विश्वामित्रः
विश्वामित्रः वैदिककालस्य विख्यातः ऋषिः । अयः तेजस्वी प्रतापी महापुरुषः ।ऋषिधर्मग्रहणात् पूर्वम् एषः धीरः प्रजावत्सलः च राजा आसीत् । विश्वामित्रः ब्रह्मर्षिः अरण्ये होमहवनादिसत्कार्यकरणावसरे पीडयतः राक्षसान् संहर्तुं रामलक्ष्मणौ वनं प्रति अनयत् । कार्यं समाप्य ततः तौ मिथिलानगरं नयति । तत्र जनकमहाराजः सीतायाः स्वयंवरम् आयोजितवान्। तत्र शिवधनुः भग्नं कृत्वा रामः सीतां वृणोति ।
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
क्षत्रियराजः
सम्पादयतुप्रजापतेः पुत्रः कुशः, कुशस्य पुत्रः कुशनाभः, कुशनाभस्य राजा गाधिः । अस्य गाधेः पुत्रः विश्वामित्रः । कदाचित् राजा विश्वामित्रः स्वसेनासहितः वसिष्ठमहर्षेः आश्रमम् अगच्छत् । विश्वामित्रः तं मुनिवरं प्रणम्य तत्रैवोपाविशत् । वसिष्ठः विश्वामित्रस्य यथोचितं सत्कारम् अकरोत् । विश्वामित्रः कानिचन दिनानि आश्रमे एव उषित्वा आतिथ्यग्रहणम् अकरोत् । बहुदिनानि अपि कृतम् अनुरूपं सत्कारं दृष्ट्वा विश्वामित्रः आश्चर्यचकितः । वसिष्ठः कामधेनोः पुत्र्याः होमधेनोः नन्दिन्याः कृपया सेनासहितस्य विश्वामित्रस्य आतिथ्यं कर्तुं शक्यः आभवत् । अनेन आतिथ्येन विश्वामित्रः सैनिकाः च अतीव तृप्ताः आभवन् । कामधेनोः चमत्कारं दृष्ट्व्या आश्चर्यचकितः विश्वामित्रः तां धेनुं तस्मै दातुम् आग्रहम् अकरोत् । किन्तु वसिष्ठः प्राणप्रियां धेनुं कथञ्चिदपि दातुं नैच्छत् । वसिष्ठस्य निराकरणं श्रुत्वा विश्वामित्रः बलात् तां धेनुं नेतुं प्रायतत । सैनिकाः तां गृहीत्वा दण्डेन ताडयितुम् आरभन्त । क्रोधिता धेनुः सैनिकेभ्यः पलायिता धेनुः वसिष्ठस्य समीपम् आगत्यं विलापं कर्तुम् आरब्धवती । अयं राजा अतिथिः अतः शापं दातुं नैव शक्नोमि अपि च अस्य सकाशे विशाला सेना अस्ति अतः युद्धे विजयम् अपि प्राप्तुं न शक्नोमि, अहं स्वयं विवशोऽस्मि इति वसिष्ठः अवदत् । तदा होमधेनुः प्रत्यवदत् । हे ब्रह्मर्षे ब्राह्मणस्य ब्रह्मतेजसः पुरतः क्षात्रबलं नैव तिष्ठति । भवान् माम् आदिशतु अहम् अस्य क्षत्रियस्य सेनाबलं नष्टं करिष्यामि इति । अनन्योपायः वसिष्ठः होमधेनुम् अनुमतवान् । तदा नन्दिनी योगबलेन अनेकान् शस्त्रास्त्रयुक्तान् धीरान् योधान् उत्पादितवती । ते सैनिकाः विश्वामित्रस्य सेनां नाशयितुम् आरब्धवन्तः । अनेन कुपिताः विश्वामित्रस्य शतपुत्राः वसिष्ठस्य हननं कर्तुम् उद्यताः । वसिष्ठः एकं विहाय अन्यान् सर्वान् भास्मसात् अकरोत् । सेनायाः पुत्राणां च नाशं दृष्ट्वा विश्वामित्रः अतीव दुःखितः अवशिष्टं पुत्रं रजसिंहासने उपावेश्य तपः आचरितुं हिमालयकन्दरप्रदेशम् अगच्छत् । अस्य तपसा सम्प्रीतः महादेवः दिव्यशक्त्या सह सम्पूर्णधनुर्विद्यायाः अनुगृहीतवान् ।
महर्षिवसिष्ठेन सह प्रतिशोधः
सम्पादयतुएवं विश्वामित्रः सम्पूर्णं धनुर्विद्याकौशलं सम्पाद्य प्रतीकारबुद्ध्या वसिष्ठस्य आश्रमपदम् आगत्य अग्निबाणवर्षम् अकरोत् । वसिष्ठः अपि स्वधनुः धृत्वा अहं भवतः समानः स्थितः अस्मि इत्यवदत् । मया सह युध्यस्व अद्य अहं भवतः अहङ्कारं नाशयामि । अपि च दर्शयामि क्षात्रबलात् ब्रह्मबलम् अधिकम् इति दर्शयामि इति अवदत् । क्रुद्धः विश्वामित्रः आग्नेयास्त्रं, वरुणास्त्रं, रुद्रास्त्रं, पाशुपतास्त्रं च युगपत् प्रमुक्तवान् । वसिष्ठः तानि अस्त्राणि मध्यमार्गम् एव कर्तितवान् । अनेन इतोप्यतिशयेन क्रोधितः विश्वामित्रः वसिष्ठस्योपरि मानव, मोहन, गान्धर्व, जूम्भण, दारण, वज्र, ब्रह्मपाश, कालपाश, वरुणपाश, पिनाक, दण्ड, पैशाच, क्रौंच, धर्मचक्र, कालचक्र, विष्णुचक्र, वायव्य, मंथन, कङ्काल, मूसल, विद्याधर, कालास्त्र इत्यादिणी आस्त्राणि प्रयुक्तवान् । वसिष्ठः एतानि सर्वाणि अस्त्राणि विनष्टानि कृत्वा ब्रह्मास्त्रं प्रयुक्तवान् । ब्रह्मास्त्रस्य गगनभेदिना नादेन समग्रं विश्वं पीडितम् अभवत् । सर्वे ॠषिमुनयः तम् एवं सम्प्रार्थयन् भवान् विश्वामित्रं परास्तं कृतवान् । इदानीं ब्रह्मास्त्रस्य ज्वालां शान्तयतु इति । अनया प्रार्थनया प्रसन्नः वसिष्ठः ब्रह्मास्त्रं प्रत्यधीय उपशान्तम् अकरोत् । पराजितः विश्वामित्रः मणिहीनः सर्पः इव भूतले उपविष्य व्यचिन्तयत् । निस्सन्देहं क्षात्रबलस्यापेक्षया ब्रह्मबलम् एव श्रेष्ठम् दिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् इति मत्वा तपः कृत्वा ब्रह्मपदवीं तस्य तेजः च प्राप्नोमि इति निश्चित्य सपत्नीकः दक्षिणदिशि प्रस्थितवान् । तपसः आरभिककाले अन्नं त्यक्त्वा केवलं फलानि खादति स्म । अस्य तपसा प्रसन्नः ब्रह्मा अस्मै राजर्षेः पदं प्रदत्तवान् । ब्रह्मा मे केवलं राजर्षेः पदं दत्तवान् न तु महर्षेः देवर्षे वा न अतः मम तपः इदानीमपि अपूर्णम् एव इति विचिन्त्य पुनः दुःखितः एवाभवत् । अतः पुनः उग्रं तप आचरिष्यामि इति निश्चितवान् ।
त्रिशङ्कुस्वर्गनिर्माणम्
सम्पादयतुइक्ष्वाकुवंशे त्रिशङ्कुः नाम राजा आसीत् । एषः सशारीरं स्वर्गं गन्तुम् इच्छति स्म । अतः त्रिशङ्कुः वसिष्ठस्य निकटं गत्वा स्वाशां प्राकटयत् । किन्तु वसिष्ठः एतत् कार्यं कर्तुम् असम्मतिं सूचितवान् । त्रिशङ्कुः इमाम् एव प्रार्थनां वसिष्ठपुत्राणां पुरतः स्थापितवान् । पित्रा अशक्यं कार्यं पुत्राः कथं कुर्युः ? भवान् पितुः अवमाननं कर्तुम् अगतः अस्ति इति अवदन् । तेन क्रुद्धः त्रिशङ्कुः तैः सह अपशब्देन सम्भाषितवान् । रुष्टाः वसिष्ठपुत्राः चण्डालः भवतु इति त्रिशङ्कुम् अशपन् । शापवशाद् चाण्डलरूपिणं त्रिशङ्कुं त्यक्त्वा तस्य मन्त्रिणः सभासदः गतवन्तः । तथापि सशरीरं स्वर्गगमनस्य इच्छा न मुक्ता । आशापरिपूर्तये त्रिशङ्कुः विश्वामित्रस्य निकटम् अगच्छत् । तस्य आशां पूरयितुं विश्वामित्रः अङ्गीकृतवान् । सहसा स्वपुत्रान् आहूय यज्ञस्य सामग्रीः सङ्ग्रहीतुम् आदिशत् । पश्चात् स्वशिष्यान् आहूय आदिशत् - ये वने निवसन्ति तान् सर्वान् ऋत्विजान् वसिष्ठपुत्रान् च यज्ञे सम्मेलयितुं निमन्त्र्य आगच्छतु इति । अन्ये सर्वे विश्वामित्रस्य निमन्त्रणं स्वीकृतवन्तः कितु वसिष्ठपुत्राः, यस्य यज्ञस्य पुरोहितः क्षत्रियः यजमानः च चाण्डालः तस्मिन् वयं भागं स्वीकर्तुं नेच्छामः इति उक्त्वा निमन्त्रणं तिरस्कृतवन्तः । एतत् श्रुत्वा क्रुद्धः विश्वामित्रः अपि च सप्तशतवर्षाणि चाण्डलजन्मनि विचरणस्य शापं दत्त्वा, कालपाशेन तान् बद्ध्वा यमलोकं प्रेशितवान् । । पुनः यज्ञस्य सिद्धतायां व्यस्तः अभवत् । वसिष्ठपुत्राणां गतिं दृष्ट्वा भीताः अरण्यवासिनः सर्वे ऋषिमुनयः विश्वामित्रस्य यज्ञे सहायाः अभवन् । यज्ञस्य समाप्तौ विश्वामित्रः विविधदेवतानां नामानि आहूय यज्ञभागं ग्रहीतुम् आह्वानं दत्तवान् । किन्तु कोऽपि देवः स्वस्य हविर्भावं स्वीकर्तुं नागतः । अनेन अतीव कुपितः विश्वामित्रः अर्घ्यजलं हस्तेन् गृहीत्वा त्रिशङ्कुं स्वतपोबलेन एव स्वर्गं प्रेषयामि इति वदन् मन्त्रं जप्त्वा आकाशे जलं क्षिप्त्वा राजनं त्रिशङ्कुं सशरीरं स्वर्गं प्रेशितवान् । स्वर्गे आयन्तं त्रिशङ्कुं दृष्ट्वा इन्द्रः कुपितः अवदत् ... रे मूर्ख, ते मम गुरुः शापं दत्तवान्, भवान् स्वर्गवासयोग्यः न । तत्तक्षणे एव त्रिशङ्कुः बलहीनः भूत्वा भूमौ पतन् रक्षितुं विश्वामित्रं प्रार्थितवान् । विश्वामित्रः तं तत्रैव स्थातुम् आदिश्य आकाशे एव स्वतपोबलेन द्वितीयं स्वर्गं निर्मितवान् । तत् पश्चान् नूतनम् इन्द्रं सृष्टुम् इष्टवान् । अनेन इन्द्रादयः देवाः भीताः विश्वामित्रेण सह अनुनयेन वार्तालापम् आरब्धवन्तः । गुरोः शापस्य कारणात् एव त्रिशङ्कुः स्वर्गगमनार्हः इति देवताः अवदन् । तदा विश्वामित्रः अवदत्... अहं तु अस्मै सशरीरं स्वर्गप्रेषणस्य वचनं दत्तवान् । अतः मया रचितः स्वर्गः तत्रैव भविष्यति । त्रिशङ्कुः अस्मिन् नक्षत्रमण्डले अमरः भविष्यति । अनेन वचनेन सन्तुष्टाः इन्द्रादयः देवाः स्वस्थानं गताः ।
ब्राह्मणत्वस्य प्राप्तिः
सम्पादयतुदेवतानां निर्गमपश्चात् विश्वामित्रः ब्राह्मणपदं प्राप्तुं पूर्वदिशायां गत्वा उग्रं तपः आचरितुम् आरब्धवान् । अस्य तपसः भङ्गं कर्तुं नानाविधानि विघ्नानि समुत्पन्नानि तथापि सः क्रोधेन विना सर्वाः समस्याः निवारितवान् । तपस्यायाः अवधेः अमाप्तेः पश्चात् अन्नग्रहणार्थं यदा उपविष्टवान् तदा इन्द्रः ब्राह्मणभिक्षुकस्य रूपेण आगत्य भोजनम् अयाचत । विश्वामित्रः तस्य सम्पूर्णं भोजनं याचकाय अयच्छत् । अपि च स्वयं निराहारः एव स्थितः । एतत् पश्चात् तस्य मनसि एवं विचारः आगतः प्रायः मम भोजनग्रहणस्य कालः न सन्निहितः अतः याचकस्य रुपेण विप्रः उपस्थितः । मया इतोऽपि अतिशयेन तपः आचारणियः । इति विचिन्त्य विश्वामित्रः पुनः दीर्घकालीने तपसि मग्नः अभवत् । अस्मिन् अवसरे विश्वामित्रः प्राणायामपूर्वकं श्वासं बद्ध्वा महादारुणं तपः समाचरत् । अनेन प्रभाविताः देवाः ब्रह्माणं गत्वा न्यवेदयन् विश्वामित्रस्य तपः पराकाष्टां गतम् अस्ति । अधुना सः कोपस्य मोहस्य च सीमाम् अतिक्रान्तवान् । अधुना अस्य तपसः तेजसा लोकः प्रकाशितः । अतः भवान् प्रसन्नः भूत्वा अस्य अभिलाषायाः पूर्तिं करोतु इति । देवतानाम् एतानि वचांसि श्रुत्वा भगवान् ब्रह्मा तस्मै सर्वश्रेष्ठब्राह्मणस्य उपाधिं दत्तवान् । किन्तु विश्वामित्रः अनेन पदविना सह ओङ्कारं, षट्कारं सर्ववेदान् च उपादिशतु इति ब्रह्माणं प्रार्थितवान् । मम तपः तदा एव सफलं मन्ये यदा वसिष्ठः मां ब्राह्मणः ब्रह्मर्षिः चेति मन्यते ।
महर्षिवशिष्ठस्य मान्यता
सम्पादयतुविश्वामित्रस्य वचनानि श्रुत्वा सर्वे देवाः वसिष्ठस्य आश्रमं गत्वा तत्र सर्वं वृत्तान्तं श्रावयन्ति । तदा वसिष्ठः विश्वामित्रस्य निकटं गत्वा तं समालिङ्ग्य अवदत्... भोः विश्वामित्र भवान् वास्तवे ब्रह्मर्षिः अस्ति । अद्यं भवन्तं ब्राह्मणः इति स्वीकरोमि इति ।
स्रोतः
सम्पादयतु" वाल्मीकि रामायण - विश्वामित्र का पूर्व चरित्र" Archived २००९-०८-१५ at the Wayback Machine
[]]