बलरामशुक्लःआङ्ग्ले Balram Shukla॥ [१] नवदेहल्या एकः शिक्षाविद् कविः लेखकश्च वर्तते। स संस्कृतस्य भारतीयसाहित्यस्य च स्वशिक्षितो विद्वान् अस्ति । [२]दिल्लीविश्वविद्यालये संस्कृतस्य प्राध्यापकरूपेण कार्यं करोति। स संस्कृतस्य हिन्द्या उर्दूभाषायाः फारसीभाषायाः अपि च प्राकृतस्य विद्वान् अस्ति । [३] [१] स उभयोः संस्कृते फारसीभाषायां च काव्यं रचयति। [३] अपि च समानछन्दोभिः फारसीकाव्यं संस्कृते भाषान्तरीकरोति। [२] भारतस्य राष्ट्रपतिना २०१३ तमे वर्षे संस्कृतस्य बद्रायणव्यासपुरस्कारेण पुरस्कृतः अस्ति। [४] अष्टपुस्तकानि अनेन रचितानि सन्ति।

कविः बलरामशुक्लः
बलरामशुक्लः

जीवनम्‌ सम्पादयतु

बलराम उत्तरप्रदेशस्य महाराजगञ्जस्य सोहरौनाराजाग्रामस्य निवासी अस्ति। [५]एतस्य जन्म १९८२ तमे ख्रिष्टाब्दे जनवरिमासस्य ऊनविंशे दिनाङ्के जातः। तस्य पिता सेवानिवृत्तो विद्यालयशिक्षकोऽस्ति। [६] तस्य प्रारम्भिकशिक्षा महाराजगञ्जे जाता। [६] गोरक्षपुरतः कलास्नातकपदवीं तथा च दिल्लीविश्वविद्यालयात् संस्कृतभाषायां फारसीभाषायां च कलापरास्नातकपदवीं प्राप्तवान्। [६] बलराम उभयविषयेषु शीर्षस्थानं प्राप्य सिडिदेशमुखस्वर्णपदकम् अपि प्राप्तवान्। [६] ततो बलरामो दिल्लीविश्वविद्यालयात् संस्कृतव्याकरणविषये विद्यावाचस्पतिपदवीं प्राप्तवान्। [६] बलरामः संस्कृते अनुसन्धानं सम्पद्य फारसीभाषायाम् अनुसन्धानं प्रारभत।

२००४ तमात् वर्षात् बलरामो दिल्लीविश्वविद्यालयेन मानितेषु विभिन्नेषु महाविद्यालयेषु अध्यापनं करोति यथा हिन्दूकोलेज् हंसराजकालेज् इत्येतयोः। [१] सम्प्रति स दिल्लीविश्वविद्यालयस्य संस्कृतविभागे प्राध्यापकोऽस्ति । [१]

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे तेन शिमलाया भारतीयोच्चाऽध्ययनसंस्थाने प्राकृत कविता के चारुत्व के भाषिक प्रयोजक इत्यस्मिन् विषये अनुसन्धानं सम्पन्नम्।

ख्यातिः सम्पादयतु

बलरामोऽद्यत्वे संस्कृतस्य अग्रणियुवविद्वान् स्वीकृतः अस्ति। स भारते ईराणदेशे च संस्कृतफारसीज्ञानाय च संस्कृतव्याकरणस्य निपुणतायै च संस्कृतस्य काव्यार्थं च सुप्रसिद्धोऽस्ति। [२] स प्रायः फारसीकाव्यस्य समानछन्दोभिः संस्कृते भाषान्तरीकरोति । [२]

बलरामो रूमिणः शतगझलगीतैः सह अनेकपरिशिष्टानां फारसीभाषया हिन्दीभाषायां भाषान्तरं कृतवान् अस्ति। सद्यः इराणस्य कलाशालायां तस्य उपस्थितौ पुस्तकस्य विमोचनं जातम्। साहित्यसमीक्षका अस्य पुस्तकस्य हिन्दीभाषायाम् अग्रणीकृतित्वेन अनुवादस्य आदर्शत्वेन च अत्यन्तं प्रशंसाम् अकुर्वन् । सम्प्रति स भारतीयसामाजिकाऽनुसन्धानपरिषदा प्रायोजितयोः मेण्ड् मौरेलिटि एण्ड् मोटिभ्स् : लर्णिङ्ग् फ्रौम् इण्डियन् ट्रडिशन् ॥आङ्ग्ले Mind, Morality and Motives : Learning from Indian Tradition इति॥ च इण्डवीराणियन् कोग्नेट् ग्लौसरी ॥आङ्ग्ले Indo-Iranian Cognate Glossary॥ चेत्येतयोः अनुसन्धानं करोति।[७]

बलरामस्य फारसीगीतयः सद्यः हफ्त शायर् अज् फर्दा इति खण्डे सङ्गृहीताः सन्ति येषु सप्तानीराणियुवानां फारसीकविनां प्रतिरूपकविताः सन्ति। [८]

पुरस्काराश्च सम्मानाः सम्पादयतु

बलरामाय अनेकाः सम्मानाः प्रदत्ताः सन्ति। तेषु केचन अधो लिखिताः।

  • २०१२ तमे ख्रिष्टाब्दे दिल्लीविश्वविद्यालये फारसीभाषायाः कलास्नातकोत्तरपाठ्यक्रमे स्वर्णपदकं प्रदत्तम्। [३]
  • २०१२ तमे ख्रिष्टाब्दे ईराणस्य तत्कालीनराष्ट्रपतिना महमूदाहमदीनेजाद् इत्यनेन फारसीसाहित्ये योगदानस्य कृते सम्मानितः। [६]
  • २०१३ तमे ख्रिष्टाब्दे भारतस्य तत्कालीनेन राष्ट्रपतिना प्रणबमुखर्जिना महर्षिबद्रायणव्याससम्मानः प्रदत्तः।
  • २०१७ तमस्य ख्रिष्टाब्दस्य अक्टूबरमासस्य द्विदिनाङ्के पण्डितप्रतापनारायणमिश्रयुवसाहित्यकारसम्मानः लक्ष्मणपुरस्य भोरावदेवरससेवान्यासेन प्रदत्तः। [९]
  • तल्लिखितः परिवाहः साहित्याऽकादमीसंस्थया प्रकाशितश्च उत्तरप्रदेशसंस्कृतसंस्थानेन २०१८ तमे ख्रिष्टाब्दे कालिदाससम्मानप्रदत्तः अस्ति। [१०]
  • २०२२ तमे ख्रिष्टाब्दे कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयेन महाकविकालिदाससंस्कृतव्रतिराष्ट्रीयपुरस्कारः प्रदत्तः।[११] [१२]

दृष्टिः सम्पादयतु

बलरामस्य मतो यत् संस्कृतभाषायां फारसीभाषायां च प्रायः ३५० समानाः शब्दाः सन्ति। बलरामः कथयति यत् रूमी च हाफिज् शिराजी चेत्यादीनां केषाञ्चन फारसीकविनां प्रभावः संस्कृतसहितानाम् अनेकानाम् भारतीयभाषाणां काव्येषु दृश्यते [२] अपि च बेदिल्देहलवी इत्यादिषु भारतस्य फारसीकविषु अपि दृश्यते। [२] संस्कृतकाव्यस्य विषये बलरामस्य मतो यत् अद्यत्वे अपि वैदिककालस्य समानेषु छन्दःसु च समानेषु विषयेषु च संस्कृतकाव्यस्य रचना भवति। अद्यत्वे अपि वाल्मीकिव्यासेत्यादीनां काव्यरचने शक्नुवन्तः कवयो भारते सन्ति चेति। [२]

कृतयः सम्पादयतु

ग्रन्थाः सम्पादयतु

  • आधुनिक संस्कृत साहित्य संचयन इति नाम भारते आधुनिकसंस्कृतकाव्यविषये हिन्दीसंशोधनग्रन्थस्य सम्पादको बलरामशुक्लः। देहल्या विद्यानिधिप्रकाशनात्। ISBN 978-81-86700-86-0
  • इष्ग्वतेश ॥फारसीभाषायांعشق و آتش॥ फारसीकाव्यसङ्ग्रहः। तेहरानस्य ईराणमिधत्प्रकाशनात्।ISBN ९७८-६००-५३१२-११ -९ .
  • भारतीय एवं पाश्चात्त्य वाक्यार्थ सिद्धान्त नाम वाक्यार्थस्य भारतीयपाश्चात्यसिद्धान्तानां विषये हिन्दीसंशोधनग्रन्थस्य लेखकः । नवदेहल्याः प्रतिभाप्रकाशनात्। ISBN 978-81-7702-335-0 .
  • मोहताशमकाशनिनः दवाजदेहबन्दस्य हिन्द्यनुवादः। रामपुरस्य रामपुररजापुस्तकालयात्। ISBN 978-93-82949-20-6 .
  • लघुसन्देशं नाम लघुसंस्कृतकाव्यसङ्ग्रहः। ISBN 978-93-85539-03-9 .
  • परिवाहः नाम संस्कृतकाव्यसङ्ग्रहः ।ISBN ९७८-८१-२६०-४७८७-१ साहित्याऽकादमीद्वारा प्रकाशितः
  • कवितापुत्रीकाजातिः मूलसंस्कृतकाव्यसंग्रह। नवदेहल्या राष्ट्रीयसंस्कृतसंस्थानात्।
  • निःशब्दनूपुर नाम रूमिणः शतगझलगीतानां सङ्ग्रहश्च हिन्द्यनुवादः। नवदेहल्या राजकमलप्रकाशनात्।ISBN ९७८-९३-८८१८३-२५-३
  • शतावधानिरचनासञ्चयनं नाम आधुनिकसंस्कृतकवेः शतावधानिनो डो आर् गणेशस्य सप्तसुन्दररचनासु विस्तृतपरिचयेन च ६०० टिप्पणिभिः सह सम्पादितम्। नवदेहल्या साहित्याऽकादमीतः। ISBN 978-93-89195-01-9
  • झाफ्रानोसन्दल ॥फारसीभाषायाम् زعفران و صندل ॥ फारसीगझलसङ्ग्रहः तेहरानतः। [१३]
  • पश्यन्ती नाम पञ्चसप्ततेः समकालीनसंस्कृतकविनां काव्यसङ्ग्रहः। प्रयागराजस्य राकाप्रकाशनात्। ISBN ९७८-९३-९०९६४-२७-७
  • निःशब्दनूपुरस्य द्वितीयसंस्करणम्। दिसम्बरमासः २०२१ ISBN ९७८-९३-९०९७१-६२-६

काव्योदाहरणम् सम्पादयतु

बलरामस्य समछन्दोऽनुवादः रूमिणो मश्नवी इत्यस्य उद्घाटनद्वयस्य संस्कृतभाषायाम्

Original Persian
بشنو از نی چون حکایت میکند
از جداییها شکایت میکند
کز نیستان تا مرا ببریدهاند
در نفیرم مرد و زن نالیدهاند
سینه خواهم شرحه شرحه از فراق
تا بگویم شرح درد اشتیاق
هر کسی کو دور ماند از اصل خویش
باز جوید روزگار وصل خویش

Sanskrit translation
श्रूयतां वंशीगलाद्वंशीकथा
कथ्यमाना विप्रयोगाणां व्यथा।
वंशिकारण्याद्यतो मां लूनवान्
सर्वलोकः कण्ठतो मे दूनवान्।
तद्वियोगैश्छिन्नभिन्नं मन्मनः
स्याद्यथोद्वेगं ब्रवीत्वेतज्जनः।
येन केनापि स्वमूलाद्भ्रश्यते
तेन भूयो योगमार्गोऽन्विष्यते।

बलरामेण रचित एकः संस्कृतश्लोकः

सर्वाङ्गं मलयजगन्धवन्द्यमानं

किं भूयो निटिलतटे पटीरचर्चा। संजाता मम धमनी ससूत्रजाला

संशीर्णा पुनरुपवीतसूत्रतः किम्॥

सन्दर्भाः सम्पादयतु

  1. १.० १.१ १.२ १.३ पृष्ठ पटलम्:Citation/CS1/styles.css रिक्त हैSharma, Jeevan (1 November 2014). "विद्वत्परिचयः" [Introduction to a scholar]. संस्कृतवाणी (in Sanskrit). Delhi: Srinivas Sanskrit Vidyapeeth. 1 (15): 2. ISSN 2349-0586. RNI No. DELSAN/2014/55803.
  2. २.० २.१ २.२ २.३ २.४ २.५ २.६ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; vartavali इत्यस्य आधारः अज्ञातः
  3. ३.० ३.१ ३.२ डॉ.बलरामशुक्लः पारसीकस्नातकोत्तरे सुवर्णपदकं लभते. Delhi. 16 July 2012. p. 1.  उद्धरणे दोषः : <ref> अमान्य टैग है; "ss" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  4. "Prez Gives Certificate of Honour to Language Experts". 17 January 2014. 
  5. "डा.बलराम शुक्ल को मिला राष्ट्रपति सम्मान". 4 February 2014. 
  6. ६.० ६.१ ६.२ ६.३ ६.४ ६.५ "डॉ.बलराम शुक्ल को महर्षि बादरायण व्यास सम्मान". 18 August 2013.  उद्धरणे दोषः : <ref> अमान्य टैग है; "jagran2" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  7. "बलरामशुक्लस्य विषये". 
  8. "دانلود کتاب و کتاب صوتی با طاقچه". طاقچه (in Persian). आह्रियत 2 June 2019. 
  9. "प्रताप नारायण मिश्र युवा साहित्यकार सम्मान के लिए 6 साहित्यकार चयनित". www.patrika.com (in hindi). आह्रियत 2 June 2019. 
  10. "कालिदास सम्मान से नवाजे गए डा. बलराम शुक्ल". Dainik Jagran (in Hindi). आह्रियत 2 June 2019. 
  11. "बलराम शुक्ल को महाकवि कालिदास संस्कृतव्रति राष्ट्रीय पुरस्कार". आह्रियत 8 October 2022. 
  12. "राष्ट्रीय पुरस्कार से सम्मानित हुए प्रो बलराम". आह्रियत 8 October 2022. 
  13. [fa:سروده‌های آیینی شاعر هندو منتشر شد/ «زعفران و صندل» شکلا به ایران رسید- اخبار فرهنگی - اخبار تسنیم] |trans-title= requires |title= (help). 14 January 2020. 
"https://sa.wikipedia.org/w/index.php?title=बलरामशुक्लः&oldid=479653" इत्यस्माद् प्रतिप्राप्तम्