मीराबाई

(Redirected from मीरा बाई)

श्रीकृष्णभक्ता मीराबाई ( /ˈmrɑːbɑː/) (१४९५-१५४७) (गुजराती: મીરાબાઈ, आङ्ग्ल: Mirabai) श्रीकृष्णं भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वहृद्गतभावान् भजनमाध्यमेन श्रीकृष्णं प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि प्रेमभावं निरूपयन्ति । 'मेवाड'राज्यस्य राजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि मारवाडीभाषायां, व्रजभाषायां च सन्ति । परन्तु सा गुजरातीभाषायाम् अपि रचनां कृतवती आसीत् ।

श्रीकृष्णभक्ता मीराबाई
मीराबाई
जन्मस्थानम् राजस्थानम्, भारतम्
मृत्युस्थानम् द्वारकाद्वीपः, गुजरातराज्यम्, भारतम्
तत्त्वचिन्तनम् श्रीकृष्णस्य सख्यभावभक्तिः
उक्तिः " मेरे तो गिरधर गोपाल दूसरो न कोई "

जन्म परिवारश्चEdit

मीरायाः कालः कः इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे जोधपुरे 'मेडता'ग्रामस्य समीपस्थे 'कुडकी'ग्रामे अजायत इति केषाञ्चन मतम् । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जननी वीरकुवरी आसीत् । यदा मीरा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण भोजराजेन सह अभवत् । तया ५-६ वर्षपर्यन्तं सुखेन वैवाहिकजीवनं व्यतीतम् । पश्चात् तस्याः पत्युः आकस्मिकमृत्युः अभूत् । पत्युः मृत्योरनन्तरं राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।

जीवनम्Edit

श्रूयते यत् मीरा भक्तशिरोमणेः जीवगोस्वामिनः दर्शनार्थं वृन्दवनं गता आसीत् । गोस्वामी स्त्रीदर्शनं न करोति स्म । अतः सः न्यवेदयत् यत् "अहं स्त्रीदर्शनं परित्यक्तवान् अस्मि" इति । मीरा प्रत्यवदत् -"वृन्दावने श्रीकृष्णः एव पुरुषः वर्तते" इति । मीरायाः एतत् मार्मिकं वचनं श्रुत्वा जीवगोस्वामी सस्नेहं मीराम् अमिलत् । एतस्याः कथायाः उल्लेखः प्रियदासस्य पद्ये लभ्यते -‘वृन्दावन आई जीव गुसाई जू सो मिले झिली, तिया मुख देखबे का पन लै छुटायो’।

मीरायाः ननान्दा 'अजब कुंवरबा' 'पुष्टि'मार्गीयवैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां स्वीकृतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा वृन्दावने आसीत्, तदा चैतन्यमहाप्रभोः शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा द्वारकां प्रति प्रयाणं कृतवती ।

मीरायाः सौराष्ट्रगमने बहूनि कारणानि भवेयुः । तत्र आद्यं कारणं श्रीकृष्णः द्वापरयुगे व्रजभूमितः द्वारकां प्रति गतः आसीदिति । द्वितीयं तु तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे 'सरसई'ग्रामे निवसति स्म । तृतीयञ्च तस्याः मातृपक्षराठोडवंशस्य ओखामण्डले राज्यम् आसीत् इति ।

सा जुनागढ-गिरनारपर्वत-माधवपुर-सुदामापुरी-सोमनाथादि भूत्वा 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साङ्गा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधिकसमयपर्यन्तं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साङ्गा' द्वारकाद्वीपे द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा द्वारकाद्वीपे निवसति स्म, तदा तस्याः वयः ६० वर्षाणि आसन् इति केषाञ्चन मतम् । एतस्मिन् मन्दिरे एव मीरा स्वस्य शेषजीवनम् व्यतीतवती ।

मीरायाः गुरुःEdit

बहुभिः जनैः मन्यते यत मीरायाः कोऽपि गुरुः न आसीत् इति । परन्तु सा गुरुम् अन्विष्यति स्म । ततः सा अनेकैः सन्यासिभिः मिलितवती । अन्ते ‘रैदासं’ दृष्ट्वा (उत्तरभारते सः ‘सन्तरविदास’ इति नाम्ना प्रख्यातः) तस्याः मनः सन्तुष्टम् । मीरा बहुषु पद्येषु तस्य उल्लेखं कृतवती अस्ति ।

मीरायाः कृतयःEdit

मीरा चतुर्णां ग्रन्थानां रचनां कृतवती अस्ति ।

  1. बरसी का मामरा
  2. गीतगोविन्द टीका
  3. रागगोविन्द
  4. राग सोरठ के पद

मेरे तो गिरिधर गोपाल दूसरो न कोईEdit

मेरे तो गिरिधर गोपाल दूसरो न कोई ।
जाके सिर मोर मुकुट मेरो पति सोई ।
तात मात भ्रात बंधु आपनो न कोई ॥।
छाँड़ि दी कुल की कानि कहा करिहै कोई ।
संतन ढिंग बैठि-बैठि लोक लाज खोई ॥
चुनरी के किये टूक ओढ़ लीन्ही लोई ।
मोती मूँगे उतार बनमाला पोई ॥
अँसुवन जल सींचि सींचि प्रेम बेलि बोई ।
अब तो बेल फैल गई आणँद फल होई ॥
दूध की मथनियाँ बड़े प्रेम से बिलोई ।
माखन जब काढ़ि लियो छाछा पिये कोई ॥
भगत देख राजी हुई जगत देखि रोई ।
दासी "मीरा" लाल गिरिधर तारो अब मोही ॥

                                  - मीराबाई

पायो जी म्हें तो राम रतन धन पायोEdit


पायो जी म्हें तो राम रतन धन पायो।
वस्तु अमोलक दी म्हारे सतगुरू, किरपा कर अपनायो॥
जनम-जनम की पूँजी पाई, जग में सभी खोवायो।
खरच न खूटै चोर न लूटै, दिन-दिन बढ़त सवायो॥
सत की नाँव खेवटिया सतगुरू, भवसागर तर आयो।
'मीरा' के प्रभु गिरिधर नागर, हरख-हरख जस पायो॥

                                  - मीराबाई


पग घूँघरू बाँध मीरा नाची रेEdit


पग घूँघरू बाँध मीरा नाची रे।
मैं तो मेरे नारायण की आपहि हो गई दासी रे।
लोग कहै मीरा भई बावरी न्यात कहै कुलनासी रे॥
विष का प्याला राणाजी भेज्या पीवत मीरा हाँसी रे।
'मीरा' के प्रभु गिरिधर नागर सहज मिले अविनासी रे॥

                                  - मीराबाई

मने चाकर राखो जीEdit


श्याम मने चाकर राखो जी,
चाकर रहसूं बाग लगासूं नित उठ दर्सन पासूं।
बृंदाबन की कुंज गलिन में तेरी लीला गासूं।
श्याम मने चाकर राखो जी।।
चाकरी में दर्सन पाऊं, सुमिरन पाऊं खरची।
भाव भक्ति जागीरी पाऊं, तीनों बातां सरसी।
श्याम मने चाकर राखो जी।।
मोर मुकुट पीतांबर सोहे, गल बैजन्ती माला।
बृन्दावन में धेनु चरावे मोहन मुरली वाला।
श्याम मने चाकर राखो जी।।
मीरा के प्रभु गहिर गंभीरा सदा रहो जी धीरा।
आधी रात प्रभु दर्सन दीन्हें प्रेम नदी के तीरा।
श्याम मने चाकर राखो जी।।

सम्बद्धाः लेखाःEdit

श्रीकृष्णः

गिरनारपर्वतः

चैतन्यमहाप्रभुः

वृन्दावनम्

गुजराती साहित्यिकाः

बाह्यानुबन्धाःEdit

http://www.sscnet.ucla.edu/southasia/Religions/gurus/Mirabai.html

http://www.biographyonline.net/spiritual/mirabai.html