पोताश्रयः
पोताश्रयः ( ( शृणु) /ˈpoʊtɑːʃrəjəhə/) (हिन्दी: बन्दरगाह, आङ्ग्ल: Port) अन्ताराष्ट्रियव्यापाराय अस्माकं देशस्य प्रवेशद्वारं भवति । अयं पोताश्रयः अपि कथ्यते । एतेषां पोताश्रयाणां साहाय्येन यात्रिकाः जलयानानां वस्तूनां विश्वस्मिन् परिवाहनं कुर्वन्ति [१] ।
पोताश्रयाः जलयानेभ्यः यातायातस्य सौकर्यानि प्रददति । एतेभ्यः सौकर्येभ्यः पोताश्रयाणाम् अधिकारिणः विभिन्नसेवानाम् आयोजनं कुर्वन्ति । कस्यचित् पोताश्रयस्य महत्वं नौभारस्वरूपेण, बृहज्जलयानानां सङ्ख्यया च निश्चीयते । नौभारः पोताश्रयस्य पृष्ठप्रदेशस्य विकासस्य सूचकः वर्तते [२] ।
प्रायः पोताश्रयाणां वर्गीकरणं तेषां यातायातस्य प्रकारैः क्रियते । नौभारानुसारं पोताश्रयस्य प्रकाराः अधः लिखिताः सन्ति ।
औद्योगिकः पोताश्रयः
सम्पादयतुअयं पोताश्रयः महाविक्रयनौभाराय विशिष्टः अस्ति । एतेषु पोताश्रयेषु धान्यानां, शर्करायाः, अयस्कस्य, तैलस्य, रसायनस्य च यातायातः भवति [४] ।
वाणिज्यिकः पोताश्रयः
सम्पादयतुएते पोताश्रयाः सामान्यनौभारस्य उत्पादनानां, विनिर्मितवस्तूनां च यातायातं कुर्वन्ति । एतेषु पोताश्रयेषु यात्रिणां यातायातः अपि भवति [५] ।
विस्तृतः पोताश्रयः
सम्पादयतुएते पोताश्रयाः अधिकमात्रायां सामान्यनौभारस्य महाविक्रये आयोजनं कुर्वन्ति । विश्वस्य अधिकतमाः पोताश्रयाः विस्तृतपोताश्रयाणां स्वरूपत्वेन विभक्ताः सन्ति [६] ।
अवस्थित्याधारेण पोताश्रयस्य प्रकाराः
सम्पादयतुअन्तर्देशीयपोताश्रयः
सम्पादयतुएते पोताश्रयाः समुद्रतटात् दूरे स्थिताः भवन्ति । नदीमाध्यमेन, कूल्यामाध्यमेन च समुद्रैः सह एते पोताश्रयाः सम्बद्धाः भवन्ति । एते पोताश्रयाः वर्गतलयुतैः जलयानैः एव गम्याः भवन्ति । ’मानचेस्टर्’ इति एतन्नगरम् एकया कूल्यया सह सम्बद्धं वर्तते । मेम्फिस् इत्येतन्नगरं मिसीसिपी-नद्याः घोषे स्थितम् अस्ति । कोलकाता-महानगरं हुगलीनद्याः तटे स्थितमस्ति । हुगली-नदी गङ्गायाः एव अपरं स्रोतः वर्तते [७] ।
बाह्यपोताश्रयः
सम्पादयतुएते पोताश्रयाः गहनस्य जलस्य सन्ति । एते पोताश्रयाः वास्तविकपोताश्रयेषु सुदूरे निर्मिताः भवन्ति । यानि बृहज्जलयानानि भवन्ति तानि जलयानानि पोताश्रयं प्राप्तुम् असमर्थानि भवन्ति । तानि जलयानानि बाह्यपोताश्रयान् प्राप्नुवन्ति । एथेन्स्, यूनान् इत्येतयोः पोताश्रययोः पिरेइअस् नामकः बाह्यपोताश्रयः वर्तते [८] ।
विशिष्टकार्याधारितानां पोताश्रयाणां प्रकाराः
सम्पादयतुतैलपोताश्रयः
सम्पादयतुएते पोताश्रयाः तैलस्य प्रक्रमणस्य, नौपरिवहनस्य च कार्यं कुर्वन्ति । तेषु पोताश्रयेषु कश्चित् टैङ्कर्-पोताश्रयः, कश्चित् तैलशोधन-पोताश्रयः च वर्तते । वेनेजुएला-देशे माराकाइबो, ट्युनिशिया-देशे एस्सखीरा, लेबनान्-देशे त्रिपोली च टैङ्कर्-पोताश्रयः अस्ति । पर्शिया-देशस्य गर्ते अबादान्-नामकः तेलशोधनपोताश्रयः वर्तते [९] ।
मार्गपोताश्रयः (विश्रामपोताश्रयः)
सम्पादयतुएते पोताश्रयाः समुद्रमार्गेषु विश्रामकेन्द्ररूपेण विकसिताः सन्ति । तत्र जलयानानि इन्धनं, जलं, खाद्यसामग्रीं च आनेतुं गच्छन्ति । समयान्तरे ते पोताश्रयाः वाणिज्यपत्तनेषु परिवर्तिताः । अदन्, हानोलूलू, सिङ्गापुर् च मार्गपोताश्रयः वर्तते [१०] ।
पैकेट् स्टेशन्
सम्पादयतुएते पोताश्रयाः फेरी-पोताश्रयः इत्यपि कथ्यते । एतैः पोताश्रयैः लघ्वन्तराले जलीयक्षेत्रं प्रति सन्देशानां, यात्रिणां च परिवहनं क्रियते [११] ।
आन्त्रपो-पोताश्रयः
सम्पादयतुएतेषु पोताश्रयेषु विभिन्नदेशेभ्यः वस्तूनि निर्याताय क्रोडीक्रियते । एशिया-महाद्वीपे सिङ्गापुर्-महानगरम् आन्त्रपो-पोताश्रयः अस्ति । यूरोप्-महाद्वीपे रोटरडम् इति नामकः आन्त्रपो-पोताश्रयः स्थितः अस्ति [१२] ।
नौसेनापोताश्रयः
सम्पादयतुएतेषां पोताश्रयाणां सामाजिकं महत्वं वर्तते । एते पोताश्रयाः युद्धजलयानेभ्यः सेवाः प्रददति । तेभ्यः जलयानेभ्यः ते पोताश्रयाः कार्यशालाः अपि प्रचालयन्ति । भारत-देशे कोच्चि, कारवाड इत्येतौ द्वौ नौसेनापोताश्रयौ स्तः [१३] ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यनुबन्धाः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये पोताश्रयः सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
सम्पादयतु- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 90. ISBN 8174506748.