मायुराजः
मायुराजः उदात्तराघवस्य तापसवत्सराजस्य च नाटकयोः प्रणेता वर्तते। तं राजशेखरः प्राशंसत् -
मायुराजः | |
---|---|
जननम् | मध्यकालीनः कविः |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | उदात्तराघवम्, तापसवत्सराजम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
मायुराजसमो नान्यो जज्ञे कलचुरिः कविः
उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः।।
सोऽयं मायुराजोऽनङ्गहर्षापरनामासीत्, पिता चास्य राजा नरेन्द्रवर्धनः। कालजरस्थां कलचुरिशाखामयं समलञ्चकार, इति मिराशिमहोदयानां मतम् । कदायं प्रादुरभूदिति न यथावन्निश्चेतुं शक्यम् । नवमशताब्द्याः मध्ये आनन्दवर्धनस्तापसवत्सराजं चर्चितवान् । भवभूतेः कृतीश्चायमुपजीवतीति । नवमशताब्द्द्याः प्रारम्भे क्वचित् मायुराज आसीदित्यनुमीयते । सहृदयंमन्योऽसौ स्वमेवमवर्णयत् -
सद्वृत्तानुगतो गतो गुणवतामाराधनेऽनुक्षणं
कर्तुं वाञ्छति सर्वदा प्रणयिनां प्राणैरपि प्रीणनम्।
मात्सर्येण विनाकृत: परकृतीः शृण्वन् वहत्युच्चकै-
रानन्दाश्रु-जलप्लवप्लुतमुखो रोमाञ्च-पीनां तनुम्॥
उदात्तराघवम्
सम्पादयतुउदस्तराघवं तावदभिनवगुप्त-कुन्तक-भोज-हेमचन्द्रप्रमुखैराचार्यैः ससम्मानमुद्धृतमिति मायुराजस्य रामकथाविषयं गौरवमुदघाटयति । दशरूपके धनञ्जयस्तु बहुशस्तदंशानुदाहरत् । तत्र कथावस्तु इत्थं सङ्क्षेपितं राजते।
रामो मूर्ध्निं निधाय काननमगान्मालामिवाज्ञां गुरो-
स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम्।
तौ सुग्रीवविभीषणानुगतौ नीतौ परां सम्पदं
प्रोद्वृत्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः।।
तापसवत्सराजम्
सम्पादयतुतापसवत्सराजमिति कृतिमयुराजस्योदयनकथाकोविदत्वं सूचयति, यत्रासौ यौगन्धरायणस्य मन्त्रगुप्ति-नैपुणीं वासवदत्तायास्तपोनिष्ठां पद्मावत्याः प्रणयपरवशतां प्रद्योतस्य च राजनीतिकौशलमवर्णयत् । आरुणेः पराभवाय वत्सराजोदयनस्यावरोधेऽवरोधं निराकर्तुं महामंत्री यौगन्धरायणोऽन्यैः सह संमन्त्य प्रद्योतं वासवदत्तां च संगमयांचकार । महासेनो हि प्रद्योतम् आत्मजं वासवदत्तां पत्रेण निर्दिशति।
अपि जीवितसंशयेन वत्से, हृदयात् स्त्रीसुलभं विहाय मोहम्।
उपमानपदं पतिव्रतानां, चरितैर्यासि यथा तथा विधेहि॥
अन्ते च संन्यासिनीवेषा वासवदत्ता तापसी च पद्मावती उदयनेन प्राप्ते इति अर्थकामौ पुरुषार्थौ प्राप्य राजा सफलोऽभवत् । तापसवत्सराजे मायुराजो विशिष्यते, यन्न भासस्य स्वप्नवासवदत्तात्मकं कथावस्तु समधिकं संशोभते । पारावती-व्यापारमुखेन पद्मावत्याः प्रणयलीलां निबन्धानः कविर्जयति -
किंणित्-कुञ्चित-चञ्चु-चुम्बन-सुख-स्फारीभवल्लोचना
स्वप्रेमोचित-चारु-चाटुकरणैश्चेतोऽर्पयन्ती मुहुः।
कूजन्ती विततैक-पक्षति-पुटेनालिङ्ग्य लीलालसं
धन्यं कान्तमुपान्तवर्तिनमयं पारावती चुम्बति॥[१]
सौगताचारस्तुतिव्याजेन निन्दां प्रस्तुवन् हास्यमेव पुष्णाति लामकायनो भिक्षुः -
पूर्वाह्णे कृतभोजन-व्यतिकरान्नित्यैव नीरोगता
कण्डुतिस्त्वकचादपैति शिरसः स्नानं यदा रोचते।
जात्याचारकर्षना-विरहितं ब्राह्मण्यमात्मेच्छया
धूर्तैः सत्त्वहिताय कैरपि कृतं साधु ऋतं सौगतम्॥[२]
श्लिष्टोपमा द्वारेण नाटकीयं कथावस्तु सूचयन् मायुराजः कामपि नवां काव्य-प्रतिभामुन्मेषयति -
आदौ मान-परिग्रहेण गुरुणा दूरं समारोपितां
पश्चात्ताप-भरेण तानवकृता नीतां परं लाघवम्।
उत्सङ्गान्तरवर्तिनीमनुगमात् सम्पिण्डिताङ्गीमिमां
सर्वाङ्ग-प्रणयां प्रियामिव तरुश्छायां समालम्बते॥[३]