पश्चिमत्रिपुरामण्डलम्

(पश्चिमत्रिपुरामण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)

पश्चिमत्रिपुरामण्डलं (वङ्ग: পশ্চিম ত্রিপুরা জেলা आङ्ग्ल: West Tripura District) त्रिपुराराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् आगरतला इत्येतन्नगरम् । आगरतला इत्येतन्नगरं त्रिपुराराज्यस्य अपि केन्द्रं विद्यते ।


West Tripura District

পশ্চিম ত্রিপুরা জেলা
मण्डलम्
त्रिपुराराज्ये पश्चिमत्रिपुरामण्डलम्
त्रिपुराराज्ये पश्चिमत्रिपुरामण्डलम्
देशः  India
जिल्हा पश्चिमत्रिपुरामण्डलम्
विस्तारः १०,४८६ च.कि.मी.
जनसङ्ख्या(२०११) १७,२५,७३९
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://westtripura.nic.in/
त्रिपुराराज्यम्
कमलसागर मन्दिरम्
राजप्रासाद:

भौगोलिकम् सम्पादयतु

पश्चिमत्रिपुरामण्डलस्य विस्तारः १०,४८६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पश्चिमोत्तरदिशि बाङ्गलादेशः, पूर्वदिशि उत्तरत्रिपुरामण्डलं, दक्षिणदिशि दक्षिणत्रिपुरामण्डलम् अस्ति । मण्डलेऽस्मिन् २००० मिल्लीमिटर्मित: वार्षिकवृष्टिपात: भवति । अत्र षट् मुखपर्वतावल्य: सन्ति । तासु देवतामुरा, बारामुरा, अथरामुरा च सन्ति । गोमती, हावरा च प्रमुखनद्यौ । मण्डलेऽस्मिन् तृणाच्छादनस्य, वृक्षाणां च प्राचुर्यं दृश्यते ।

जनसङ्ख्या सम्पादयतु

पश्चिमत्रिपुरामण्डलस्य जनसङ्ख्या(२०११) १७,२५,७३९ अस्ति । अस्मिन् ८,७९,४२८ पुरुषा:, ८,४६,३११ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ५७७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६२ अस्ति । अत्र साक्षरता ८८.६९ % अस्ति । मण्डलेऽस्मिन् ६०.७३% जना: ग्रामेषु निवसन्ति ।

कृषि: उद्यमाश्च सम्पादयतु

कृषि: एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । काफीबीजं(coffee), रबर, 'कोकोआ', दालचिनी (cinnamon), औषन(black pepper), काजुतकं, गोधूम:, कलाय: इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनमपि अस्य मण्डलजनानां जीविकासाधनम् अस्ति । मत्स्योद्यमः, कुक्कुटपालनं च प्रचलति अत्र । 'लिग्नाइट', 'प्लास्टिक मृत्तिका'(plastic clay), नैसर्गिकवायु: च अस्य मण्डलस्य प्रमुखखनिजोत्पादनानि सन्ति । एतै: सह हस्तवस्त्रोद्यमा: चायोत्पादनोद्यमा:, ज्यूट्-उद्यमा: च प्रचलन्ति ।

ऐतिहासिकं किञ्चित् सम्पादयतु

१९४७ तमवर्षपर्यन्तं त्रिपुराराज्यपरिसरोऽयं राजा वीरविक्रम किशोर माणिक्य बहादुर् अस्य आधिपत्ये आसीत् । अस्य मरणानन्तरं तस्य विधवा-पत्नी स्वपुत्रै: सह शासनं कृतवती । ९ सप्टे.१९४७ दिनाङ्के परिसरोऽयं राज्यविभाग-३ मध्ये समाविष्ट: जात: । १ नोव्हेम्बर १९५६ दिनाङ्के राज्यमिदं केन्द्रशासितप्रदेशत्वेन संस्थापितम् । १९७० तमे वर्षे राज्यमिदं मण्डलत्रयेण सह स्थापितम् । तदा एव अस्य मण्डलस्य स्थापना जाता ।

उपमण्डलानि सम्पादयतु

  • आगरतळा
  • बिशालगड
  • बोक्सानगर
  • डुक्ली
  • हेजमारा
  • जम्पुइजाला
  • जिरानिया
  • कल्याणपुर
  • कठालिया
  • खोवइ
  • माण्डवै
  • मेळघर
  • मोहनपुर
  • तेलैमुरा
  • मुङ्गिआकामी
  • तुळशिखर
  • पब्मबिल

लोकजीवनम् सम्पादयतु

कृषि: अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । रथजत्रा-मेला, शिवारात्रि-मेला, श्री-पञ्चमी-मेला, चरकमेला,जन्माष्टमी-मेला, 'बरुआनी' मेला, बैशाखी-मेला इत्यादय: बह्व्य: यात्रा:, एकत्रीकरणोत्सवा: च प्रचलन्ति अत्र । 'खर्ची'उत्सव:, 'केर' उत्सव: च प्रचलति । अत्रस्थजना: बङ्गाली, काक्बराक्, मणिपुरी च भाषया व्यवहरन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • उज्जयन्तराजप्रासाद:
  • कुञ्जवनराजप्रासाद:
  • मलञ्चानिवास
  • पुरातनं आगरतलानगरम्
  • रुद्रसागर तडाग:
  • नीरमहाल-राजप्रासाद:
  • कमलसागर:
  • जगन्नाथमन्दिरम्
  • वेणुबनविहार:
  • राज्य-वस्तुसङ्ग्रहालय:

बाह्यानुबन्धाः सम्पादयतु