महालिङ्गः
महालिङ्गस्य उत महालिङ्गशास्त्रिणः जन्म १८९७ ख्रीष्टाब्दे समभूत् । तञ्जौर-मण्डल-वास्तव्येन कविना प्रतिराजसूयनाटकस्य अन्ते निजवंशस्य परिचयो लिखितः । शास्त्रिणा काव्य-कथोपन्यास-सङ्गीत-ललितकलाविषयका अनेके ग्रन्था विरचिताः । अस्य नाट्य-साहित्यं तु सारस्वतसारावताररूपं वर्तते । कविनानेन शृङ्गारनारदीयम् उभयरूपकम् । अयोध्याकाण्डं, मर्कटमार्दलिकप्रभृतीनि नाटकान्तराण्यपि प्रणीतानि ।
महालिङ्गः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | उद्गातृदशाननम्, प्रतिराजसूयम्, आदिकाव्योदयम्, कलिप्रादुर्भावम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
उद्गातृदशाननम्
सम्पादयतुउद्गातृ-दशाननं नाम नाटकं परमेश्वरस्य कृपा-प्राप्ति-साधनमिति प्रमाणयति सूत्रधारः । रूपकस्यास्य क्रीडास्थली हिमालयप्रदेशः ।
द्वारपालो नन्दी स्वसहचरं भृङ्गिरिटिं शिव-पार्वत्योः वैमनस्यविषये ब्रवीति । एतत्सर्वं रहस्यवार्तां शृण्वन्तीं विजयां प्रति शिवस्य शापः प्रवर्तितः। अत्रान्तरे राक्षसास्तं प्रदेशमाचक्रमुः । विनायक-स्कन्दाभ्यां शिवपुत्राभ्यां सपद्येव दशवदनपीडितकुबेरस्य दैन्यसमाचारः परिज्ञातः । कुबेरप्रभृतयः सर्वेऽपि यक्षाः सुरेन्द्रं पुरस्कृत्यं शिवस्य शरणं जग्मुः ।
द्वितीयाङ्के रावणः कुबेरस्य सिंहासने विराजमानोऽस्ति । तृतीयाके राक्षसैः यक्षदूतो निगृहीतो रावणान्तिकं चानीतः । ततो नारदेन रावणः शिवेन सह योद्धुं प्रेरितः । दशवदनः पुष्पकविमानेन शिवं जेतुं प्रतस्थे । स तत्र गत्वा कैलासपर्वतमुत्थापयामास । शिवः पादाङ्गुष्ठबलेन पर्वतं पुनरपि स्थिरीचकार । कम्पमानपर्वते स्थिता पार्वती भयातुरा सती सत्वरमेव मानं तत्याज । तथा हि -
कैलासाद्रेस्तोलनं तावदास्तां तेनैवास्मिन् दृष्टवीर्ये प्रतुष्येत्।
त्रस्ता देवी मानमुत्सृज्य कण्ठं जग्राह स्थाणुरन्तः समोदः।।
अभिनये रङ्गमञ्चो विचित्ररूपधारिपात्रैः मण्डितोऽस्ति । छायात्मकपात्राणां विचित्रता अस्ति ।
प्रतिराजसूयम्
सम्पादयतुप्रतिराजसूयं नाटकं १९५७ ख्रीष्टाब्दे प्रकाशितम् । सप्तस्वकेषु विभक्तस्यास्य नाटकस्योपजीव्यं महाभारतस्य वनपर्व वर्तते । नाटकेऽस्मिन् विदुरप्रवेशः, अक्षयपात्रोपलब्धिः, सुदर्शन-प्रवेशः, दुर्वाससोऽभ्यागमनं, राजकुले दुर्वासा, अर्जुनस्यागमनं, पुलाकपरिपाकः, अभिमन्योश्चाभिसन्धिर्वर्णितानि ।
आदिकाव्योदयम्
सम्पादयतुआदिकाव्योदयं रूपकं प्रकरणं वर्तते । रूपकस्यास्य प्रणयनं १५४२ ख्रीष्टाब्दे समापन्नम् । कथानुसारं काचिद् दिव्याङ्गना शिशुद्वयं वाल्मीकेः संरक्षकत्वे निहितवती । वाल्मीकिध्यानबलेन निखिलमपि वृत्तान्तं ज्ञातवान् । द्वितीयके वाल्मीकिः भरद्वाजश्च तमसायास्तीरे विराजमानौ स्तः । तत्र रमणीयेऽरण्ये कश्चिन्निर्दयो निषादो बाण-प्रहारेण क्रौञ्चमिथुनादेकम् अवधीत् । वाल्मीकिस्तं मा निषादेति श्लोकेन अभिशशाप । सपद्येवाकाशवाणी बभाषे -
'कुरु रामायणं कृत्स्नं श्लोकैर्बद्धं मनोहरम्' इति।
तृतीयेऽङ्के रामायणप्रणयनस्य सूचना सम्प्राप्यते । कुश-लवौ तत्कण्ठाग्रीकृत्य गायतः । चतुर्थाङ्के स्वर्णमयीसीतासहायो रामोऽश्वमेधयज्ञानुष्ठाननिरतोऽस्ति । षष्ठेऽङ्के पुत्तलिकानृत्यस्य समावेशो वर्तते । सप्तमेऽङ्के गर्भाङ्कस्य समावेशोऽस्ति । अष्टमाङ्के भीषणयुद्धस्य नवमेऽङ्के रात्रौ विभीषण-हनुमतोः वार्तालापस्य च वर्णनमुपलभ्यते ।
कौण्डिन्य-प्रहसनम्
सम्पादयतुकौण्डिन्यप्रहसने नान्दीत एवं प्रेक्षकहास्यसंवर्धिनी प्रवृतिर्दृश्यते । कविः शष्कुली-कवितयोः समानास्वाद्यतां प्रतिपादयति । प्रभाते द्वादशी-पारणानन्तरं गृध्रनासोऽपराह्न-भोजनार्थं चिन्ताकुलो बभूव । स भिक्षार्थं बहिर्गच्छति ।
द्वितीयाङ्के कौण्डिन्यनामकः परान्नव्रतः गृध्रनासं व्यलोकयत् । स तस्य गृहमगच्छत् । तद्वारद्वेशं गत्वा गायति स्म -
परगृहभोजनपरितुष्टानां नित्यातिभ्योत्सवनिष्ठानाम्।
कालत्रयविरतोद्योगानां किं च समेतामितभोगानाम्।।
गृहमेधिनिमन्त्रणचित्तानां षड्रसभरिताशनमत्तानाम्।।[१]
एवं गायन्नसौ पृष्ठद्वारतोऽन्तः प्रविश्य तस्य भोजनं खादितवान् । नाट्यकथायाः संविधानं हास्यकरं वर्तते । संवादः सरल-सुबोधभाषायाम् अतीवमनोग्राही सञ्जातः।
कलिप्रादुर्भावम्
सम्पादयतुकलि-प्रादुर्भावं नाम नाटकं १९५६ ख्रीष्टाब्दे प्रकाशितम् । कथानुसारं द्वापरयुगस्य अन्तिमदिवस आसीत् । कात्यायनमिश्रः स्वकीयक्षेत्रं कस्मैचिद् वैश्याय विक्रीणाति । क्षेत्रमुत्खनता वैश्येन निधिः सम्प्राप्तः । स प्रथमदिवसे तं निधिं ब्राह्मणसर्वस्वं मत्वा तस्मै दातुं समुद्यतो बभूव । ब्राह्मणोऽपि तं स्वीकर्तुं नैच्छत् । अपरस्मिन् दिने कलियुगागमनप्रभावेण बुद्धि-परिवर्तनेन तौ द्वावपि निधिप्राप्त्यर्थं कलहं चक्रतुः । अधिकरणिकस्य आज्ञानुसारं निधिर्नरपतये समर्पितः क्षेत्रं च ब्राह्मणाय प्रत्यर्पितम्।
सम्बद्धाः लेखाः
सम्पादयतुउद्धरणम्
सम्पादयतु- ↑ २.१५