प्रह्लादः काश्यपकुले जातः कश्चन दैत्यः। प्रह्रादः इत्यपि एतस्य नाम श्रूयते[१]।। प्रह्लादः महान् विष्णुभक्तः। प्रह्लादस्य विष्णुभक्तिकारणतः साक्षात् भगवान् विष्णुः नरसिंहरूपेण आगत्य प्रह्लादस्य पितुः हिरण्यकश्यपोः हननं कृत्वा प्रह्लादं रक्षितवान् ।

प्रह्लादः
प्रह्लादः
Information
Family हिरण्यकशिपु (पिता), कयाधुः (माता)
संह्रादः, अनुह्रादः, ह्रादः(भ्रातरः)
बलिः(पौत्रः)
बाणासुरः(प्रपौत्रः)
अपत्यानि विरोचनः, कुम्भः, निकुम्भः (पुत्राः)
रचना (पुत्री)
धर्मः हिन्दू

जन्मसम्पाद्यताम्

प्रह्लादस्य पिता हिरण्यकशिपुः। माता च जम्भस्य तनया कयाधुः। एतयोः ह्रादः, संह्रादः, अनुह्रादः, प्रह्लादः इति चत्वारः पुत्राः समजायन्त। कयाधुः बहुकालं यावत् अपत्यरहिता आसीत्। अतः नारदमुखात् श्रीमन्नारायणमन्त्रस्य उपदेशं प्राप्य सन्ततिं प्राप्तवती इति कथा श्रूयते[२]। अतः प्रह्लादः जन्मनः एव हरिभक्तः अभवत्।


हरिभक्तिःसम्पाद्यताम्

 
हिरण्यकशिपोः आस्थाने हरिभक्तः प्रह्लादः
 
मत्तगजाः अपि प्रह्लादहनने अशक्ताः

प्रह्लादः महान् हरिभक्तः सञ्जातः। गुरुकुले अध्ययनावसरे राक्षसानां गुरुः शुक्राचार्यः हरिनामस्मरणं त्यक्त्वा हरनामस्मरणं करोतु इति मुहुः मुहुः सूचयति स्म। परन्तु प्रह्लादस्तु निरन्तरम् हरिनाम एव जपति स्म। गुरुकुलाद् गृहमागतः प्रह्लादः हरिस्मरणम् अनुवर्तितवान्। एतेन तस्य पिता राक्षसराजः हिरण्यकशिपुः क्रुद्धः। स्वपुत्रस्य मनःपरिवर्तनार्थं बहुविधप्रयासान् च अकरोत्। किन्तु प्रह्लादः हरिमेव स्तौति स्म। अतीव क्रुद्धः हिरण्यकश्यपुः प्रह्लादं मारयितुम् उद्युक्तः। विषसर्पयुक्ते स्थाने अपातयत्। पर्वतात् अधः अक्षिपत्। गजपादैः प्रहारम् अकारयत्। परन्तु हरेः कृपया प्रह्लादस्य रक्षणम् अभवत्। अन्ततो गत्वा प्रह्लादं विषं पाययितुं स्वपत्नीं कयाधुम् अवोचत्। कयाध्वा रुदत्या दत्तं विषं पीतं चेदपि प्रह्लादः जीवितःउद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्। हिरण्यकश्यपोः सोदरी होलिका अग्निना अदाह्या भवेयम् इति वरं प्राप्तवती आसीत्। हिरण्यकशिपुः तस्याः अङ्के प्रह्लादम् उपावेश्य ताम् अग्नौ अक्षिपत्। परन्तु विष्णोः कृपया प्रह्लादः जीवितः होलिका च मृता। होलिकोत्सवाचरणे इदमपि किञ्चन कारणम् इति पुराणेषु वर्तते[३]

हिरण्यकशिपुवधःसम्पाद्यताम्

 
नरसिंहावतारः

देवताः हिरण्यकशिपुना त्रस्ताः महाविष्णुं प्रार्थयन्त। सः देवेभ्यो अभयं दत्त्वा नरसिंहरूपेण हिरण्यकशिपोः आस्थानं प्रविश्य तम् अमारयत् इति कथा मत्स्यपुराणे वर्णिता।[४]। प्रह्लादस्य विष्णुजपेन रुष्टः हिरण्यकशिपुः विष्णुः कुत्र अस्ति इति प्रह्लादं पृच्छति। प्रह्लादः विष्णुः सर्वव्यापी इतिप्रतिवदति। तदानीं मम आस्थानस्य स्तम्भे विद्यते वा इति पृष्टे हिरण्यकश्यपौ निश्चयेन वर्तते इति प्रह्लादः प्रतिवदति। तदानीं कोपेन हिरण्यकश्यपुः स्तम्भं छिनत्ति। तदानीं स्तम्भादागतः नरसिंहः हिरण्यकशिपुं हत्वा प्रह्लादं रक्षति इति लोककथा प्रसिद्धा वर्ततेउद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

जीवनम्सम्पाद्यताम्

हिरण्यकशिपोः मृत्योः परं प्रह्लादः असुराणां राजा अभवत्। ततः सः इन्द्रादपि बलिष्ठः सन् राजते स्म। प्रतिदिनं शतशः ब्राह्मणान् भोजयति स्म। कदाचित् कञ्चन ब्राह्मणं न भोजितवान् इति कारणतः विष्णुना सह तव विरोधः भवति इति शापः प्रह्लादेन प्राप्तः। देवेन्द्रः प्रह्लादात् रक्षणं प्राप्तुं पृथुः इक्ष्वाकुः इत्यादीनां राज्ञां साहाय्यं स्व्यकरोत्। अन्ततो गत्वा साक्षात् विष्णुरेव इन्द्रस्य साहाय्यार्थमागत्य प्रह्लादेन सह अयुध्यत। प्रह्लादः युद्धावसरे एव विष्णुः आगतः इति ज्ञात्वा युद्धं स्थगितवान्। परन्तु तावता विष्णुना सह सः युद्धम् आरब्धवान् आसीत्। एतेन शापः फलितः। [उद्धरणं वाञ्छितम्]

परिवारःसम्पाद्यताम्

प्रह्लादस्य विरोचनः कुम्भः निकुम्भः इति त्रयः पुत्राः। रचना इति पुत्री च[५]। विरोचनः देवैः सह युद्ध्यमानः मृतः। अतः विरोचनस्य पुत्रं बलिम् अपि प्रह्लादः एव अपालयत्। बलिः वामनेन सुतलं प्रतिप्रेषितः। बलेः पुत्रः बाणासुरः अपि कृष्णेन सह अयुध्यत।

संवादःसम्पाद्यताम्

प्रह्लादेन कृताः अनेके संवादाः पुराणेषु प्रसिद्धाः यथा- प्रह्लादबलिसंवादः, प्रह्लादहंससंवादः, प्रह्लाद-इन्द्रसंवादः, प्रह्लाद-अजगरसंवादः, प्रह्लाद-मार्कण्डेयसंवादः, इत्यादयः पुराणेषु प्रसिद्धाः[६]

उल्लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=प्रह्लादः&oldid=448301" इत्यस्माद् प्रतिप्राप्तम्