प्रमुखा विकल्पसूचिः उद्घाट्यताम्
BW Fjord an Glameyer Stack 2007-12-15.JPG

परिवहनम् ( /ˈpərɪvəhənəm/) (हिन्दी: परिवहन, आङ्ग्ल: Transportation) अर्थात् वस्तूनां, व्यक्तीनां च एकस्थानात् अन्यत्र वहनम् इति । प्राकृतिकसंसाधनानाम् आर्थिकक्रियाकलापानाम् आपणानाम् एकस्मिन् स्थाने एव प्राप्तिः दुर्लभा । उत्पादनकेन्द्राणाम् उपभोगकेन्द्रैः सह संयोगः परिवहनेन, सञ्चारेण, व्यापारेण च भवति । प्रत्येकेषु प्रदेशेषु तत्रत्यानाम् आवश्यकानां वस्तूनाम् उत्पादनम् अत्यधिकं भवति । तादृशानां वस्तूनां व्यापारः विनिमयश्च परिवहनसञ्चारयोः आधारितः भवति । तथैव जीवनस्य स्तरः, गुणवत्ता च दक्षपरिवहनसञ्चारव्यापारेषु आधारिता भवति । प्रारम्भिकावस्थायां परिवहनसञ्चारयोः एकमेव साधनमासीत् । किन्तु साम्प्रते काले द्वयोः स्वरूपं स्पष्टं, विशिष्टं च वर्तते । परिवहनेन उत्पादनकेन्द-उपभओगकेन्द्रयोः कृते योजकः, वाहकश्च प्राप्यते । तेन माध्यमेन व्यापारः क्रियते ।

व्यक्तीनां, वस्तूनां च एकस्थलात् अन्यस्थलप्राप्तिः परिवहनेन भवति । परिवहने मनुष्याणां, पशूनां, विभिन्नयानानां च उपयोगः भवति । गमनागमनस्य प्रक्रिया स्थले, जले, वायौ च भवति ।

मार्गाः, रेलमार्गाः च स्थलीयपरिवहनं वर्तते । जलमार्गाः, वायुमार्गाः च परिवहनस्य अन्यतमौ द्वौ प्रकारौ स्तः । नलिकारेखाः (pipeline) पेट्रोलियम्, प्राकृतिकवायून्, तरलावस्थान्, अयस्कान् च परिवहति ।[१]

परिवहनं समाजस्य आधारभूतानाम् आवश्यकतानां सन्तुष्ट्यर्थं निर्मितः कश्चित् सेवायाः उद्योगः वर्तते । अस्मिन् प्रकल्पे परिवहनाय मार्गाणां, मनुष्याणां, वस्तूनां वहनार्थं यानानां च समावेशः क्रियते । प्रतिदेशे विभिन्नप्रकारकाणां परिवहनानां विकासः भवति । अनेकमार्गाणाम् एकस्यां श्रेण्यां संयोजनेन निर्मितं प्रारुपं परिवहनजालम् उच्यते ।[२]

अन्तर्विषयाः

परिवहनस्य प्रकाराःसम्पाद्यताम्

विश्वपरिवहनस्य प्रमुखप्रकाराः चत्वारि सन्ति । यथा – स्थलपरिवहनं, जलपरिवहनं, वायुपरिवहनं, नलिकारेखा (Pipeline) परिवहनं च । एतेषामुपयोगः अन्तःप्रादेशिकाय, अन्ताराष्ट्रियाय च भवति । स्थलपरिवहनेन, वायुपरिवहनेन, जलपरिवहनेन च यात्रीणां, वस्तूनां च वहनं क्रियते ।[३]

परिवहितानां वस्तूनां, सेवानां प्रकाराणां, परिवहनस्य व्ययानां च आधारेण परिवहनस्य प्रकाराणां सार्थकता गण्यते । वस्तूनां, मनुष्याणां एकस्थानात् अन्यत्र वहनं मार्गपरिवहनेन (Road) वेगेन भवति । कस्माच्चित् स्थलात् स्थूलपदार्थानां विशालपरिमाणस्य दीर्घान्तरं यावत् वहनाय रेलमार्गः अनुकूलः वर्तते । उच्चमूल्यवतां, नाशवतां च वस्तूनां वायुमार्गेण परिवहनं सर्वश्रेष्ठं भवति । परिवहनाय वायुयातायातं सर्वश्रेष्ठं वर्तते ।[४]

मार्गः (Road)सम्पाद्यताम्

बहूनां वस्तूनां सेवानां सञ्चालनं स्थले एव भवति । पुरातनकाले मानवः स्वयं वाहकः आसीत् । तदनन्तरं भारवाहनाय पशूनाम् उपयोगः आरभत । चक्राणाम् (Wheel) आविष्कारानन्तरं यानानां प्रयोगः महत्वपूर्णः अभवत् । अष्टादशशताब्द्यां बाष्पयन्त्रस्य आविष्कारानन्तरं परिवहने क्रान्तिः अभवत् । प्रायः प्रथमः सार्वजनिकः रेलमार्गः १८२५ तमे वर्षे उत्तरीय इङ्गलेण्ड देशस्य स्टॉकटन् डर्लिङ्ग्टन् इत्येतयोः मध्ये आरब्धः । तत्पश्चात् १९ तमायां शताब्द्यां परिवहने रेलमार्गः लोकप्रियः, तीव्रतमः च अभवत् । ततः परम् अन्तर्दहनयन्त्रस्य आविष्कारेण मार्गाणां गुणवत्तायां वाहनानां परिवहने क्रान्तिरागता । स्थलपरिवहने नवीनतमस्य विकासस्य स्वरूपे नलिकारेखाणां (Pipeline), राजमार्गाणां तारमार्गाणां व्यवस्था आरभत । खानिजतैलस्य, अवमलस्य, नलिकामलस्य इत्यादीनां द्रवपदार्थानां परिवहनं नलिकारेखाभिः क्रियते ।

प्रायः मानववाहकः, पशुवाहनं यानम् इतीदं परिवहनस्य बहुमूल्यसाधनानि सन्ति । किन्तु बृहद्वाहकाः अल्पमूल्याः भवन्ति । साम्प्रतम् अपि भारतदेशे, चीनदेशे च मानववाहकाः, पशुवाहनानि प्रचलितानि सन्ति ।

अल्पान्तरे रेलपरिवहनस्य अपेक्षया मार्गपरिवहनम् आर्थिकदृष्ट्या लाभकरं भवति । मार्गैः वस्तूनां परिवहनं महत्वपूर्णं भवति । मार्गपरिवहनेन गृहं प्रति वस्तूनि प्राप्यन्ते । अपक्वमार्गाः निर्माणदृष्ट्या सरलाः भवन्ति । किन्तु वर्षर्तौ एतेषु मार्गेषु परिवहनम् असम्भवम् । पक्वमार्गाः अपि अधिकवर्षायां प्रभाविताः भवन्ति । तादृश्यां परिस्थितौ रेलमार्गैः परिवहनं क्रियते । किन्तु रेलमार्गाः लघवः भवन्ति । तेन कारणेन अल्पव्ययेन आवश्यकतायाः पूर्तिः अशक्या । अतः मार्गैः सर्वेषां देशानां व्यापारः, वाणिज्यं च विकसितं भवति । पर्यटनाय मार्गाः एव महत्वपूर्णाः सन्ति ।

विकासिदेशेषु, विकासशीलदेशेषु च मार्गाणां गुणवत्तायां पर्याप्तम् अन्तरं प्राप्यते । यतः मार्गाणां निर्माणाय संरक्षणाय च बहुधनव्ययः भवति । विकसितदेशेषु श्रेष्ठगुणवत्तायाः मार्गाः सर्वत्र प्राप्यन्ते । किन्तु अनेकैः कारणैः विश्वस्य मार्गतन्त्रं सम्पूर्णतया विकसितं न जातम् ।

विश्वस्य मोटर-वाहनस्य मार्गाः १५० लक्षं लम्बमानाः सन्ति । तस्य ३३% भागः उत्तर अमेरिका महाद्वीपे प्राप्यते । पश्चिमयूरोप महाद्वीपस्य तुलनया उत्तर अमेरिका महाद्वीपे वाहनानां सङ्ख्या अधिका वर्तते । अस्याशयः अस्ति यत् विश्वस्मिन् मार्गाणां विकासे प्रादेशिकेषु, राष्ट्रियेषु, अन्ताराष्ट्रियेषु, महाद्वीपीयेषु च स्तरेषु असमानता प्राप्यते ।[५]

यातायातस्य प्रवाहःसम्पाद्यताम्

गतवर्षेषु मार्गाणां यातायाते अतिवृद्धिः जाता । मार्गतन्त्रं यदा यातायातस्य आवश्यकतानुरूपं विकसितं न भवति, तदा मार्गे सम्मर्दः (traffic) वर्धते । प्रातःकाले, सायङ्काले च मार्गेषु अधिकः सम्मर्दः दृष्टुं शक्यते । अर्थात् कार्यस्य पूर्वं कार्यस्य परं वा इति । विश्वस्य बहूनि नगराणि सम्मर्दस्य समस्यया प्रभावितानि सन्ति ।[६]

विभिन्नदेशानां मार्गाणां दैर्घ्यम्[७]सम्पाद्यताम्

  1. भारत - १०५ प्रतिवर्ग कि. मी.
  2. जापान् - ३२७ प्रतिवर्ग कि. मी.
  3. फ्रान्स् - १६४ प्रतिवर्ग कि. मी.
  4. यूनाइटेड् किङ्गडम् - १६२ प्रतिवर्ग कि. मी.
  5. संयुक्त राज्य अमेरिका - ६७ प्रतिवर्ग कि. मी.
  6. स्पेन् - ६८ प्रतिवर्ग कि. मी.
  7. श्रीलङ्का - १५१ प्रतिवर्ग कि. मी.

महामार्गःसम्पाद्यताम्

दूरस्थानां नगराणां सन्धिः महामार्गैः क्रियते । अबाधितरूपेण यातायातं भवेत्, अतः एतावत् निर्माणं क्रियते । यातायातस्य अबाधितप्रवाहस्य सौकर्याय विभिन्न-यातायातरेखा (Lane), सेतुः, ८० मी. विस्तृताः, मार्गाः च भवन्ति । विकसितदेशेषु प्रत्येकानि नगराणि, पत्तनानि च महामार्गैः परस्परं सम्बद्धानि सन्ति ।[८]

अमेरिका-देशे महामार्गाणां विकासः अधिकः वर्तते । तत्र प्रायः ०.६५ कि. मी. प्रतिवर्गं कि. मी. अस्ति । तत्र प्रत्येकं स्थानं महामार्गात् २० कि. मी. दूरे स्थितम् अस्ति । पश्चिमप्रशान्तमहासागरीयतटेषु स्थितानि नगराणि पूर्वदिशि अटलाण्टिकमहासागरीयतटेषु स्थितैः नगरैः सह सम्बद्धानि सन्ति । तथैव उत्तरदिशि केनडा देशस्य नगराणि दक्षिणदिशि मैक्सिको इत्यस्य नगरैः सह सम्बद्धानि सन्ति ।

पान-अमेरिकन् महामार्गः इदानीं निर्माणाधीनः वर्तते । तस्य अधिकांशः भागः निर्मितः जातः । दक्षिण-अमेरिका महाद्वीपस्य देशाः, मध्य अमेरिका महाद्वीपस्य देशाः, संयुक्त राज्य अमेरिका, केनडा च तेन महामार्गेण परस्परं सम्बद्धाः सन्ति ।

वाहनानां विशालसङ्ख्या, महामार्गाणां सुविकसितं जालं च यूरोप-महाद्वीपे प्राप्यते । किन्तु महामार्गाणां रेलमार्गैः जलमार्गैः सह प्रतिद्वन्द्विता वर्तते ।[९]

रूस-देशे यूराल-पर्वतस्य पश्चिमदिशि स्थितेषु औद्योगिकेषु प्रदेशेषु महामार्गाणाम् अत्यधिकः विकासः जातः । मास्को-ब्लाडीवोस्टक् महामार्गः पूर्वदिशि स्थितेषु प्रदेशेषु वर्तते । रूस-देशस्य भौगोलिकक्षेत्रफलम् अत्यधिकविस्तृतं वर्तते । तेन कारणेन तत्रत्याः महामार्गाः रेलमार्गाणाम् अपेक्षया महत्वपूर्णाः न सन्ति ।

चीन-देशे महामार्गाः प्रमुखानि नगराणि सञ्योजयन्ति । एकः नूतनमहामार्गः तिब्बतक्षेत्रे चेगडू इत्यनेन ल्हासा इतीदं सञ्योजयति ।

भारत-देशे बहवः महामार्गाः प्राप्यन्ते । ते महामार्गाः नगराणि, पत्तनानि च परस्परं सञ्योजयन्ति । राष्ट्रियमहामार्गः ७ वाराणसीनगरं कन्याकुमारी नगरेण सह सञ्योजयति । अयं देशस्य दीर्घतमः महामार्गः वर्तते । साम्प्रतं स्वर्णिमचतुर्भुजद्रुतमार्गाणां निर्माणं प्रचलति । सर्वकारस्य योजना अस्ति यत् अनेन मार्गेण प्रमुखमहानगराणि, मुम्बई, बैङ्गळुरु, चैन्नई, कोलकाता, हैदराबाद इत्येतानि परस्परं सम्बद्धानि भवेयुः ।

आफ्रिका-महाद्वीपे उत्तरदिशि स्थितः एकः महामार्गः अल्जियर्स् इतीदं गुयाना इत्यस्य कोनाफ्रि इत्यनेन सह सञ्योजयति । तथैव कैरा अपि केपटाऊन् इत्यनेन सह सम्बद्धम् अस्ति ।[१०]

सीमावर्तीमार्गाःसम्पाद्यताम्

अन्ताराष्ट्रियसीमासु निर्मिताः मार्गाः सीमावर्तिमार्गाः कथ्यन्ते । इमे मार्गाः दूरस्थेषु क्षेत्रेषु निवसितां जनानां प्रतिरक्षणाय, प्रमुखनगरैः सह सम्बद्धाय च महत्वपूर्णाः भवन्ति । प्रायः प्रत्येकेषु देशेषु ग्रामेभ्यः सैन्यशिबिरेभ्यः वस्तूनि प्रेषणाय सीमावर्तिमार्गाः प्राप्यन्ते ।[११]

रेलमार्गःसम्पाद्यताम्

रेलमार्गैः स्थूलवस्तूनां, यात्रिणाम् अधिकदूरस्थले यातायातः क्रियते । अयम् अपि परिवहनस्य एकः प्रकारः वर्तते । रेलमार्गस्य विस्तारः प्रत्येकेषु देशेषु भिन्नः प्राप्यते । सामान्यतः बृहत् (१.५ मी. वा तस्मादधिकं), मानकः (१.४४ मी.), मीटर् लाइन् (१ मी.), लघु च इति प्रकारकेषु रेलमार्गाः विभक्ताः सन्ति । ब्रिटेन-देशे मानकरेखा (Line) उप्युज्यते ।

दैनिकावागमनस्य रेलयानानि ब्रिटेन-देशे, संयुक्त राज्य अमेरिका, जापान्-देशे, भारत-देशे च अत्यधिकानि लोकप्रियानि सन्ति । दैनिकरेलयानैः जनाः प्रतिदिनम् एकस्मात् स्थानात् अन्यत्र आवागमनं कुर्वन्ति । विश्वस्मिन् १३ लक्षं कि. मी. यावत् दैर्घ्याः रेलयातायातमार्गाः वर्तन्ते ।[१२]

चितदेशेषु रेलमार्गाणां दैर्घ्यं[१३]सम्पाद्यताम्

  1. संयुक्त राज्य अमेरिका – २७८.३ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  2. रूस – १६०.८ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  3. भारत – १४४.७ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  4. केनडा – ९३.५ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  5. जर्मनी – ९०.८ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  6. चीन – ७०.१ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  7. ऑस्ट्रेलिया – ४०.० प्रति १०० वर्ग कि. मी. क्षेत्रम्
  8. संयुक्त राष्ट्र – ३७.९ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  9. फ्रान्स् – ३४.५ प्रति १०० वर्ग कि. मी. क्षेत्रम्
  10. ब्राजील् – ३०.१ प्रति १०० वर्ग कि. मी. क्षेत्रम्

यूरोप्-महाद्वीपे विश्वस्य सघनतमं रेलतन्त्रं वर्तते । तत्र रेलमार्गाः प्रायः ४ लक्षं ४० सहस्रं कि. मी. दीर्घाः वर्तन्ते । लन्दन्, पेरिस्, ब्रुसेल्स्, मिलान्, बलिन्, वारसा च इत्येतेषु नगरेषु महत्वपूर्णानि रेलकेन्द्राणि वर्तन्ते । इङ्ग्लेण्ड् देशे यूरो टनल् ग्रुप् इत्यनेन प्रचालितः सुरङ्गामार्गः लन्दन् इतीदं पेरिस इत्यनेन सह सञ्योजयति ।

यूराल् इत्यस्य पर्वतस्य पश्चिमे भागे अत्यन्तं सघनं जालं वर्तते । तेन जालेन युक्ते रूस्-देशे रेलमार्गैः देशस्य परिवहनस्य ९० प्रतिशतं भागः प्रबन्धितः भवति । मास्को इति महानगरं रेलवे इत्यस्य महत्वपूर्णः मुख्यालयः वर्तते । तत्र देशस्य विस्तृतानां भौगोलिकानां क्षेत्राणां विभिन्नेषु भागेषु प्रमुखाः रेलरेखाः (railline) विकिसिताः सन्ति ।[१४]

उत्तर-अमेरिका महाद्वीपे सर्वाधिकं विस्तृतं रेलमार्गतन्त्रं वर्तते । तत् तन्त्रं विश्वस्य रेलमार्गाणां ४० प्रतिशतं वर्तते । अस्य विपरीतं यूरोप्-महाद्वीपस्य अनेकेषु देशेषु रेलमार्गाणां प्रयोगः यात्रिणां परिवहनस्य अपेक्षया स्थूलपदार्थानां (अयस्क, धान्यं, काष्ठं, यन्त्रम् च) परिवहने अधिकः भवति । संयुक्त राज्य अमेरिका, केनडा इत्येतयोः उच्चौद्योगिकेषु, नगरीयप्रदेशेषु च सघनरेलतन्त्रं प्राप्यते ।

केनडा देशे रेलमार्गः सार्वजनिकविभागेषु वर्तते । अधिकजनसङ्ख्यायुतेषु क्षेत्रेषु अपि रेलमार्गाः सन्ति । महाद्वीपपारीयरेलमार्गैः गोधूमस्य, अङ्गारस्य च परिवहनं क्रियते ।

ऑस्ट्रेलिया-महाद्वीपे प्रायः ४०,००० कि. मी. दीर्घाः रेलमार्गाः वर्तन्ते । तस्य रेलमार्गस्य २५ प्रतिशतं न्यु साउथ वेल्स् इत्यस्मिन् प्राप्यते । न्यूजीलैण्ड् देशे मुख्यतः उत्तरद्वीपे रेलमार्गाः प्राप्यन्ते । ते मार्गाः कृषिक्षेत्रेषु उपयुज्यन्ते ।[१५]

दक्षिण अमेरिका महाद्वीपे द्वयोः प्रदेशयोः रेलमार्गाः सघनाः सन्ति । अर्जेण्टिना इत्यस्य पम्पास्, ब्राजील् इत्यस्य कॉफी उत्पादकः प्रदेशः च । एतयोः द्वयोः प्रदेशयोः दक्षिण अमेरिका महाद्वीपस्य रेलमार्गाणां ४० प्रतिशतं भागः प्राप्यते । दक्षिण अमेरिका महाद्वीपस्य शेषदेशेषु केवलं चिली देशे महत्वपूर्णदैर्घ्यस्य रेलमार्गाः सन्ति । ते तटीयकेन्द्राणि आन्तरिकक्षेत्रैः सह सञ्योजयन्ति । पेरू, बोलीविया, इक्वाडोर्, कोलम्बिया, वेनेजुएला इत्यादिषु एकरेखायाः रेलमार्गाः प्राप्यन्ते ।

तत्र केवलं महाद्वीपपारीयरेलमार्गः वर्तते । सः मार्गः एण्डिज् पर्वतानाम् अपरे भागे ३९०० मी. औन्नत्ये स्थितः अस्ति । सः ब्यूनसआयर्स (अर्जेण्टिना) इतीदं वाल्पैराइजो इत्यनेन सह मेलयति

एशिया महाद्वीपे जापान्-देशस्य, चीन-देशस्य, भारत-देशस्य च सघनेषु आवासिक्षेत्रेषु रेलमार्गाणां सघनतमं घनत्वं प्राप्यते । अत्र अन्येषां देशानाम् अपेक्षया अल्परेलमार्गाः निर्मिताः सन्ति । विस्तृतमरुस्थलानां कारणेन, अधिकजनसङ्ख्यायाः कारणेन च रेलमार्गाणां न्यूनतमः विकासः जातः ।

यद्यपि आफ्रिका-महाद्वीपः विश्वस्य द्वितीयः बृहत्तमः महाद्वीपः वर्तते, तथापि तत्र ४०,००० कि. मी. दीर्घाः रेलमार्गाः सन्ति । तेषु मार्गेषु स्वर्णस्य, हीरकमणेः च सान्द्रणेन, ताम्रखननस्य क्रियाकलापैः च दक्षिण आफ्रिका महाद्वीपे १८,००० कि. मी. दीर्घाः रेलमार्गाः सन्ति ।[१६]

आफ्रिका-महाद्वीपस्य प्रमुखाः रेलमार्गाः सन्ति यत्[१७] -

  1. बेङ्गुएला रेलमार्गः - अङ्गोला तः कटङ्गा-जाम्बिया ताम्रस्य पेटिका पर्यन्तम् ।
  2. तञ्जानिया रेलमार्गः – जाम्बिया ताम्रस्य पेटिका तः तटे स्थितं दार-ए-सलाम् पर्यन्तम् ।
  3. बोसवाना तः जिम्बाब्वे पर्यन्तं रेलमार्गः, यः स्थलरूद्धानि राज्यानि दक्षिण आफ्रिकीरेलतन्त्रेण सह सम्बद्ध्यते ।
  4. दक्षिण-आफ्रिका इत्यस्य गणतन्त्रे केपटाउन् तः प्रेटोरिया पर्यन्तं ब्लू रेल ।

पारमहाद्वीपीयरेलमार्गःसम्पाद्यताम्

पारमहाद्वीपीयरेलमार्गाः सम्पूर्णमहाद्वीपस्य एकपक्षतः अपरपक्षपर्यन्तं भवति । आर्थिकराजनैतिकाभ्यां कारणैः विभिन्नदिक्षु दीर्घयात्राभ्यः अस्य मार्गस्य निर्माणं क्रियते ।[१८]

पार-साइबेरियन् रेलमार्गःसम्पाद्यताम्

रूस्-देशस्य अयं प्रमुखः रेलमार्गः वर्तते । पश्चिमदिशि सेण्ट् पीटर्सबर्गतः पूर्वदिशि प्रशान्तमहासागरतटस्थं मास्को, कजान्, ट्युमिन्, नोवोसिबिर्स्क्, चिता, खबरोवस्क् पर्यन्तम् अयं मार्गः वर्तते । अयम् एशिया-महाद्वीपस्य महत्वपूर्णः रेलमार्गः विद्यते । विश्वस्य सर्वाधिकेन दैर्घ्ययुग्मपथेन (९,३२२ कि. मी.) युक्तः विद्युतीकृतः पारमहाद्वीपीयरेलमार्गः वर्तते ।[१९]

पार-कैनेडियन् रेलमार्गःसम्पाद्यताम्

केनडा इत्यस्य मार्गस्य दैर्घ्यं ७,०५० कि. मी. अस्ति । अस्य रेलमार्गस्य निर्माणं १८८६ तमे वर्षे अभवत् । अयं रेलमार्गः पूर्वदिशि हैलिफैक्स् तः माण्ट्रियल्, ओटावा, विनिपेग्, कलगैरी, पश्चिमे प्रशान्ततटे स्थितं वैङ्कुवर् पर्यन्तं वर्तते । अयं जलमार्गः केनडा इत्यस्य आर्थिकरेखा वर्तते ।[२०]

सङ्घरेलमार्गः प्रशान्तरेलमार्गश्चसम्पाद्यताम्

अयं रेलमार्गः अटलाण्टिकतटे स्थितं न्यूयार्क् इतीदं क्लीवलैण्ड्, शिकागो, ओमाहा, इवान्स्, ऑग्डन्, सैक्रामेण्टो, प्रशान्तमहासागरस्य तटे स्थितं फ्रान्सिस्को इत्येतैः सह मेलयति ।[२१]

ऑस्ट्रेलियाई पारमहाद्वीपीयरेलमार्गःसम्पाद्यताम्

अयं रेलमार्गः पश्चिमतटे स्थितं पर्थ इतीदं कलगुर्ली, ब्रोकन् हिल्, पोर्ट् ऑगस्ता, पूर्वीतटे स्थितं सिडनी इत्येतैः सह सञ्योजयति । अयं रेलमार्गः महाद्वीपस्य पश्चिमतः पूर्वदिशं प्रति गच्छति । अपरः एकः रेलमार्गः उत्तर-दक्षिणरेखाम् एडीलेड् इतीदम् एलिस् स्प्रिङ्ग इत्यनेन सह मेलयति । अग्रे इमं रेलमार्गं डार्विन्-बिरदुम् रेलमार्गेण सह सञ्योजयति ।[२२]

ओरिएण्ट् एक्सप्रेस्सम्पाद्यताम्

अयं रेलमार्गः पेरिस् इतीदं स्ट्रैस्बर्ग्, म्युनिख्, विएना, बुडापेस्ट् बेल्ग्रेड्, इस्ताम्बूल् इत्येतैः सह मेलयति । जलमार्गेण लन्दन् तः इस्ताम्बूल् पर्यन्तं १० दिनानि भवन्ति, किन्तु अनेन रेलमार्गेण लन्दन् तः इस्ताम्बूल् पर्यन्तं ९६ होरा एव भवति ।

इस्ताम्बूल इतीदं बैङ्कॉक्, ईरान्, पाकिस्तान्, भारत-देशं, बाङ्ग्लादेशं, म्यांमार च इतीदं पर्यन्तं रेलमार्गस्य निर्माणाय अपि प्रस्तावः वर्तते ।[२३]

जलपरिवहनम्सम्पाद्यताम्

जलपरिवहने महत्वपूर्णः लाभः अस्ति यत् अस्मिन् परिवहने मार्गनिर्माणस्य आवश्यकता न भवति । सर्वे महासागराः परस्परं सम्बद्धाः सन्ति । महासागरेषु विभिन्नानि जलयानानि चलन्ति । किन्तु महासागराणां द्वयोः पक्षयोः पत्तनसौकर्यस्य आवश्यकता वर्तते । इदं परिवहनम् अल्पमूल्यं भवति । यतः मार्गाणाम् अपेक्षया जलस्य घर्षणं न्यूनं भवति । जलपरिवहनस्य ऊर्जा निवेशस्य अपेक्षया न्यूना भवति । जलपरिवहनं समुद्रमार्गेषु, आन्तरिकजलमार्गेषु च विभक्तं भवति ।[२४]

समुद्रमार्गःसम्पाद्यताम्

महासागरे एकैकस्यां दिशि महामार्गाः भवन्ति । तेषां महामार्गाणां संरक्षणाय व्ययः न भवति । एकस्मात् द्वीपात् अन्यद्वीपं प्रति स्थूलवस्तूनां दैर्घ्यान्तरं परिवहनं स्थलवायुपरिवहनस्य अपेक्षया अल्पमूल्यं भवति ।[२५]

उत्तरी अटलाण्टिक समुद्रमार्गःसम्पाद्यताम्

अयं मार्गः औद्योगिकदृष्ट्या उत्तर-पूर्वी संयुक्त राज्य अमेरिका, पश्चिमी यूरोप् इति इमौ परस्परं मेलयति । विश्वस्य २५% वैदिशिकः व्यापारः अस्मिन् मार्गे एव भवति । अतः विश्वस्य व्यस्ततमः व्यापारिकजलमार्गः अयम् इति । अयं ’बृहद् ट्रङ्क् मार्गः’ इत्यपि तस्य नामन्तरम् । अस्य मार्गस्य उभयोः तटयोः पत्तनस्य, पोताश्रयस्य च विशिष्टाः सुविधाः प्राप्यन्ते ।[२६]

भूमध्यसागरीयः, हिन्दमहासागरीयः च समुद्रमार्गःसम्पाद्यताम्

अयं समुद्रमार्गः विश्वस्य अधिकतमेभ्यः देशेभ्यः, जनेभ्यः च सेवां ददाति । पोर्ट् सईद्, अदन्, मुम्बई, कोलम्बो, सिङ्गापुर् इत्यादीनि अस्य मार्गस्य महत्वपूर्णानि पत्तनानि सन्ति ।

अयं व्यावसायिकमार्गः पश्चिमयुरोपीयप्रदेशान्, पश्चिम-आफ्रीका, दक्षिण-आफ्रीका, दक्षिण-पूर्व एशिया, ऑस्ट्रेलिया, न्यूजीलैण्ड् इत्यस्य देशस्य कृषिवाणिज्ये, पशुपालनाधारित-अर्थव्यवस्थां च योजयति । स्वेज् इत्यस्याः कूल्यायाः निर्माणपूर्वम् अयं मार्गः लिवरपुल्, कोलम्बो च इति इमे परस्परं मेलयति स्म । अस्य मार्गस्य दैर्घ्यं ६,४०० कि. मी. आसीत् । स्वर्णं, हीरकमणिः, ताम्रं, टिन्, कलायः, गिरितैलं, फलं च इत्यादीनां प्राकृतिकसंसाधनैः व्यापारस्य प्रमाणेन यातायाते वृद्धिर्भवति ।[२७]

'उत्तमाशा अन्तरीप' समुद्रमार्गःसम्पाद्यताम्

अटलाण्टिक-महासागरस्य अपरे तटे अयम् एकः अन्यः महत्वपूर्णः समुद्रमार्गः वर्तते । अयं मार्गः पश्चिम- यूरोपीय, पश्चिम-आफ्रीकीदेशान् ब्राजील्, अर्जेण्टिना, उरुग्वे इत्येतैः सह योजयति । उत्तर-अटलाण्टिक मार्गस्य तुलनायां दक्षिण अमेरिका, आफ्रीका इत्येतयोः सीमितविकासेन, जनसङ्ख्यया यातायातः बहुन्यूनः वर्तते । दक्षिण-पूर्वी ब्राजील्, प्लाटा ज्वारनदमुख, दक्षिण-आफ्रीका च इत्येतेषां केषुचित् भागेषु बृहत्प्रमाणेन औद्योगिकरणम् अभवत् । रियो-डि-जैनेरो, केपटाउन् इत्येतयोः मध्ये अपि यातायतः अतिन्यूनः वर्तते ।[२८]

प्रशान्तमहासागरे अनेकमार्गैः व्यापारः क्रियते । बृहद्वृत्ते स्थितः मार्गः वैङ्कूवर्, याकोहामा इति इमौ परस्परं योजयति । यात्रायाः अन्तरम् अपि अर्धं (२,४८० कि. मी.) करोति । [२९]

उत्तरी प्रशान्त समुद्रमार्गःसम्पाद्यताम्

अयं समुद्रमार्गः अमेरिका इत्यस्य तटवर्तिपत्तनानि एशिया महाद्वीपस्य पत्तनैः सह योजयति ।

दक्षिणी प्रशान्त समुद्रमार्गःसम्पाद्यताम्

अयं समुद्रमार्गः पश्चिम-यूरोप्, उत्तर-अमेरिका इति इमौ ऑस्ट्रेलिया, न्यूजीलैण्ड्, पनामाकूल्या, प्रशान्तमहासागरस्य द्वीपः च इत्येतैः सह योजयति । हॉङ्गकॉङ्ग् फिलिपीन्स्, इण्डोनेशिया, इत्येतेषां प्राप्त्यै अयं मार्गः उपयुज्यते । पनामा तः सिडनी इत्येतयोः अन्तरं १२,००० कि. मी. वर्तते । होनोलूलू इति अस्य मार्गस्य महत्वपूर्णं पत्तनम् अस्ति ।[३०]

तटीयं नौकापरिवहनम्सम्पाद्यताम्

जलपरिवहनम् एकम् अल्पमूल्यं साधनं वर्तते इति स्पष्टम् एव । समुद्रमार्गः विभिन्नदेशान् परस्परं योजयति । तटीयनौकापरिवहनं केभ्यश्चित् देशेभ्यः सुगमं वर्तते । यथा – संयुक्त राज्य अमेरिका, चीन, भारतं च । यूरोप् महाद्वीपे शेनगेन-देशानां स्थितिः तटीयनौकापरिवहनदृष्ट्या उपयुक्ता वर्तते । यदि तटीयनौकापरिवहनस्य सम्यक्तया विकासः भवेत्, तर्हि स्थलमार्गस्य यातायातस्य सम्मर्दे न्यूनता भवितुं शक्नोति ।[३१]

नौकापरिवहनकूल्यासम्पाद्यताम्

स्वेज्, पनामा इति इमे द्वे नौकापरिवहनाय मनुष्यनिर्मिते कूल्यौ स्तः । अयं जलमार्गः अपि कथ्यते । इमे कूल्ये पूर्वीविश्व-पश्चिमीविश्वयोः प्रवेशद्वारम् इव वर्तेते ।[३२]

स्वेज् कूल्यासम्पाद्यताम्

अस्याः कूल्याः निर्माणं १८६९ तमे वर्षे मिस्र-देशस्य उत्तरदिशि पोर्टसईद्, दक्षिणदिशि पोर्ट् स्वेज् इत्यस्य मध्यभूमध्यसागरः, रक्तसागरः च इत्येतेषां संयोजनाय कृतम् आसीत् । हिन्दमहासागरे प्रवेशाय नूतनमार्गरूपेण इयं कूल्या वर्तते । इयं जलबन्धरहिता, समुद्रस्तरस्य समाना कूल्या वर्तते । अस्य १६० कि. मी. दैर्घ्यं, ११ तः १५ मी. पर्यन्तं गहनता च वर्तते । अस्यां कूल्यां प्रतिदिनं १०० जलयानानि यातायातं कुर्वन्ति ।[३३]

पनामा-कूल्यासम्पाद्यताम्

इयं कूल्या पूर्वदिशि अटलाण्टिक्-महासागरं पश्चिमदिशि प्रशान्त-महासागरेण सह योजयति । अस्य निर्माणं संयुक्तराज्य अमेरिका इत्यनेन कारितम् आसीत् । तेन कूल्यायाः द्वयोः पक्षयोः ८ कि. मी. क्रीत्वा कूल्यामण्डलम् इति नाम दत्तम् । इयं कूल्या प्रायः ७२ कि. मी. दीर्घा अस्ति, १२ कि. मी. पर्यन्तं गहना च वर्तते । अस्यां कूल्यायां षड् जलप्रबन्धकतन्त्राणि सन्ति । जलयानानि अस्यां कूल्यायां प्रवेशपूर्वं जलप्रबन्धकानि प्राप्नुवन्ति ।[३४]

अनया कूल्यया न्यूयॉर्क सैनफ्रान्सिस्को इत्येतयोः मध्ये प्रायः १३,००० कि. मी. अन्तरं न्यूनं जातम् । यद्यपि अस्याः कूल्याः आर्थिकमहत्त्वं स्वेज् कूल्यया न्यूनं वर्तते तथापि दक्षिण-अमेरिका इत्यस्य अर्थव्यवस्थायाम् अस्याः महत्वपूर्णा भूमिका वर्तते ।[३५]

आन्तरिकजलमार्गःसम्पाद्यताम्

नद्यः, तडागाः, तटीयक्षेत्राणि च प्राचीनकालादेव महत्वपूर्णाः जलमार्गाः सन्ति । नौकाः, जलयानानि च यात्रिणां, वस्तूनां च परिवहनार्थम् उपयुज्यन्ते । आन्तरिकजलमार्गाणां विकासः कूल्यानां नौगम्यतायां, विस्तृततायां, गहनतायां जलप्रवाहस्य निरन्तरतायां च आधारितः भवति । सघनवनैः युक्तेषु क्षेत्रेषु नद्यः एव परिवहनस्य साधनत्वेन भवन्ति । अत्यधिकभारयुतानां वस्तूनाम् (अङ्गारस्य, सीमेण्ट्, काष्टस्य, धात्विक-अयस्कस्य च) आन्तरिकजलमार्गैः यातायातः क्रियते।[३६]

प्राचीनेकाले परिवहनस्य मुख्यराजमार्गत्वेन नदीमार्गः एव प्रयुज्यते स्म । यथा भारते, किन्तु साम्प्रते काले रेलमार्गैः सह प्रतिद्वन्दितया, सेचनादिना कार्ये जलस्यैव उपयोगे पर्याप्तमात्रायां जलस्य अभावेन च नदीनां जलपरिवहनं विलुप्तं जातम् ।[३७]

आन्तरिकजलमार्गरूपे नदीनां सार्थकता अन्ताराष्ट्रियपरिवहनेन, व्यापारक्षेत्रेषु विकसितदेशैः च मान्यता प्राप्ता । निम्नलिखिताः नद्यः जलमार्गविश्वस्य महत्वपूर्णाः वाणिज्यमार्गाः सन्ति ।[३८]

राइन् जलमार्गःसम्पाद्यताम्

इयं नदी जर्मनी नीदरलैण्ड इत्येतयोः प्रवहति । नीदरलैण्ड इत्यस्य रोटरर्डम् इत्यस्मिन् स्विटजरलैण्ड् इत्यतः बेसल् प्रति ७०० कि. मी. पर्यन्तम् इयं नौकायनयोग्या वर्तते । सामुद्रिकयानानि कोलोन् इतीदं प्रति गन्तुं शक्नुवन्ति । रूर्-नदी पूर्वदिशम् आगत्य राइन्-नद्यां मिलति । इयं नदी अङ्गारक्षेत्रतः प्रवाहिता भवति । सम्पूर्णनदी बेसिन-विनिर्माणक्षेत्रस्य दृष्ट्या अत्यधिका सम्पन्ना वर्तते । अस्मिन् प्रदेशे राइननद्यां डसलडोर्क् नामकं पत्तनं स्थितम् अस्ति । विश्वस्य जलमार्गेषु अधिकतमः प्रयुक्तः जलमार्गः अयं वर्तते । प्रतिवर्षं २०,००० तः अधिकानां जलयानानां, वस्तूनाम् आदान-प्रदानं भवति । अयं जलमार्गः स्विटजरलैण्ड्, जर्मनी, फ्रान्स्, बेल्जियम् नीदरलैण्ड् इत्यादीन् औद्योगिकक्षेत्रैः सह योजयति ।[३९]

डेन्यूब्-जलमार्गःसम्पाद्यताम्

अयम् आन्तरिकजलमार्गः पूर्वीयूरोपीयभागाय महत्वपूर्णः वर्तते । डेन्यूब्-नदी ब्लैक् फॉरेस्ट् इत्यतः पूर्वदिशं प्रति प्रवहति । इयं नदी टारना तः सेविरिन् पर्यन्तं नौकायनयोग्या वर्तते । अनेन जलमार्गेण मुख्यतः गोधूमस्य, काष्ठस्य, यन्त्राणां च निर्यातः भवति ।[४०]

वोल्गा-जलमार्गःसम्पाद्यताम्

रूस्-देशे बहुमात्रायां विकसितजलमार्गाः प्राप्यन्ते । तेषु मार्गेषु वोल्गा-जलमार्गः सर्वाधिकः महत्वपूर्णः वर्तते । अयं जलमार्गः ११,२०० कि. मी. यावत् नौकायनाय सुविधां प्रददाति । कैस्पियन्-सागरेण सह संलग्नः अस्ति ।[४१]

बृहत् तडागाः (झील)सेन्ट् लारेन्स्सम्पाद्यताम्

उत्तर-अमेरिका इत्यस्य महाद्वीपस्य सुपीरियर्, ह्युरन्, इरी, ओण्टोरियो इत्यादयः बृहद् तडागाः (झील) सू-कूल्यया, वलैण्ड्-कूल्यया सह योजिताः सन्ति । एभिः आन्तरिकजलमार्गाः अपि प्राप्यन्ते । तत्र स्थितानि मुख्यानि डुलुथ्, बुफालो इत्यादीनि पत्तनानि सामुद्रिकपत्तनानाम् आधुनिकसौकर्ययुतानि सन्ति । विशालसामुद्रिकजलयानानि महाद्वीपस्य आन्तरिके भागे मॉट्रियल् पर्यन्तं नौकायनं कुर्वन्ति । किन्तु नदीषु बहवः प्रपाताः सन्ति । तेन कारणेन लघुजलयानैः यातायातः क्रियते । तेन कारणेन लघुजलयानानां संरक्षणाय कूल्याः ३.५ मी. गहनाः वर्तन्ते ।[४२]

मिसीसिपी-जलमार्गःसम्पाद्यताम्

मिसीसिपी-उनोहियो जलमार्गः संयुक्तराज्य-अमेरिका इत्यस्य आन्तिकभागान् दक्षिणे मैक्सिको इत्यस्य गर्तेन सह योजयति । लम्बवाष्पपोताः अनेन मार्गेण मिनियापोलिस् पर्यन्तं गन्तुं शक्नुवन्ति ।[४३]

वायुपरिवहनम्सम्पाद्यताम्

वायुपरिवहनं परिवहनस्य तीव्रतमं साधनं वर्तते । किन्तु इदं बहुमूल्यम् साधनम् अपि अस्ति । अस्य साधनस्य गतिः अधिका भवति । अतः अस्य उपयोगः दीर्घयात्रायां भवति । अनेन कारणेन भारयुतानि वस्तूनि एकस्मात् स्थानात् अन्यत्र जटिति प्रेषयितुं शक्यन्ते । वायुपरिवहनेन सम्पूर्णे विश्वस्मिन् सम्पर्कक्रान्तिः अभवत् । अगम्यक्षेत्रं यावत् अपि वायुपरिवहनेन प्राप्तुं शक्यते । पर्वतेषु, हिमक्षेत्रेषु, विषममरुस्थलीयभूभागेषु च अपि प्राप्तुं शक्यते । हिमालयीयप्रदेशेषु भूस्खलनेन, हिमपातेन च प्रायः मार्गाः अवरुध्यन्ते । तस्यां स्थितौ किञ्चित् स्थानं प्राप्तुं वायुयात्रा एव एकमात्रः विकल्पः वर्तते । वायुमार्गाणां सामयिकमहत्वमपि दृश्यते ।[४४]

वायुयानानां निर्माणाय, तेषां कार्यप्रणाल्यै च सौकर्यानाम् आवश्यकता वर्तते । वायुपत्तनानां निर्माणे अपि बहुव्ययः भवति ।

साम्प्रते काले विश्वस्मिन् किमपि स्थानं ३५ होरा इत्यस्मात् अधिकदूरं नास्ति । विश्वस्य अनेकेषु भागेषु नित्यवायुसेवाः उपलब्धाः सन्ति ।

अन्तर्महाद्वीपीयवायुमार्गःसम्पाद्यताम्

उत्तरगोलार्द्धे अन्तर्महाद्वीपीयवायुमार्गाणां पूर्व-पश्चिमपट्टिका अस्ति । पौर्वात्य संयुक्तराज्य-अमेरिका, पश्चिम-यूरोप्, दक्षिण-पूर्व एशिया च इत्यादिषु महाद्वीपेषु वायुमार्गाः व्यस्ताः सन्ति । विश्वस्य वायुमार्गाणां ६०% भागस्य प्रयोगं संयुक्तराज्य-अमेरिका एव करोति ।

आफ्रीका, रूस्-देशस्य एशियाई भाग, दक्षिण-अमेरिका इत्यादिषु महाद्वीपेषु वायुपरिवहनस्य अभावः वर्तते । दक्षिणगोलार्द्धे १०-३५ अक्षांशानां मध्ये अधिकजनसङ्ख्या, सीमितस्थलखण्ड, आर्थिकविकासः च इत्येतैः कारणैः अल्पमात्रायां वायुसेवाः उपलब्धाः सन्ति ।[४५]

नलिकारेखा (Pipeline)सम्पाद्यताम्

जलस्य, पेट्रोलियम् , प्राकृतिकवायूनाम् इत्यादीनां पदार्थानाम् अबाधितप्रवाहाय, परिवहनाय च नलिकारेखाणां व्यापकरूपः प्रयुज्यते । नलिकारेखाभिः जनेभ्यः जलस्य आवश्यकतापूर्तिः भवति इति सर्वे जानन्ति । विश्वस्य नैकेषु भागेषु भोजनालयीयवायोः (L.P.G.) इत्यस्य पूर्तिः नलिकारेखाभिः क्रियते । द्रविताङ्गाराणां परिवहनाय अपि नलिकारेखानाम् उपयोगः क्रियते । न्यूजीलैण्ड्-देशे अपि दुग्धं यन्त्रागारपर्यन्तं नलिकारेखाभिः प्रेषयते ।[४६]

संयुक्तराज्य-अमेरिका-देशे उत्पादकक्षेत्रस्य, उपभोगक्षेत्रस्य च मध्ये विस्तृताः तैलनलिकारेखाः प्राप्यन्ते । ’बिग् इन्च्’ नामिका एका प्रसिद्धा नलिकारेखा वर्तते । अनया नलिकारेखया मैक्सिको इत्यस्य गर्ते तैलकूपतः उत्तरपूर्विराज्येषु तैलस्य यातायातं क्रियते । द्रवपदार्थानां, वायूनां च अबाधितरूपेण प्रवाहाय नलिकारेखाः मुख्यत्वेन प्रयुज्यन्ते ।[४७]

यूरोप्, रूस्, पश्चिम् एशिया, भारत-देशः इत्येतेषु च तैलकूपान् तैलपरिष्करणशालाभिः, पत्तनैः च सह योजयितुं नलिकारेखाः उपयुज्यन्ते । मध्य एशिया इत्यस्मिन् महाद्वीपे तुर्कमेनिस्तान् इत्यतः ईरान् ,चीन् पर्यन्तं नलिकारेखाणां वृद्धिः जायमाना अस्ति ।[४८]

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 65. ISBN 8174506748. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 65. ISBN 8174506748. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 66. ISBN 8174506748. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 66. ISBN 8174506748. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 67. ISBN 8174506748. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 67. ISBN 8174506748. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 67. ISBN 8174506748. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 69. ISBN 8174506748. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 69. ISBN 8174506748. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 69. ISBN 8174506748. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 69. ISBN 8174506748. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 70. ISBN 8174506748. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 70. ISBN 8174506748. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 70. ISBN 8174506748. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174506748. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174506748. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174506748. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174506748. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 73. ISBN 8174506748. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 73. ISBN 8174506748. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 73. ISBN 8174506748. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  33. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748. 
  34. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174506748. 
  35. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174506748. 
  36. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174506748. 
  37. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174506748. 
  38. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174506748. 
  39. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  40. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  41. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  42. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  43. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  44. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748. 
  45. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 78. ISBN 8174506748. 
  46. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 78. ISBN 8174506748. 
  47. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 78. ISBN 8174506748. 
  48. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748. 
"https://sa.wikipedia.org/w/index.php?title=परिवहनम्&oldid=438619" इत्यस्माद् पुनः प्राप्तिः