देहरादूनमण्डलम्
देहरादूनमण्डलम् ( ( शृणु) /ˈdɛhərɑːduːnəməndələm/) (हिन्दी: देहरादून जिला, आङ्ग्ल: Dehradun District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति देहरादून इति नगरम् । देहरादूनमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति । प्रख्यातं तीर्थधाम हृषीकेशः अस्मिन् मण्डले स्थितमस्ति ।
देहरादूनमण्डलम् Dehradun District | |
---|---|
देहरादून जिला | |
देहरादूनमण्डलस्य बुद्धमूर्तिः | |
देशः | India |
राज्यम् | उत्तराखण्डः |
उपमण्डलानि | देहरादून, ऋषिकेश, विकासनगर, कल्सी, चक्रता, त्यूनी |
विस्तारः | ३०० च.कि.मी. |
जनसङ्ख्या(२०११) | १,६९६,६९४ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ८४.२५% |
भाषाः | गढवाली, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | http://dehradun.nic.in/ |
भौगोलिकम्
सम्पादयतुदेहरादूनमण्डलस्य विस्तारः ३०० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, हिमाचलप्रदेशः च, दक्षिणदिशि हरिद्वारमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि टिहरीगढवालमण्डलं, पश्चिमदिशि हिमाचलप्रदेशः, उत्तरप्रदेशराज्यं च अस्ति ।
जनसङ्ख्या
सम्पादयतुदेहरादूनमण्डलस्य जनसङ्ख्या(२०११) १,६९६,६९४ अस्ति । अत्र ८,९२,१९९ पुरुषाः, ८,०४,४९५ स्त्रियः, २,०१,६५२ बालकाः (१,०६,७४६ बालकाः, ९४,९०६ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०२ अस्ति । अत्र साक्षरता ८४.२५% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- देहरादून, हृषीकेशः, विकासनगर, कल्सी, चक्रता, त्यूनी
वीक्षणीयस्थलानि
सम्पादयतु- तपकेश्वरमन्दिरम्
- लक्ष्मणसिद्धम्
- 'सांईदरबार'
- 'मल्सी डीयर पार्क्'
- सुरकन्दादेवीमन्दिरम्
- भद्रराजमन्दिरम्
- यमुनासेतुः
- 'केमलबेक् रोड्'
- 'गन हिल्'
- मसूरी तडागः
- 'केम्पम्टी फोल्'
- 'धनोल्टी'
- 'नागटीम्बा'
- त्रिवेणीघट्टः
- लक्षमण जूला
- शिवानन्द जूला
बाह्यानुबन्धः
सम्पादयतुhttp://www.mapsofindia.com/maps/uttaranchal/districts/dehradun.htm
http://www.euttaranchal.com/uttaranchal/dehradun.php Archived २००९-०८-०३ at the Wayback Machine
http://dcdeh.uk.gov.in/ Archived २०१४-०२-०७ at the Wayback Machine