हरिद्वारमण्डलम्
हरिद्वारमण्डलम् ( ( शृणु) /ˈhərɪdvɑːrəməndələm/) (हिन्दी: हरिद्वार जिला, आङ्ग्ल: Haridwar District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हरिद्वार इति नगरम् । हरिद्वारमण्डलं कुम्भोत्सव-गङ्गास्नान-मन्दिर-मठेभ्यः प्रख्यातमस्ति । एतन्नगरं Gateway of God’s Land इत्यपि प्रख्यातमस्ति ।
हरिद्वारमण्डलम् Haridwar District Gateway of God’s Land | |
---|---|
हरिद्वार जिला | |
हर की पौडी | |
देशः | India |
राज्यम् | उत्तराखण्डः |
उपमण्डलानि | हरिद्वार, लक्सर, कानपुर, नर्सन, रूर्की, भगवानपुर |
विस्तारः | २,३६० च.कि.मी. |
जनसङ्ख्या(२०११) | १८,९०,४२२ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ७३.४३% |
भाषाः | गढवाली, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | http://haridwar.nic.in |
भौगोलिकम्
सम्पादयतुहरिद्वारमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि देहरादूनमण्डलं, दक्षिणदिशि उत्तरप्रदेशराज्यं, पूर्वदिशि पौरीगढवालमण्डलं, पश्चिमदिशि उत्तरप्रदेशराज्यम् अस्ति ।
जनसङ्ख्या
सम्पादयतुहरिद्वारमण्डलस्य जनसङ्ख्या(२०११) १८,९०,४२२ अस्ति । अत्र १०,०५,२९५ पुरुषाः, ८,८५,१२७ स्त्रियः, २,८३,६९३ बालकाः (१,५०,१७३ बालकाः, १,३३,५२० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८०१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८०१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.६३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८० अस्ति । अत्र साक्षरता ७३.४३% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८१.०४% स्त्री - ६४.७९% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- हरिद्वार, लक्सर, कानपुर, नर्सन, रूर्की, भगवानपुर
वीक्षणीयस्थलानि
सम्पादयतुगङ्गोत्री, यमुनोत्री, बदरीनाथः, केदारनाथः एतच्चतुर्धाम्नां द्वारत्वात् अस्य नगरस्य नाम हरिद्वारं, हरद्वारं वा । हिन्दुधर्मस्य सप्तमोक्षदानगरीषु हरिद्वार-नगरी अन्यतमा । पुराणे उक्तम् –
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती ज्ञेया सप्तैता मोक्षदायिकाः ॥ २,४९.११४ ॥ गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४९
समुद्रमन्थनपश्चात् विष्णोः वाहनं गरुडः यदा अमृतकलशं नीत्वा गच्छन् आसीत्, तदा चतुर्षु स्थानेषु अमृतबिन्दवः पतिताः । उज्जयिनी-नासिक-प्रयाग-हरिद्वाराणि तानि चतुस्स्थानानि सन्ति । यस्मिन् यस्मिन् स्थले अमृतबिन्दवः पतिताः आसन्, तस्मिन् तस्मिन् स्थले कुम्भोत्सवः (कुम्भमेला) भवति । प्रति चतुर्थे वर्षे क्रमेण उज्जयिनी-नासिक-प्रयाग-हरिद्वारेषु अर्धकुम्भयोगकाले कुम्भोत्सवस्य आयोजनं भवति । द्वादशे (१२) वर्षे व्यतीते सति अर्थात् प्रति द्वादशे वर्षे क्रमेण उज्जयिनी-नासिक-प्रयाग-हरिद्वारेषु महाकुम्भोत्सवस्यायोजनं भवति । कुम्भोत्सवः प्रायशः सार्धैकमासपर्यन्तं चलति । कुम्भोत्सवे कोटिशः भक्ताः भागं वहन्ति । कुम्भोत्सवकाले गङ्गास्नानस्य महत्वमस्ति । अतः भक्ताः मोक्षपुरुषार्थस्य लक्ष्यं साधयितुं गङ्गास्नानं कुर्वन्ति । हरिद्वारस्य ब्रह्मकुण्डनामके स्थले अमृतबिन्दवः पतिताः आसन् । ब्रह्मकुण्डः हरिद्वारस्य ‘हर की पेड़ी’- नामके गङ्गाघट्टे स्थितोऽस्ति ।
राजाजी 'नेशनल् पार्क्'
सम्पादयतुएतन्मण्डलमं प्राणिसङ्ग्रहालयाय अपि प्रसिद्धमस्ति । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् मण्डलम् । हरिद्वारे राजाजी 'नेशनल् पार्क्' अस्ति । तस्मिन् प्राणिसङ्ग्रहालये विभन्नाः प्राणिनः सन्ति, यथा – व्याघ्रः, चित्रकः, सिंहः, हरिणः, भल्लूकः ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यानुबन्धः
सम्पादयतुhttp://www.mapsofindia.com/maps/uttaranchal/districts/haridwar.htm
http://www.euttaranchal.com/uttaranchal/haridwar.php
http://dchar.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine