स्कौट् तथा गैड् संस्था

(बालचमू इत्यस्मात् पुनर्निर्दिष्टम्)

स्कौट् तथा गैड् संस्था बालचमूः तावत् १९०७ तमे वर्षे आरब्धा । निवृत्तः योद्धा जनरल् लार्ड् ब्याडेन् पावेल् आदौ एकं प्रायोगिकं शिबिरं कृतवान् । इङ्ग्लेण्डदेशस्य समीपे ब्रौन्समुद्रस्य द्वीपे तेन शिबिरं चालितम् आसीत् । तत्र विंशतिः छात्राः भागं गृहीतवन्तः । एषः विषयः एकस्यां पाक्षिकपत्रिकायां प्रकाशितः अभवत् । तदनन्तरं एकं पुस्तकं प्रकाशितम् । तस्य नाम “ बालकानां कृते स्कौटिङ्ग् “ इति । एवं बालचमूः आरब्धा । १९१० तमे वर्षे क्रिस्टलराजभवने बालिकाः बालचमूवस्त्रेण विराजन्ते स्म । ताः अपि बालचमू मध्ये प्राविशन् । ताः अस्मिन् आन्दोलने प्रवेष्टुम् इष्टवत्यः । अतः लार्ड् ब्याडेन् पोवेल् बालिकानां कृते अपि एकां चमूम् आरब्धुमिष्टवान् । तदर्थं सः तस्य भगिन्याः अग्नेस् ब्याडेन् पावेल् वर्यायाः साहाय्यं स्वीकृतवान् ।

जनरल् लार्ड् ब्याडेन् पावेल्

भारते बालचमूः सम्पादयतु

भारते अस्याः आरम्भः १९०९ तमे वर्षे क्याप्टेन् टि .ऐ .बेकेर् इत्यनेन आरब्धा । सः बेङ्गळूरुनगरे प्रथमं गणम् आरब्धवान् । सः लण्डन् नगरस्य इम्पीरियल् मुख्यालयेन पञ्जीकृतः । अनन्तरं पुणेमध्ये, खर्की इति स्थाने शिमला, मदरास्, जबलपुरम्, लोणावळा(मुम्बयी) आरब्धाः । एते सर्वे अपि लण्डन् नगरस्य इम्पीरियल् प्रमुखालये पञ्जीकृताः । एते केवलं यूरोपीयजनानां तथा आङ्ग्लो-भारतीयानां बालानां कृते आसन् । १९११ तमे वर्षे प्रथमं तावत् गैड् संस्था भारते जबलपुरनगारे स्थापिता । अदौ भारतीयबालानां तत्र प्रवेशः नासीत् अतःभारतीयाः राष्ट्रियाः नायकाः भारतीयबालानां कृते एतत् भवतु इति चिन्तयित्वा सेवासमितिचमूसङ्घं स्थापितवन्तः । एतस्य मुख्यकार्यालयः इलाहाबादमध्ये आरब्धः । सः पण्डितमदनमोहनमालवीयः पण्डितहृदयनाथकुञ्रू - पण्डितश्रीरामबाजपै -इत्येतैः आरब्धः । डा एनी बेसन्ट् , श्री जि.एस् अर्न्डेल् इत्येताभ्यां बालाकानां कृते मद्रास् मध्ये पृथक् बालचमू आरब्धा । लार्ड् पावेल् यदा भारतं प्रति आगतवान् तदानीं भारते विद्यमानाः सर्वाः विविधबालचमूः एकीकर्तुं प्रयासः विहितः ।सः १९२१ तथा १९३७उ तमे वर्षयोः भारतं प्रति आगतवान् , परन्तु तस्मिन् कार्ये असफलता जाता । तत्र प्रमुखं कारणं अस्ति यत् प्रतिज्ञावर्गे “ राज्ञः कृते मम कर्तव्यः “ इति आसीत् । अस्माकं देशभक्तिः तदङ्गीकर्तुं सहमता नाभवत् । प्रतिज्ञायां भारतदेशविषये कर्तव्यनिष्ठतायाः प्रकटन भवतु इति तेषाम् आशयः । स्वतन्त्रभारते बलचमू-आन्दोलनम् स्वातन्त्र्यानन्तरं बालचमूनां एकीकरणाय प्रयासाः विहिताः जवहर्लाल्प्रभृतिभिः । डा ताराचन्द, शिक्षाविभागस्य कार्यदर्शी , एकीकरविषये मह्त्त्वं योगदानं कृतवान् । अन्ते १९५० तमे वर्षे नवेम्बर् मासस्य सप्तमे दिनाङ्के एकीकरणम् अभवत् । तस्य नामकरणं च जातं – “भारतस्कौट्स् तथा गैड्स् “ इति बालिकाचमू सङ्घः १९५१ वर्षे आगस्ट् मासस्य १५ दिने भारत्स्कौट् तथा गैड्स् मध्ये प्रविष्टा । संविधानं तथा मुख्यकार्यालयः भारत स्कौट् तहा गैड्स् तावत् सोसाइटी- पञ्जीकरण-अधिनियमः - 1860 (अधिनियमः xxi,1860) द्वारा निबन्धिता । एषा पूर्णतया ऐच्छिकी , राजकीयेतरा, जात्यतीता संस्था अस्ति ।

अस्याः मुख्यालयः नवदेहल्याम् कन्नाट्स्थाने, रीगल्भवने स्थापितः ।अनन्तरं एषा स्थानन्तरिता इदानीं स्वकीये लक्ष्मीमजुन्दार्भवने कार्यं निर्वहति , यश्च नवदेहल्याः इन्द्रप्रस्थ एस्टेट् मध्ये १६, महात्मगान्धी मार्गे अस्ति । अस्य लोकार्पणं १९६३ तमे वर्षे भारतस्य उपाध्यक्षेन डा ज़कीर् हुसेनेन कृतम् ।

मूलभूततत्त्वानि- लक्षणम्- एषा संस्था ऐच्छिकी, राजकीयेतरा,शिक्षणार्थं आन्दोलनरूपिणी अस्ति । यत्रा युवानः जातिलिङ्गप्रादेशभावनां विहाय प्रवेष्टुम् अर्हाः । यथा स्थापकेन लार्ड् ब्याडेद्न् पावेल् महोदयेन १९०७ तमे वर्षे निर्दिष्टनियमानुसारम् । उद्देशः अस्य उद्देशः तु यूनां दैहिक- बौद्धिक-सामाजिकधार्मिकाभिवृद्ध्यर्थम् ।देशस्य प्रबुद्धनागरिकाः भवेयुः । प्रार्थना

 
दया कर दान भक्ति का
हमें परमात्मा देन ।
दया करना हमारी
आत्मा में शुद्धता देना ॥
हमारे ध्याने में आओ
प्रभु आंखों में बस् जाओ
अन्धेरे दिल के आकर के
परम ज्योति जगा देना ॥
बहा दो प्रेम् की गङ्गा
दिलो में प्रेम का सागर
हमें आपस में मिल जुलकर
प्रभु रेहना सिखा देना ॥
हमरा कर्म हो सेवा
हमारा धर्म हो सेवा ।
 सदा ईमान हो सेवा


वो सेवक घर बना देना ।
वतन के वास्ते जीन
वतन के वास्ते मरना
वतन पार जाना फिदा करना
 प्रभु हम को सिखा देना
 दया कर दान् भक्ति का
हमें परमात्म देना

दया कर हमारी
आत्मा में शुद्धाता देना