आचार्यः प्रफुल्लचन्द्ररायः (वङ्ग: প্রফুল্ল চন্দ্র রায়, जन्म- २ अगस्त, १८६१ मृत्युः- १६ जुन, १९४४)[१] एकः भारतीयः रसतन्त्रज्ञः, शिक्षकः समाचारपत्रस्य सम्पादकश्च आसीत्। 'बेङ्गल् केमिकल्स् एन्ड् फार्मास्यूटिकल्स्' इति नाम्न्याः भारतस्य प्रथमायाः भेषजरसायनसंस्थायाः सः संस्थापकः। सः 'ए हिस्ट्री आफ् हिन्दु केमिस्ट्री फ्रम् द अर्लियस्ट् टैम्स् टु द मिडिल् आफ् सिक्सटीन् सेञ्चुरी' (१९०२) इति नाम्नः विख्यातग्रन्थस्य लेखकः [२]

प्रफुल्लचन्द्ररायः
जननम् Prafulla Chandra Ray
२ आगस्ट्, १८६१
ररुलि, खुल्न, ब्रिटिश्-भारतम्
मरणम् १६ जून् १९४४
कोलकाता
देशीयता भारतीयः
मातृसंस्थाः मेट्रोपालिटन् इन्स्टिट्यूशन्
प्रेसिडेन्सिविश्वविद्यालयः,कोलकाता
एडिन्बराहविश्विविद्यालयः


बाल्यं विद्याभ्यासश्चसम्पाद्यताम्

रायमहोदयः अद्यतनस्य बाङ्लादेशस्य खुलनामण्डले रारुलि-कटापरग्रामे जनिमलभत। तस्य पिता भूस्वामी हरिश्चन्द्ररायः । नववर्षपर्यन्तं सः ग्रामे एवापठत्। १८७० तमे वर्षे सपरिवारेण सह सः कोलकत्तानगरमुदावसत्। रायः तस्य अग्रजः च हरे शालां प्रवेशितौ। १८७४ मध्ये यदा रायः चतुर्थ्यां कक्ष्यायां पठन्नासीत् तदा सः तीक्ष्णेन पाकातिसारघातेन ग्रस्तः येन सः आजीवनं पीडितः। वर्षद्वयं सः शालां गन्तुमशक्नोत्। सः पुनः स्वग्रामं गतवान्। तत्र सः शालायाः अभ्यासक्रमस्य अपेक्षया अधिकम् अध्ययनम् अकरोत्। सः लेत्ब्रिज् इत्यस्य 'सेलेक्शन्स् फ्रम् माडर्न् इङ्ग्लिश् लिटरेचर्' गोल्डस्मित् इत्यस्य 'विकार् आफ् वेक्फील्ड्' च पठितवान्। समुत्थानानन्तरं सः कोलकत्तां प्रत्यागत्य अल्बर्ट शालां प्रविष्टवान् च।

१८७९ मध्ये सः प्रवेशपरीक्षामुत्तीर्य मेट्रोपालिटन् संस्थायां प्रवेशं प्राप्तवान्। मेट्रोपालिटन् संस्था (पश्चात् विद्यासागरः महाविद्यालयः) पण्डितेन ईश्वरचन्द्रविद्यासागरेण स्थापिता। तदा मेट्रोपालिटन् संस्थायां विज्ञानविषये पाठनं प्रयोगशाला वा न आसन्। अतः रायः बाह्यशिष्यरूपेण प्रेसिडेन्सी महाविद्यालयं गच्छन्नासीत् भौतिकशास्त्रस्य रसतन्त्रशास्त्रस्य च वर्गाणां कृते। तत्र एलेक्सान्डर् पेड्लर् इत्यस्य रसतन्त्रव्याख्यानानि अतीव अरोचन्त तस्मै। १८८२ मध्ये अखिलभारतीयपरीक्षानन्तरं द्वयोः गिल्क्रिस्ट्-पुरस्कारयोः तेन एकः प्राप्तः। भारते पदवीशिक्षाम् असमाप्य एव सः आङ्ग्लदेशं गतवान्। तत्र एडिन्बराह महाविद्यालये सः वैज्ञानिकपदवीशिक्षां प्राप्तवान्। तदा सः तत्र अन्यविषयैः सह भौतिकशास्त्रं, रसायनशास्त्रं जीवशास्त्रं च अधीतवान्। तस्य रुचिः इतिहासे अपि आसीत्। सः बहूनि ऐतिहासिकपुस्तकानि पठितवान्। नयार्थशास्त्रविषये अपि तेन पुस्तकानि पठितानि। पदवीशिक्षोपाधिं प्राप्य सः विद्यावारिधिमपि प्राप्तवान् १८८७ मध्ये। सः होप् पुरस्कारच्छात्रवृत्त्या सम्मानितः येन सः वर्षाधिकावधिं स्वीयसंशोधनविषये यापनाय अवसरं प्राप्नोत्। "काॅन्जुगेटड् सल्फेट्स् आॅफ दि काॅपर्-मॅग्निसियम् ग्रूप्ः ए स्टडी आॅफ ऐसोमोर्फस् मिक्स्शर्स् एन्ड् मोलेक्युलर् कोम्बिनेशन्स्" इति आसीत् तस्य विद्यावारिधिप्रबन्धस्य शीर्षकम्। १८८८ तमे वर्षे अध्ययनावसरे एव सः एडिन्बराह-महाविद्यालय-रसायनशास्त्र-संस्थायाः उपाध्यक्षः आसीत् [३]

वृत्तिजीवनम्सम्पाद्यताम्

 
बिर्ला इण्डस्ट्रियल् अण्ड् टेक्नलागिकल् सङ्ग्रहालये विद्यमाना प्रफुल्लचन्द्ररायस्य मूर्तिः

अगस्त १८८९ मध्ये सः भारतदेशं प्रत्यागतवान्। प्रेसिडेन्सी महाविद्यालये तस्य नियुक्तिः अभवत् रसायनशास्त्रस्य उपप्राध्यापकपदे। एषा नियुक्तिः अचिरस्थायी। अतः सः दुःखितः यत् उत्कृष्टोपाख्यानानि आसन्नपि सः चिरस्थायिपदं प्राप्तुमशक्नोत्। सः राष्ट्रशासनाय स्वदुःखं न्यवेदयत् परन्तु उत्तरं न प्राप्तवान्। १८९६ मध्ये सः 'मेर्क्युरस् नैट्रैट्' इत्यस्य स्थिररसायनिकसंयोगस्य विषये संशोधनपत्रं प्रस्तुतवान्। अनेन बहवः प्रेरिताः अस्मिन् विषये संशोधनं च प्रारब्धम्। १९२४ मध्ये सः भारतीय-रसायनशास्त्र-शालां स्थापितवान्।

सः प्रेसिडेन्सी महाविद्यालयात् १९१६ मध्ये निवृत्तिं प्राप्य कोलकत्ता विज्ञानविश्वविद्यालयं 'पालिट्-रसायनशास्त्र-प्राध्यापकत्वेन' प्रविष्टः। तत्रापि विविधानां रसायनिकसंयोगानां संशोधनं कृतं तेन श्रद्धापूर्वकस्य सुशिष्याणां साहायेन। बहूनि संशोधनपत्राणि प्रकाशितानि तेन भारतीय-रसायन-सभायाः पत्रिकायाम्। तस्य षष्टितमे वर्षें सः सम्पूर्णं वेतनं कोलकत्ता विश्वविद्यालयाय दानं कृतवान् येन तत्र रसायनशास्त्रसंशोधनं वर्धेत विज्ञानविश्वविद्यालये रसायनशास्त्रविभागः अपि विस्तारं प्राप्नुयात् इति धिया। तस्य पञ्चसप्ततितमे वर्षे सः कार्यनिवृत्तिं प्राप्य 'प्रोफेसर् एमिरेटस्' अभवत्। १९२० पर्यन्तं यावत् तेन रसायनशास्त्रस्य सर्वासु शाखासु १०७ संशोधनपत्राणि प्रकाशितानि।

साहित्यकृषिःसम्पाद्यताम्

रायमहोदयः बहुषु बाङ्लभाषायाः मासिकपत्रिकासु लिखन्नासीत् प्रायशः विज्ञानविषयोपरि। 'वङ्गीयस्य रसज्ञस्य जीवनम् अनुभवाः च' इति तस्य आत्मकथायाः प्रथमखण्डं सः प्रकाशितवान् १९३२ तमे संवत्सरे। द्वितीयः खण्डः १९३५ संवत्सरे प्रकाशितः। १९०२ संवत्सरे सः 'ए हिस्ट्री आफ् हिन्दु केमिस्ट्री फ्रम् द अर्लियस्ट् टैम्स् टु द मिडिल् आफ सिक्सटीन् सेञ्चुरी' इत्यस्य ग्रन्थस्य प्रथमखण्डं प्रकाशितवान्। १९०८ मध्ये च द्वितीयं खण्डम्। संस्कृतस्य ताडग्रन्थानां सुदीर्घम् अध्ययनं कृत्वा पौरस्त्यानां संशोधनपठनानन्तरमेव सः एतं ग्रन्थं विरचितवान्।

सामाजिकिसेवासम्पाद्यताम्

१९२३ तमे संवत्सरे उत्तरवङ्गीयप्रदेशः जलप्रवाहेण पूर्णतया ग्रस्तः येन बहवः जनाः अदेशिकाः क्षुधाविष्टाः च अभवन्। रायः वङ्गीयोपशमसमितिं स्थापयित्वा २.५ दशलक्षमूल्यकानि रूप्यकाणि आवश्कवस्तूनि च सङ्गृहीतवान्। पीडितेभ्यः व्यतरत् च। सः नियतरूपेण सद्धारणब्रह्मोसमाजाय, ब्रह्मोसमाज बालिकानां शालायै, भारतीय-रसायनशास्त्र-संस्थायै च दानं कुर्वनन्नासीत् [४] । १९२२ तमे वर्षे रसायनशास्त्रे अत्युत्तमकार्याय नागार्जुनपुरस्कारः [४], १९३७ तमे वर्षे प्राणिविज्ञानविषये उत्तमसंशोधनार्थम् आशुतोष मुखर्जी पुरस्कारः च तेनैव संस्थापितः [४]

पुरस्काराःसम्पाद्यताम्

एडिन्बराहविश्वविद्यालयतः १८८७ तमे वर्षे तेन डि एस्सि उपाधिः प्राप्ता । १९०८ तमे वर्षे कलकत्ता विश्वविद्यालयतः गौरवडाक्टरेट् उपाधिः तेन प्राप्ता [५] । डर्हम् विश्वविद्यालयतः १९१२ तमे वर्षे गौरव डि एस्सि पदवी प्राप्ता, ढाका विश्वविद्यालयतः १९३६ तमे वर्षे प्राप्ता । १९११ तमे वर्षे सः 'कम्पेनियन् आफ् दि इण्डियन् एम्पैर्' जातः । जर्मनीदेशस्य मुनिच्-नगरे विद्यमानस्य केमिकल् सोसैटि अण्ड् डिस्के अकाडेमि संस्थायाः गौरवसदस्यः वर्तते अयम् । १९१७ तमे वर्षे अनेन नैट् हुड् सम्माननं प्राप्तम् [६] । भारतीयविज्ञानकाङ्ग्रेस्-संस्थायाः १९२० तमस्य आयोजनस्य अध्यक्षः आसीत् । रायल् सोसैटि आफ् केमिस्ट्रि संस्थया सम्मानितः प्रथमः अनिवासी-युरोपीयः अस्ति अयम् ।

वैयक्तिकजीवनम्सम्पाद्यताम्

सः आजीवनं ब्रह्मचारी आसीत् । सः राजनीतिक्षेत्रे सक्रियं पात्रम् अवहत् । तस्य पिता हरीशचन्द्ररायः ब्रह्मोत्सव समाजे निष्ठावान् कार्यकर्ता आसीत् [४]। अतः तस्य ब्रह्मोसमाजेन सह सम्बन्धः बाल्यात् एव आरब्धः। सः प्रति रविवासरे केशब्चन्द्रसेनस्य प्रवचनानि श्रोतुं तत्र गच्छन्नासीत्। केशब्चन्द्रसेनस्य 'सुलभसमाचारेण' सः अतिप्रेरितः।

योगदानम्सम्पाद्यताम्

 
प्रफुल्लचन्द्ररायस्य १५० तमे जन्मदिनोत्सवे कोलकत्ताविज्ञाननगर्याम् आयोजिता प्रदर्शिनी

तस्य सप्ततितमजन्मोत्सवे रवीन्द्रनाथटागोरः अवदत् -

"उपनिषत्सु उक्तं यत् भगवान् उवाच एकोऽहं बहु स्यामिति। सृष्टेः आरम्भः नाम आत्मार्पणमार्गे गमनमिति । प्रफुल्लचन्द्रः तस्य शिष्याणां द्वारा बहुरूपः जातः अस्ति । स्वीयं हृदयं बहुषु हृदयेषु सचेतनं कृतवान् अस्ति। एतत् सर्वमशक्यं भवेत् यदि सः अपराङ्गमुखं भूत्वा स्वमेव उपहारं न कृतवान् चेत्। तस्य ख्यातिः कदापि न अपकर्षति सदैव वर्धेत एव वर्धमानायां प्रज्ञायां यूनाम् हृदयेषु । नित्यधैर्यतया ते नूतनानि ज्ञानरत्नानि जयिष्यन्ति।"

एतैः वाक्यैः प्रफुल्ल्चन्द्ररायस्य प्रभावः स्पष्टरया ज्ञायते।

कोलकत्तायाम् आचार्य प्रफुल्लचन्द्ररायविश्वविद्यालयः, प्रफुल्लचन्द्ररायविश्वविद्यालयः, आचार्य प्रफुल्लचन्द्रराय बालकविद्यालयः, आचार्य प्रफुल्लचन्द्रराय पोलिटेक्निक् इत्येताः शैक्षणिकसंस्थाः तस्य नाम्ना सन्ति । अपि च बाङ्लादेशस्य बागेरहट्टे होरिन्खानायां बागेरहट्ट पी. सी. विश्वविद्यालयः तस्य नाम्ना अस्ति। एतेभ्यः सः अद्यापि सम्मानितः।

टिप्पणीसम्पाद्यताम्

बाह्यसम्पर्कतन्तवःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=प्रफुल्लचन्द्र_राय&oldid=319428" इत्यस्माद् प्रतिप्राप्तम्