बालभारतम्
बालभारतस्य अङ्कद्वयमेवादिदं सम्प्रति लभ्यते, शेषं च नाद्य यावत् समासादितम् । अस्य रचयिता राजशेखरः वर्तते। इदं च द्रौपदी स्वयंवरादारभ्यते । वन्दी घोषयामास -
बालभारतम् | |
---|---|
लेखकः | राजशेखरः |
देशः | भारतम् |
भाषा | संस्कृतम् |
सकल-भुवन-रक्षा-स्रस्ततन्द्रा नरेन्द्राः
शृणुत गिरमुदारामादराच्छ्रावयामि।
इह हि सदसि राधां यः शरव्यीकरोति
स्मरविजयपताका द्रौपदी तत्कलत्रम्॥[१]
प्रवासिनः पाण्डवाः कृत-विप्रवेषा विप्र-पङ्क्तौ निषेदुः । अर्जुनादृते न कोऽपि साफल्यं लप्स्यते इत्यासीद् द्रोणाचार्यस्य निर्णयः । सर्वेषु पराङ्मुखे राजसु ब्राह्मणवेषोऽजुनो राधामविध्यत । नाज्ञातकुलशीलाय कन्या सम्प्रदेयेति वदतोऽनादृत्य स द्रौपदीमनयत् । प्रतिपूर्णे सति क इह प्रश्नः कुलशीलयोरिति ? शेषा राजानो युद्धोद्यता भीमेन निराकृताः।
अथ विदुरेण वर्जितापि द्यूतक्रीडा समारब्धा । तत्र युधिष्ठिरः सर्वस्वं हारयित्वा द्वादशवर्षीयं वनप्रवासमङ्गीकृतवान् । पणीभूतां हारितां च पाञ्चालीं सभासदनमानीय दुःशासनस्तां निर्वस्त्रां विधातुं यतते स्म किन्तु मायया तस्या नवान्येव वस्त्राणि तामावासयन्ति स्म । दुर्योधनानुजो विकर्णो दुःशासनं निवारयामास -
भो दुःशासन कः क्रमो द्रुपदना-केशाम्बराकर्षणे।
दुर्वृत्तं क्षमते न कस्यचिदयं भ्राता विकर्णस्तव॥[२]
भीम-कृतायाः दुर्योधन-रक्त-पान-प्रतिज्ञायाः अनन्तरं द्वितीयोऽङ्कः परिसमाप्यते । प्रस्तावनायाः परस्तादत्र नाटके वाल्मीकि-व्यासयोः संवादः आयोजितः । व्यासो वदति -
यदुक्तिमुद्रा सुहृदथवीथी कथारसो यच्चुलुकैश्चुलुक्यः।
तथामृतस्यन्दि च यद् वचांसि रामायणं तत् कवितॄन् पुनाति।।[३]
वाल्मीकिश्च व्यासकृतं महाभारतं स्तौति -
दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः,
पणप्राशनिभिर्मिताम्बु-कवलैः काले च पक्वाशिभिः।
नीवार-प्रसृतिंपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः,
सेव्यं-भव्यमनोभिरर्थपतिभिस्तद् वै महाभारतम्।।[४]