शिवः(shiva) सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः। नीलकण्ठः सः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां मुकुटे च शशिनं धरति। तस्य करे डमरु-त्रिशूलश्च शोभते। त्रिशूलः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्म वस्त्रमिव परिगृह्णाति । सः पञ्चाननः इति नाम्ना अपि प्रसिद्धः। तस्य विविधानि रूपाणि सन्ति। सः नूतनैः रूपैः लक्षणैश्च प्रतीयते। शिवः साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। ध्यानमग्नस्य ताण्डवनृत्यरतस्य च शिवस्य मूर्तिः ख्यातः।

शिवः
Shiva meditating Rishikesh.jpg

व्युत्पत्तिःसम्पाद्यताम्

'शिवम्' इति विशेषणवाचकशब्दस्य अर्थः शुभं मङ्गलं च ।(आप्ते, पृ. ९१९., म्याक्डोनेल्, पृ:. ३१४) नामरूपेण 'शिवः' इत्यस्य अर्थः मङ्गलमयः इति । विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीनां अभिधारूपेण व्यवहृतः आसीत्।(चक्रवर्तिः,पृ: २८) ऋग्वेदे इन्द्रः एकाधिकस्थले स्ववर्णनायाम् अस्य शब्दस्य(शिवः इति) प्रयोगं कृतवान्।(२:२०:३, ६:४५:१७, ८:९३:३)
विष्णुसहस्रनामस्तोत्रे विष्णोः २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्त्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्तिः भवति"।(श्री विष्णुसहस्रनाम,रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित-"शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) महाभारतस्य त्रयोदशपर्वणि(अनुशासनम्)शिवसहस्रनामस्तोत्रस्य मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"मपि लब्धम् अस्ति। "शतरुद्रीयम्" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवराममूर्तिः,१९७६)

स्वरूपम्सम्पाद्यताम्

तृतीयनयनम्सम्पाद्यताम्

शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतः अभवत् ।(फ्लाड् ,१९९६,पृ: १५१.) शिवस्य त्र्यम्बकमिति नाम्नः अपि त्रिनयनसमन्वितः इत्येवार्थः।(चक्रवर्तिः,पृ।-३७-३९)

अर्धचन्द्रःसम्पाद्यताम्

शिव अर्धचन्द्रं शिरसि धरति। अतः तस्य अपरनाम "चन्द्रशेखरः" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगतः एव अर्धश्चन्द्र: शिवस्य एकः वैशिष्टः।(चक्रवर्तिः,पृ : ५८) सम्भवतः वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयोः एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्तिः स्यात्।

विभूतिःसम्पाद्यताम्

विभूतिः वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपाः प्राचीन्भारतीय-श्मशानवैराग्य-दर्शनैस्साकं युक्ताः। अस्य मतानुयायीनः भवन्ति रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः । विभूतिभूषणोऽपि शिवस्य अपराख्या।

जटाजुटःसम्पाद्यताम्

शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्तः) इत्यपि उच्यते। (चिद्भवनन्दः,पृ : २२, म्याक्डोनेल्, पृ: ६२.)

नीलकण्ठःसम्पाद्यताम्

समुद्रमन्थनकाले उत्थित-हलाहलविषं पीत्वा शिवः नीलकण्ठः सञ्जातः।(फ़्लाड् ,१९९६.पृ: ९८| चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणे अस्ति विष्णुः एकदा शिवस्य कण्ठाऽवरोधं कृतवान्। शिवः पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठः नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (८६९)।

पवित्रगङ्गासम्पाद्यताम्

हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८)

ज्योतिर्लिङ्गमन्दिरानिसम्पाद्यताम्

शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-

ज्योतिर्लिङ्गम् अवस्थानम्
सोमनाथः   प्रभासपाटनम् , वेरावलस्य समीपे, गुजरातराज्यम्
मल्लिकार्जुनः   श्री शैलम्, आन्ध्रप्रदेशराज्यम्
महाकालेश्वरः   उज्जयिनी, मध्यप्रदेशः
ओङ्कारेश्वरः   इन्दौरनगरस्य समीपे, मध्यप्रदेशः
केदारनाथः   केदारनाथः, उत्तराखण्डराज्यम्
भीमशङ्करः   वितर्कितम्
काशीविश्वनाथः वाराणसीनगरम्, उत्तरप्रदेशराज्यम्
त्र्यम्बकेश्वर:   त्र्यम्बकम्, नासिकनगरम्, महाराष्ट्रराज्यम्
रामनाथस्वामी   रामेश्वरम्, तमिऴनाडुराज्यम्
घृष्णेश्वरः   इलोरा, महाराष्ट्रराज्यम्
वैद्यनाथः वितर्कितम्
नागेश्वर:   वितर्कितम्

.

  1. For the name Kailāsagirivāsī (Sanskrit कैलासिगिरवासी), "With his abode on Mount Kailāsa", as a name appearing in the Shiva Sahasranama, see: Sharma 1996, पृष्ठम् 281.
"https://sa.wikipedia.org/w/index.php?title=शिवः&oldid=436260" इत्यस्माद् पुनः प्राप्तिः