षस्य ‘मई’-मासस्य अष्टाविंशतितमे (२८/५/१९३०) दिनाङ्के भगवतीचरणस्य मृत्युः अभवत् । त्रयोविंशतितमे वयसि दुर्गा विधवा अभवत् ।

भगवतीचरणस्य मृत्योः समाचारं श्रुत्वा दृढमनः चन्द्रशेखरः अपि करुणस्वरेण अरुदत् । दुर्गायै सान्त्वनां यच्छन् चन्द्रशेखरः अवदत्, “भाभी ! भवती देशाय, अस्माकं दलाय च स्वस्याः सर्वस्वं समार्पयत् । अद्यारभ्य भवती अस्माकं माता अस्ति । इतः परं भवती एव दलस्य मार्गदर्शनं करिष्यति” इति ।

भगत सिंह इत्यस्य मुक्त्यर्थं प्रयत्नःसम्पाद्यताम्

भारतीयक्रान्तिकारिणां योजना आसीत् यत्, “कारागारस्य भित्तिं भङ्गयित्वा भगत सिंह इत्येनं मुक्तं कुर्मः” इति । तस्यां योजनायां भगवतीचरणस्य मृत्युः अभवत् । ततः पत्युः दायित्वं दुर्गया ऊढम् । सा कारागारभित्तिभङ्गस्य योजनाम् अकरोत् । परन्तु भगत सिंह पलायनं कृत्वा कारागारात् बहिः निर्गन्तुं नेच्छिति स्म । अतः दुर्गायाः योजना कार्यान्विता नाभवत् । ततः तेन अन्तिमप्रयत्नत्वेन महात्मना सह सम्पर्कः कृतः । यतो हि आङ्ग्लाः सर्वान् कारागारवासिनः मुक्तं करिष्यन्ति इति गान्धी-इर्विन्-सन्धेः लक्ष्यम् आसीत् । अतः समयं प्राप्य महात्मानं मेलितुं दुर्गा भाभी तस्य कार्यालयम् अगच्छत् । तया सह सुशीला भगिनी अपि आसीत् । “बापु ! त्वं भगत सिंह इत्यादीनां विमुक्त्यै अपि प्रयत्नं कुरु” इति दुर्गा अवदत् । महात्मा उदतरत्, “भवत्यौ अपि आङ्ग्लसर्वकाराय समर्पणं कुरुतः । कारागारात् अहं भवत्यौ अपि मुक्ते कारयिष्यामि” इति । महात्मनः उत्तरं श्रुत्वा उग्रस्वरेण दुर्गा अवदत्, “बापु ! आवां स्वविषये चिन्तयित्वा अत्र नागते । आवयोः लक्ष्यमस्ति भगत सिंह इत्यस्य मुक्तिः । यदि त्वं तं मुक्तं कारयितुं प्रयत्नं करिष्यसि, तर्हि उत्तमम्” इति । दुर्गायाः कथनं श्रुत्वा गान्धी किमपि नावदत् । ततः दुर्गासुशीले निराशे भूत्वा प्रत्यगच्छतः ।

मुम्बई-प्रेसिडेन्सि मध्ये क्रान्तिःसम्पाद्यताम्

अभियोगस्य माध्यमेन भगत सिंह इत्यस्य विचारान् देशस्य जनसामान्याः सहजतया ज्ञातुं शक्नुन्ति स्म । अतः चन्द्रशेखरेण दलस्य विस्तारं कर्तुं प्रयत्नः आरब्धः । सः मुम्बई-क्रान्ति-समित्याः अध्यक्षत्वेन पृथ्वी सिंह इत्यस्य नियुक्तिं कृत्वा दुर्गां, सुखदेवराजं च तेन सह बॉम्बे प्रैषयत् । बॉम्बे-प्रदेशे कानिचन दिनानि यापयित्वा तैः त्रिभिः क्रान्तिकारिभिः बॉम्बे-प्रदेशस्य पुलीस् कमिशनर् इत्यस्य हत्यायाः योजना कृता । योजनायाः कार्यान्वयात् प्राक् दुर्गा स्वपुत्रं शचीन्द्रं बाबा राव सावरकर इत्यस्य गृहे अत्यजत् । प्रत्यागमनकाले बाबा राव सावरकर दुर्गां शतं रूप्यकाणि दत्त्वा अवदत्, “भगिनी ! एतत् स्थापयतु । सङ्कटकाले साहाय्यं भविष्यति” इति ।

रात्रौ अष्टवादने पुलीस् कमिशनर् हेली इत्यस्य गृहं सम्प्राप्य तस्य हत्यायाः योजना आसीत् । अतः त्रयः क्रान्तिकारिणः अग्निशस्त्रेण सह पुलीस् कमिशनर् इत्यस्य प्रासादस्य समीपं प्रापन् । लेमिङ्ग्टन्-मार्गे पृथ्वी सिंह अवदत्, “मारयतु एनम्” इति । कमिशनर् इत्यनेन सह तस्य पत्नी अपि आसीत् । आदेशं श्रुत्वा समनन्तरमेव दुर्गा गुलिकाः अचालयत् । तस्याः पश्चात् सुखदेवराजः अपि गुलिकाः अचालयत् । क्षणाभ्यन्तरे एव तयोः पतिपत्न्योः मृत्युः अभवत् । परन्तु दुर्भाग्यवशात् तौ कमिशनर् हेली, तस्य पत्नी च न आस्ताम्, अपि तु सार्जेण्ट् टेलर्, तस्य पत्नी च आस्ताम् ।

“दुर्भाग्यवशात् सार्जेण्ट् टेलर् इत्यस्य मृत्युः अभवत् । कमिशनर् इत्यस्य हत्यायाः योजना आसीत्” इति श्रुत्वैव कमिशनर् हेली इत्यस्य हृदयं भयग्रस्तम् अभवत् । सः तत्कालमेव तान् क्रान्तिकारिणः गृहीतुं आदेशम् अयच्छत् । परन्तु तस्यां रात्रौ एव दुर्गा भाभी द्विचक्रिकायानेन चतुःषष्टिः कि.मी. यात्रां कृत्वा तस्मात् स्थलात् दूरम् अगच्छत् । ततः सा अलाहाबाद-नगरमार्गेण देहली-महानगरं प्रापत् ।

कारावासे दुर्गा भाभीसम्पाद्यताम्

दुर्गा भाभी यदा देहली-महानगरं प्रापत्, तदा तया ज्ञातं यत्, “१९३१ तमस्य वर्षस्य 'फरवरी'-मासस्य सप्तविंशतितमे (२७/२/१९३१) दिनाङ्के अलाहाबाद-महानगरस्य आल्फ्रेड्-उद्याने आङ्ग्ल-आरक्षकैः सह युद्धं कुर्वन् चन्द्रशेखरः वीरगतिं प्रापत्” इति । तेन सन्देशेन दुर्गायाः मनोबलस्योपरि आघातः कृतः । बॉम्बे-प्रदेशस्य आरक्षकाः देहली-महानगरे अपि दुर्गायाः अन्वेषणं कुर्वन्तः आसन् । अतः दुर्गा भाभी चलित्वा हरिद्वार-नगरम् अगच्छत् । ततः सा लाहोर-नगरम् अगच्छत् । लाहोर-नगरं सम्प्राप्य तया ज्ञातं यत्, “आङ्ग्लसर्वकारेण तस्याः द्वे गृहे स्वाधीने कृते स्तः” इति । अन्ततो गत्वा आङ्ग्ल-आरक्षकाः दुर्गाम् अगृह्णन् ।

आरक्षकालये क्रूराः आङ्ग्लाः दुर्गायाः उपरि अत्याचारं प्रारभन्त । ते पौनःपुन्येन प्रश्नान् पृष्ट्वा तां पीडयन्ति स्म । मिथ्याभाषिणः आङ्ग्लाः ताम् अवदन्, “भवत्याः दलस्य सर्वाः सूचनाः अस्माकं पार्श्वे सन्ति । अतः अपराधस्वीकरणे एव भवत्याः हितम् अस्ति” इति । परन्तु दृढमना दुर्गा उदतरत्, “यदि भवतां पार्श्वे सर्वाः सूचनाः सन्ति, तर्हि तासां सूचनानाम् आधारेणैव मम उपरि भवन्तः अभियोगं चालयन्तु । सूचनाः सन्ति चेत्, कस्य प्रतीक्षां कुर्वन्तः सन्ति भवन्तः ?” इति । ततः आङ्ग्लाः तां कारागारे बन्दिनम् अकुर्वन् । कारागारे खुरशीद नवरोजी, लाहोर-नगरस्य जुत्सी, पार्वतीदेवी, सत्यदेवी इत्यादयः क्रान्तिकरिणः आसन् । तैः सह मेलनेन दुर्गायाः दुःखं किञ्चित् न्यूनम् अभवत् । परन्तु केषाञ्चन दिनानाम् अनन्तरं सूचना प्राप्ता यत्, “१९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोविंशतितमे (२३/३/१९३१) दिनाङ्के क्रूराः आङ्ग्लाः भगत सिंह, सुखदेव, राजगुरु इत्येषां कारागारे एव हत्याम् अकुर्वन्” इति । एवं दुर्गायाः दलस्य सर्वे सदस्याः तां त्यक्त्वा अगच्छन् । कारागारात् विमुक्ते सति निःसहाया दुर्गा भाभी देहली-महानगरं त्यक्त्वा लखनऊ-महानगरम् अगच्छत् । तत्र सा एकस्मिन् महाविद्यालये पाठनं प्रारभत ।

दुर्गायाः अन्तिमदिनानिसम्पाद्यताम्

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । केचन क्रान्तिरिणः एव स्वतन्त्रभारतस्य सूर्योदयं द्रष्टुम् अशक्नुवन् । तेषु दुर्गा भाभी अपि अन्यतमा । परन्तु स्वतन्त्रे भारते पञ्चाशत् वर्षाणि यावत् सा महिला दरिद्रपरिस्थित्यां जीवनम् अयापयत् । सर्वकारात् अनुदानस्य अपेक्षा अपि तस्याः मनसि नासीत् । स्वान्त्र्यानन्तरं तया दीर्घं जीवनं भारतमातुः कुक्षौ यापितम् । परन्तु भारतवासिषु स्वल्पाः एव जानन्ति स्म यत्, दुर्गा भाभी जीविता अस्ति इति ।

मृत्युःसम्पाद्यताम्

१९९९ तमस्य वर्षस्य 'अक्तूबर'-मासस्य पञ्चदशे (१५/१०/१९९९) दिनाङ्के द्विनवतितमे (९२) वयसि उत्तरप्रदेशराज्यस्य गाजियाबाद-नगरे दुर्गायाः निधनम् अभवत् । तस्मिन् दिने विरलेषु समाचारपत्रेषु तस्याः निधनस्य विषये उल्लिखितम् आसीत् । या महिला देशाय सर्वस्वं समार्पयत्, तां प्रति देशस्य एतादृशः कृतघ्नतायाः भावः देशभक्तान् पीडयति । भारतस्वतन्त्रता-तः तस्याः मृत्युपर्यन्तं यथा तां प्रति देशजनैः कृतघ्नता प्रदर्शिता, तथा अकृत्वा वयं तस्यै श्रद्धाञ्जलिं दातुं शक्नुमः । महिलासशक्तीकरणेन, स्त्रीशिक्षणेन, स्त्रीविरोधिनीं हिंसां स्थगयित्वा च वयं तां प्रति कृतज्ञतां प्रदर्शितुं शक्नुमः ।

बाह्यानुबन्धःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=दुर्गावती_देवी&oldid=358492" इत्यस्माद् पुनः प्राप्तिः