द्वादशज्योतिर्लिङ्गानि

(ज्योतिर्लिङ्गम् इत्यस्मात् पुनर्निर्दिष्टम्)

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे । यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः । तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे । तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि । तानि शिवपुराणानुसारम् एवं सन्ति :

द्वादशज्योतिर्लिङ्गानि is located in India
सोमनाथः
मल्लिकार्जुनस्वामी
महाकाळेश्वरः
ॐकारेश्वरः
वैद्यनाथः
भीमशङ्करः
रामेश्वरम्
विश्वनाथः
त्र्यम्बकेश्वरः
केदारनाथः
ग्रिनेश्वरः
भारते द्वादशज्योतिर्लिङ्गानां स्थाननिर्देशः
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥ ३ ॥
एतानि ज्योतिर्लिड्गानि सायंप्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥

एतेषां द्वादश ज्योतिर्लिङ्गानां माहात्म्यं वर्णनातीतम् । प्रतिदिनं प्रातःकाले ये एतानि ज्योतिर्लिङ्गानि स्मरन्ति तेषां सप्तजन्मकृतं पापं विनश्यति इति शिवपुराणे वर्णितम् अस्ति । न केवलं शिवपुराणे अपि तु रामायणे, महाभारते, इतरेषु अपि धर्मग्रन्थेषु ज्योतिर्लिङ्गानां वर्णनं कृतम् अस्ति । स्कन्दपुराणान्तर्गते काशीखण्डे, सेतुबन्धखण्डे, रेवाखण्डे, अवन्तीखण्डे, केदारखण्डे च क्रमेण काश्याः, रामेश्वरस्य, ओङ्करेश्वरस्य, महाकालस्य, केदारेश्वरस्य च वर्णनम् अस्ति । तैत्तरीयोपनिषदि ब्रह्मा, माया, जीवः, मनः, बुद्धिः, चित्तम्, अहङ्कारः, आकाशः, अग्निः, वायुः, जलं, पृथ्वी इत्येतानि द्वादश तत्त्वानि एव द्वादश ज्योतिर्लिङ्गानि इति उक्तम् । द्वादश आदित्यानां प्रतीकानि द्वादश ज्योतिर्लिङ्गानि इत्यपि भावयन्ति कुत्रचित् । इदानीं सुप्तावस्थायां विद्यमानानां ज्वालामुखीनाम् उद्रेकस्थानानि एव द्वादश ज्योतिर्लिङ्गानि इति अभिप्रायः विज्ञानिनाम्भारतस्य सांस्कृतिक-ऐक्यसाधने एतेषां ज्योतिर्लिङ्गानां योगदानं महदेव अस्ति ।

सौराष्ट्रे विद्यमानं सोमनाथमन्दिरम्

सोमनाथः - सौराष्ट्रम्

सौराष्ट्रे सोमनाथम् इति यद् प्रथमपङ्क्त्याम् अस्ति तत्र निर्दिष्टं सौराष्ट्रं नाम इदानीन्तनं गुजरातराज्यम् । तत्रत्यं सोमनाथमन्दिरम् अद्यापि अत्यन्तं प्रसिद्धम् एव | तत् क्षेत्रं "प्रभासक्षेत्रम्" इत्यपि उच्यते । तत्र समुद्रतीरे विराजमानः अस्ति सोमनाथः । इदानीं तत्र महदेव सोमनाथमन्दिरं निर्मितम् अस्ति । अस्मिन् नगरे अनेकानि मन्दिराणि सन्ति । नूतनमन्दिरसमीपे एव राज्ञ्या अहल्यादेव्या निर्मितं मन्दिरम् अपि अस्ति । अत्र शिवलिङ्गं परितः पार्वत्याः, लक्ष्म्याः, गङ्गायाः, सरस्वत्याः, नन्देः इतरेषां देवानां च विग्रहाः सन्ति । लिङ्गस्य उपरिभागे अहल्येश्वरनामकः शिवविग्रहः अस्ति । अत्र सुन्दरं लक्ष्मीनारायविग्रहयुक्तं मनोहरमन्दिरम् अपि अस्ति । उद्यमी बिर्ला अस्य मन्दिरस्य निर्माणम् अकारयत् । अत्र भित्तिषु गीताश्लोकाः, देवदेवतानां सुन्दराणि चित्राणि च सन्ति । अमृतशिलया नुर्मितम् एतत् मन्दिरं ध्यानयोग्यम् अस्ति । अस्य गीतामन्दिरस्य समीपे एव प्राचीनं बलराममन्दिरम् अस्ति । तत्र बलरामस्य महामूर्तिः अस्ति । तत्पार्श्वे एव बलरामेण महाशेषरूपेण पातालं गतः गुहामार्गः अपि अस्ति । अनतिदूरे एव भगवतः श्रीकृष्णस्य देहोत्सर्गस्थानम् अस्ति । तत्र कश्चन प्राचिनः अश्वत्थवृक्षः अस्ति । तत्समीपे पादद्वयम् अस्ति । भालुकक्षेत्रे केनचित् व्याधेन प्रयुक्तः बाणः श्रीकृष्णं व्रणितम् अकरोत् । तदेव निमित्तीकृत्य श्रीकृष्णः प्रभासक्षेत्रम् आगत्य देहत्यागम् अकरोत् । तस्य देहोत्सर्गस्थाने हिरण्यानद्याः तीरे यादवस्थाली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति ।
आन्ध्रप्रदेशस्य श्रीशैलपर्वते विद्यमानं मल्लिकार्जुनमन्दिरम्

मल्लिकार्जुनः - श्रीशैलम्

प्रथमपङ्क्त्यामेव वर्णितं "श्रीशैले मल्लिकार्जुनम्" इति यदस्ति तत् श्रीशैलक्षेत्रम् अस्ति इदानीन्तन-आन्ध्रप्रदेशराज्ये । आन्ध्रप्रदेशे कृष्णानदीतीरे श्रीशैलपर्वतस्य उपरि विराजमानः अस्ति मल्लिकार्जुनदेवालयः । एतस्य क्षेत्रस्य दर्शनेन मुक्तिः प्राप्यते इति उच्यते । "श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते" इति लोकोक्तिः नितरां प्रसिद्धा एव । कर्नूलुजनपदस्य नन्दिकोटकूरुतालूक्प्रदेशे प्रसृतायां नल्लमलैपर्वतश्रेण्यां वनमध्ये कृष्णानद्याः दक्षिणभागे स्थितम् अस्ति इदं श्रीशैलक्षेत्रम् । अत्र प्रवहन्ती कृष्णानदी अत्यन्तं गभीरेषु खातेषु प्रवहति । एषा एव नदी "पातालगङ्गा" इति उच्यते । मल्लिकार्जुनमन्दिरस्य पश्चिमभागे भ्रमराम्बिकायाः मन्दिरम् अस्ति । अत्र महाशिवरात्रिः महता वैभवेन आचर्यते । एतत् क्षेत्रं बौद्धानां पवित्रं क्षेत्रम् । बौद्धतत्त्वज्ञानी आर्यनागार्जुनः अस्मिन् क्षेत्रे तपः आचरत् इति । आर्यनागार्जुनः रसविद्यायाम्, आयुर्वेदे, मन्त्रशास्त्रे, ज्योतिष्ये च निपुणः आसीत् । राज्ञे भोजदेवाय बौद्धधर्मस्य दीक्षाम् अयच्छत् आर्यनागार्जुनः एव । अयम् आर्यनागार्जुनः नलन्दाविश्वविद्यालयस्य संस्थापकेषु अन्यतमः अपि ।
मध्यप्रदेशस्य उज्जयिन्यां विद्यमानं महाकालमन्दिरम्

महाकालः - उज्जयिनी

उज्जयिन्यां महाकालम् इत्युक्तं यद् तत् प्रसिद्धम् उज्जयिनिनगरं विद्यते इदानीन्तनमध्यप्रदेशराज्ये । तत् नगरम् "अवन्तिकापुरी" इत्यपि उच्यते । एषा अवन्तिकापुरी सप्तमोक्षपुरीषु अन्यतमा । तत्र शिप्रानदीतीरे देदीप्यमानः अस्ति महाकालेश्वरःप्रदोषकालस्य पूजासमये महाकालेश्वरस्य दर्शनं महत् भाग्यकरम् इति उच्यते । अस्मिन् मन्दिरे आहत्य पञ्च अट्टाः सन्ति । तेषु एकः अट्टः भूम्याः अन्तः अस्ति । गर्भगृहस्य अन्तः प्रकाशः न भवति इत्यनेन सर्वदा तैलदीपः ज्वलन् भवति तत्र । नागपरिवेष्टितं महाकालस्य शिवलिङ्गं विशालम् अस्ति । एकदा देवाय अर्पितं पुष्पं पुनः न समर्प्यते कुत्रापि । किन्तु ज्योतिर्लिङ्गानां तथा नास्ति । एकदा अर्पितं बिल्वपत्रं प्रक्षाल्य पुनः अर्प्यते । शिवपुराणे महाकालसम्बद्धा काचित् कथा एवम् अस्ति – अवन्तीनगरे कश्चन धार्मिकः ब्राह्मणः वसति स्म । तस्य नगरस्य पार्श्वे रत्नमालानामकः गिरिः आसीत् । तत्र दूषणनामकः राक्षसः वसति स्म । सः राक्षसः अवन्तिनगरस्य जनान् सर्वदा पीडयति स्म । कदाचित् अवन्तीनगरस्थाः ब्राह्मणस्य समीपम् आगत्य अस्मान् रक्षतु इति प्रार्थितवन्तः । तदा ब्राह्मणः उग्रं तपः आचरत् । तपसा सन्तुष्टः शिवः भूमिं विदार्य बहिरागत्य राक्षससंहारम् अकरोत् । अनन्तरं भक्तानाम् इच्छानुसारं अवन्तिकायां महाकालरूपेण स्थितः । स्कन्दपुराणे एतत् क्षेत्रं “महाकालवनम्” इति एव निर्दिष्टम् अस्ति । एतदेकं सर्वोत्कृष्टं तीर्थम् इति वदति अग्निपुराणम् । उज्जयिन्यां महाकालस्य दर्शनेन अकालमृत्युः नश्यति, मुक्तिः अपि प्राप्यते इति ।
मध्यप्रदेशे नर्मदातीरे विराजमानम् ओङ्कारेश्वरमन्दिरम्

ओङ्कारेश्वरः - अमलेश्वरम्

ओङ्कारममलेश्वरम् इति यदुक्तं तत्र निर्दिष्टम् ओङ्कारेश्वरक्षेत्रम् अस्ति इदानीन्तनमध्यप्रदेशराज्ये । एतत् क्षेत्रं नर्मदानदीतीरे विराजते । एतस्य क्षेत्रस्य "मान्धाता" इति नामान्तरमपि अस्ति । अत्र एकस्मिन् एव क्षेत्रे ज्योतिर्लिङ्गद्वयम् अस्ति । ओङ्कारेश्वरः अमलेश्वरः च । ओङ्कारेश्वरमन्दिरं प्राचीनबौद्धविहारः इव दृश्यते । इदानीं विद्यमानम् ओङ्कारेश्वरमन्दिरं राज्ञी अहल्याबाई निरमापयत् । अत्रत्यस्य शिवलिङ्गस्य स्थानान्तरं कृतम् इव दृश्यते । तत् शिखरस्य अधः वा पार्श्वे वा अपसारितम् इव अस्ति । यवनानाम् आक्रमणात् शिवलिङ्ग्स्य रक्षणार्थं मूललिङ्गं गोपयित्वा तत्स्थाने अन्यत् लिङ्गं स्थापितम् इति श्रूयते । एतत् लिङ्गं परितः सर्वदा जलं स्थितं भवति । अत्र ओङ्कारेश्वरस्य पार्श्वे एव पार्वत्याः पञ्चमुखीगणेशस्य च विग्रहः अस्ति । मन्दिरस्य द्वितीये अट्टे महाकालेश्वरलिङ्गम् अस्ति । तृतीये अट्टे वैद्यनाथेश्वरलिङ्गम् अस्ति ।

वैद्यनाथः - परली

परल्यां वैद्यनाथेश्वरम् इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । अत्र वैद्यनाथेश्वरनामकं ज्योतिर्लिङ्गमस्ति । कुष्ठरोगिणः अत्र सेवां कृत्वा रोगमुक्ताः भवन्ति इति प्रतीतिरस्ति । एतस्य क्षेत्रस्य "चिताभूमिः" इत्यपि नामान्तरमस्ति ।
महाराष्ट्रे डाकिन्यां विद्यमानं भीमश्ङ्करमन्दिरम्

भीमशङ्करः - डाकिनी

डाकिन्यां भीमशङ्करम् इति यदुक्तं तत् क्षेत्रमपि इदानीन्तनमहाराष्ट्रराज्ये एव अस्ति । पुणेजनपदस्य खेड्-उपमण्डले भीमातीरे अस्ति एतत् क्षेत्रम् । एतत् खेड्तः ५० कि मी दूरे, पुणेतः १०० कि मी दूरे अस्ति । पुरा अत्र 'डाकिनी' इति ग्रामः आसीत् इति । अयं देवालयः सह्यपर्वतस्य उपरि अस्ति । भीमाशङ्करं भीमानद्याः उद्भवस्थानम् । भीमानदी कृष्णानद्याः उपनदी अस्ति । भीमानदी कर्णाटकराज्यस्य रायचूरुसमीपे कृष्णानद्या मिलति । भीमाशङ्करे वन्यमृगाणाम् अभयारण्यमपि अस्ति ।
तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्

रामेश्वरः - रामेश्वरम्

सेतुबन्धे तु रामेशम् इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनतमिळुनाडुराज्ये । अत्रत्यः देवः अस्ति रामनाथेश्वरः । अत्र श्रीरामः 'रावणेन सह कृतात् युद्धात् जातेभ्यः सर्वेभ्यः पापेभ्यः मुक्तः भवेयम्' इति प्रार्थितवान् इति श्रूयते । जीवने एकवारं वा रामनाथेश्वरस्य दर्शनं करणीयमिति प्रतीतिरस्ति । एतत् क्षेत्रं रामेश्वरम् इत्येव प्रसिद्धम् अस्ति । रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकरराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
गुजरातराज्ये दारुकावने विद्यमानं नागेश्वरमन्दिरम्

नागेश्वरः - द्वारका (दारुकावनम्)

नागेशं दारुकावने इति यदुक्तं तत् क्षेत्रमस्ति द्वारकासमीपे । द्वारकानगरं वर्तते इदानीन्तनगुजरातराज्ये । “नागेशं दारुकावने” इति शिवपुराणस्य द्वादशज्योतिर्लिङ्गस्तोत्रे यत् क्षेत्रं निर्दिष्टं तत् इदानीं “द्वारका” इति प्रसिद्धम् अस्ति । द्वादश ज्योतिर्लिङ्गेषु अन्यतमः अयं नागेश्वरः । द्वारकातः बेटद्वारकां प्रति गमनमार्गे अस्ति एतत् क्षेत्रम् । द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् एतत् दशमं ज्योतिर्लिङ्गम् अस्ति ।


विश्वेश्वरः - काशी (वाराणसी)

वाराणस्यां तु विश्वेशम् इति यदुक्तं तत् क्षेत्रमस्ति परमपवित्रं काशीक्षेत्रम् । तदस्ति इदानीन्तने उत्तरप्रदेशराज्ये । एतदपि क्षेत्रमस्ति सप्तमोक्षपूरीषु अन्यतमम् । अत्रत्यः देवः अस्ति विश्वनाथः । विश्वनाथः प्रकाशमानः अस्ति गङ्गानदीतीरे । एतदेव क्षेत्रं वाराणसी इत्यपि उच्यते । जीवने एकवारं वा काशीरामेश्वरदर्शनं करणीयमिति काङ्क्षते प्रत्येकः अपि हिन्दुः । एतत् भारतस्य अत्यन्तं प्राचीनं तीर्थक्षेत्रम् अस्ति । “काश्यां मरणान्मुक्तिः” इति उक्तिरेव अस्ति । परमपवित्रायाः गङ्गायाः तटे स्थितम् एतत् दिव्यक्षेत्रं भारतीयानां तत्रापि शिवभक्तानां परमं श्रद्धाकेन्द्रम् । काश्याः उल्लेखः वेदेषु, उपनिष्त्सु, रामायणे, महाभारते, पुराणेषु, बौद्ध-जैनसाहित्येषु सर्वत्र अपि अस्ति एव । स्कन्दपुराणस्य काशीखण्डे अस्य नगरस्य महत्त्वं वैभवं च वर्णयन्तः १५,००० श्लोकाः सन्ति । महाभारतानुसारं दिवोदासनामकः राजा इन्द्रस्य इच्छानुसारम् एतत् नगरं निर्मितवान् इति । एतत् नगरं शिवस्य देवसाम्राज्यस्य राजधानी । एतत् सप्तमोक्षदायकेषु नगरेषु अपि अन्यतमम् ।
महाराष्ट्रे नासिक्प्रदेशे विद्यमानं त्र्यम्बकेश्वरमन्दिरम्

त्र्यम्बकेश्वरः - नासिक्

त्र्यम्बकं गौतमीतटे इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । महाराष्ट्रे नासिकसमीपे वर्तते एतत् क्षेत्रम् । ब्रह्मगिरिपर्वतप्रान्ते गोदावरीनदीतीरे विराजते त्र्यम्बकेश्वरः । अत्रैव लक्ष्मणः शूर्पणखायाः नासिकां कर्णं च कर्तितवान् इति । सरस्वत्याः तीरे दानेन, नर्मदातीरे तपसा, गङ्गातीरे शरीरत्यागेन यत् फलं प्राप्यते तत् सर्वमपि फलं गोदावर्याः सान्निध्ये प्राप्यते इति वदति गोदामाहात्म्यम् । गोदावर्याः दक्षिणाभिमुखः प्रवाहः दुर्लभः मोक्षदायकः च । सः नासिकक्षेत्रं प्रति आगतैः प्राप्यते । अत्र बहूनि मन्दिराणि सन्ति । पञ्चवट्याः रामकुण्डसमीपे कपालेश्वरमन्दिरम् अस्ति । अत्र शिवस्य पुरतः नन्दी नास्ति । सुन्दरनारायणमन्दिरम् अत्रत्यं प्राचीनं मन्दिरम् । तत् मन्दिरं नाशयित्वा तत्स्थाने यवनाः स्मशाननिर्माणं कृतवन्तः आसन् । क्रि श १७५६तमे वर्षे अत्र तत् मन्दिरं पुनर्निर्मितम् । गर्भगृहे कृष्णशिलायाः विष्णुमूर्तिः अस्ति । तस्याः मूर्तेः दक्षिणे वामे च भागे वृन्दायाः लक्ष्म्याः च विग्रहौ स्तः । प्रतिवर्षं मार्चमासस्य २०तमे वा २१तमे वा दिनाङ्के सूर्यस्य किरणाः साक्षात् विष्णुविग्रहस्य चरणयोः यथा पतेत् तथा एतत् मन्दिरं निर्मितम् अस्ति । पञ्चवट्यां रामस्य कुटीरं यत्र आसीत् तत्रैव कालराममन्दिरम् अस्ति ।
हिमालये विद्यमानं केदारेश्वरमन्दिरम्

केदारेश्वरः - केदारम्

हिमालये तु केदारम् इति यदुक्तं तत् क्षेत्रम् अस्ति इदानीन्तने उत्तराञ्चलराज्येचमोलीजनपदे मन्दाकिनीनद्याः तीरे विराजते अयं शिवदेवालयः । ३५६४ मीटर्यावदौन्नत्ये विद्यमानः एषः देवालयः एप्रिलमासान्ततः नवेम्बरप्रथमसप्ताहपर्यन्तं केवलं दर्शनार्थम् उद्घाटितः भवति । अत्यन्तं शीतलवातावरणस्य कारणतः षण्मासान् यावत् देवालयोयं पिहितः भवति । हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । गङ्गायाः यमुनायाः च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कारयन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्रीकृषणस्य शिवस्य पार्वत्याः च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।
महाराष्ट्रस्य एल्लोरायां विद्यमानं घुश्मेश्वरमन्दिरम्

घुश्मेश्वरः - एल्लोरा (शिवालयः)

घुश्मेशं च शिवालये इति यदुक्तं तत् क्षेत्रमस्ति इदानीन्तनमहाराष्ट्रराज्ये । अयं घुश्मेशदेवालयः गुहान्तर्गतदेवालयः अस्ति । अत्र स्थितस्य सरोवरस्य नाम अस्ति "शिवालयः" इति । एतं देवालयं "कैलासदेवालयः" इत्यपि वदन्ति । औरङ्गाबादनगरतः ३० कि मी दूरे विद्यमानः अयं प्रदेशः राष्ट्रकूटराजवंशीयैः निर्मितः । अयं प्रदेशः गुहानां निमित्तम् अत्यन्तं प्रसिद्धः अस्ति । इदानीं सः प्रदेशः "एल्लोरा" इत्येव प्रसिद्धम् । सुप्रसिद्धात् एल्लोरातः अर्धमैल् दूरे अस्ति घुश्मेश्वरक्षेत्रम् । अस्मात् क्षेत्रात् अनतिदूरे धारेश्वरनामकं शिवलिङ्गम् अस्ति । अत्रैव एकनाथमहाराजस्य गुरोः श्रीजनार्दनमहाराजस्य स्मारकम् अपि अस्ति । घृष्णेश्वर-देवगिरिदुर्गयोः मध्ये सहस्रलिङ्गपातालेश्वरमन्दिरं, सूर्येश्वरमन्दिरं, सूर्यकुण्ड-शिवकुण्डनामकौ द्वौ सरोवरौ च सन्ति ।
क्रमः ज्योतिर्लिङ्गानि चित्रम् राज्यम् स्थितिः वर्णनम्
सोमनाथः गुजरात् प्रभास पाटना, सौराष्ट्रम् श्री सोमनाथः सौराष्ट्रम्, (गुजरातराज्यस्य) प्रभासक्षेत्रे विराजमानः अस्ति । प्राचीनकाले एतत् मन्दिरं षट् वारं विध्वंसितं सत् पुनः निर्मितं च । क्रि.श.१०२२तमे सम्भूतस्य महम्मदगझनेः आक्रमणेन महत् नष्टम् सञ्जातम् ।
मल्लिकार्जुनः आन्ध्रप्रदेशः कर्नूल् आन्ध्रप्रदेशराज्यस्य कृष्णामण्डले कृष्णनद्याः तीरे श्रीशैलपर्वतस्य मस्तके श्रीमल्लिकार्जुनः विराजते । एतत् स्थानं दक्षिणस्य कैलासः इति कथयन्ति ।
महाकालेश्वरः मध्यप्रदेशः महाकालः, उज्जैन श्रीमहाकालेश्वरः मध्यप्रदेशस्य मालवमण्डलस्य क्षिप्रानद्याः तीरे पवित्रे उज्जैन नगरे सुशोभते । उज्जयिनी नगरस्य प्राचीनं नाम अवन्तिपुरम्/अवन्तिका इति ।
ओङ्कारेश्वरः मध्यप्रदेशः नर्मदानद्यां कस्मिंश्चित् द्वीपे मालवक्षेत्रे श्रीॐकारेश्वरः नर्मदानद्याः मध्ये स्थिते द्वीपे विराजते । उज्जैयिनीतः खाण्डवा गमनस्य रेल्मार्गे मोरटक्का इति निस्थानमस्ति । तत्र अवतीर्य १०कि.मी. चलितं चेत् एतत् क्षेत्रं मिलति । अत्र ओङ्कारेश्वरः अमलेश्वरः चेति द्वे शिवलिङ्गे स्तः । किन्तु एतत् एकस्यैव लिङ्गस्य रूपद्वयं भवति । एतत् श्रीॐकारेश्वरलिङ्गं स्वयम्भूः इति विश्वासः अस्ति ।
केदारनाथः उत्तराखण्डः केदारनाथः श्रीकेदारनाथः हिमालयस्य केदारः इति शृङ्गे स्थितः अस्ति । शिखरस्य पूर्वस्यां दिशि अलकनन्दा इति नदी प्रवहति । तस्य तटे श्रीबदरीनाथः विराजते । मन्दाकिनीनद्याः तटे केदारनाथः शोभते । एतत् स्थानं हरिद्वारतः १५०मैल् दूरे अपि च हृषिकेशतः १३२ मैल् दूरे उत्तराञ्चलराज्ये अस्ति ।
भीमाशङ्करः महाराष्ट्रम् भीमाशङ्करः श्री भीमशङ्कस्य स्थानं मुम्बैतः पूर्वं पुणेनगरतः उत्तरे भीमानद्याः तीरे सह्याद्रेः मस्तके नासिकनगरात् १२०मैलिदूरे अस्ति । सैह्याद्रेः कस्यचित् एकस्य शिखरस्य नाम डाकिनी इति तस्मिन् स्थितः भीमशङ्करः ।
काशीविश्वनाथः उत्तरप्रदेशः वाराणसी वाराणसीक्षेत्रे स्थितः काशीश्रीविश्वनाथः सर्वप्रधानं ज्योतिर्लिङ्गम् अस्ति । गङ्गायाः तटे स्थितस्य विश्वनाथस्य दर्शनं हैन्दवानाम् अतीव पुण्यकार्यम् ।
त्र्यम्बकेश्वरः महाराष्ट्रम् त्र्यम्बकेश्वर श्री त्र्यम्बकेश्वरः ज्योतिर्लिङ्गं महाराष्ट्रस्य नासिकमण्डालस्य पञ्चवटीप्रदेशात् १८कि.मी दूरे ब्रह्मगिर्याः निकटं गोदावर्याः तीरे अस्ति ।
वैद्यनाथः झारखण्डराज्यम् देवघरमण्डलम् शिवपुराणानुसारं वैद्यनाथः चिताभूमौ अस्ति । झार्खण्डराज्यस्य प्रधानकेन्द्रस्य परगना क्षेत्रस्य जसीडीह निश्थानकस्य समीपं वैद्यनाथ इति ग्रामे श्री वैद्यनाथेश्वरमन्दिरं विराजते । अस्य स्थानस्य एव चिताभूमिः इति व्यवहारः । महाराष्ट्रस्य परभनी नामकस्य नगरस्य अनतिदूरे विद्यमानस्य परली ग्रामस्य समीपे कश्चित् वैद्यनाथदेवालयः अस्ति । तत् अपि ज्योतिर्लिङ्गत्वेन साधकाः विश्वसन्ति ।
१० नागेश्वरः गुजरात् दारुकावनम्, द्वारका बड़ौदा क्षेत्रान्तर्गतस्य गोमतीनदी द्वारकायाः ईशान्य भागे प्रवहति । अस्याः तटे श्रीनागेश्वरः विराजते ।
११ रामेश्वरः तमिल-नाडु रामेश्वरः श्रीरामेश्वरः तमिलनाडुराज्यस्य रामनाडमण्डले अस्ति। अत्र श्रीरामचन्द्रः लङ्कां विजित्य आगतः स्वाराध्यदेवं परशिवम् आरधयत् । एतत् स्थानम् एव श्री रामेश्वरः अथवा श्री रामलिङ्गेश्वरः इति कथ्यमानं ज्योतिर्लिङ्गक्षेत्रम् ।[१]
१२ घुश्मेश्वरः महाराष्ट्रम् एल्लोरा, औरङ्गाबादमण्डलम् श्री घुष्मेश्वरः ज्योतिर्लिङ्गक्षेत्रं महाराष्ट्रराज्यस्य दौलाबाद इति नगरात् १२कि.मी.दूरे बेरूल इति ग्रामस्य समीपे अस्ति ।

आधाराः सम्पादयतु

  1. For Rameshvara as one of the twelve "Pillars of Light", see: Chakravarti 1994, पृष्ठम् 140.