मृच्छकटिकम्

शूद्रकेण विरचितं नाटकं

संस्कृतवाङ्मये मृच्छकटिकम् प्राचीननाटकेषु मुख्यतमम् । शूद्रकेण लिखितम् संस्कृतनाटकम् अस्ति। नाटकेषु प्रकरणवर्गे इदंनाटकम् अन्वेति । अस्मिन् दश अङ्काः वर्तन्ते। अस्मिन् नाटके कान्यपि कपोलकल्पितानि कृतकता च न भवतः । स्वभावोक्त्यलङ्कार इव सहजसुन्दराणि दृश्यानि भवन्ति । यथा विशाखदत्तस्य मुद्राराक्षसम् वर्तते तथैव वस्तुवद्रचनया शोभते ।

'राजा' रविवर्मणा चित्रिता वसन्तसेना

मृच्छकटिकं इति नाटकस्यादौ शुद्रकस्य परिचयः यथा वर्णितोऽस्ति, तदनुसारेण शूद्रकः हस्तिशास्त्रेषु प्रवीणः आसीत् । अनेन शिवस्यानुग्रन्हेण ज्ञानं प्राप्तं, विधिना चाश्र्वमेधयज्ञं कृतवान् । राज्यसिंहासने पुत्रं प्रतिष्ठाप्य शतायुः शूद्रकोऽग्निं प्रविष्टः । अग्निप्रवेशस्य कथा केनाप्यन्येन नाटकेऽस्मिन् सन्निवेशितेति प्रतीयते, यतो हि लेखको भावीक्रियायाः प्रयोगः स्वात्मनि कर्तुं नार्हति ।

शूद्रकः

सम्पादयतु

संस्कृतसाहित्ये शूद्रकस्य महती प्रसिध्दिरस्ति । विविधग्रन्थेषु शूद्रकस्य विषये तथैव लिखितं प्राप्यते तथा विक्रमादित्यस्य विषये । कादम्बरी, कथासारित्सागरः वेतालपञ्चविंशतिः इत्यादिग्रन्थेषु विविधमस्येतिवृत्तं वर्णितमस्ति यूरोपीयविद्वांसः शूद्रकस्य सत्ताविषयेऽपि सन्दिहानाः सन्ति, परमियं भ्रान्तिरस्ति । शूद्रकः विक्रमादित्यः इव प्रतिभासम्पन्नः ऐतिहासिकः पुरुषः आसीत् । शूद्रकस्य स्थितिकालविषयेऽपि विविधानि मतानि दरीदृश्यन्ते । भारतीयाः विद्वांसः अस्य समयं विक्रमाब्दस्य प्रथमशताब्दं मन्यन्ते । श्रीवामनाचार्यः काव्यालङ्कारसूत्रे शूद्रकस्योल्लेखं कुर्वन् द्यूतं नाम पुरुषस्य असिंहासनं राज्यम् इत्यादिपद्यमुद्धरति । अतः अष्टमशताब्दायाः पूर्वं शूद्रकस्य समयो मन्तव्यः । मनुस्मृतेरुध्दरणं मृच्छकटिके प्राप्यते । अतो मनुस्मृतेः रचनाकालादनन्तरम् अस्य रचनाकालो भवेत् । शूद्रकः मृच्छ –कटिकस्य नवमाङ्के “अङ्गारकविद्या- प्रवीणस्य बृहस्पतेः” इत्यस्मिन् पद्ये बृहस्पतिमंगल- विरोधं दर्शयति । वराहमिहिरस्य स्ध्दान्तानुसारम् अनयोः मैत्रीभावो वर्तते । अतः वराहमिहिरात् प्रागेवास्य स्थितिः प्रतीयते ।

एतेषामन्तरङ्गप्रमाणानां समालोचनेन शूद्रकः दण्डीवराहमिहिरयोः पूर्ववर्ती सिध्द्यति । अनेन अस्य समयः पञ्चमशताब्द्यां न्यायसङ्गतं प्रतिभाति । नाट्यकलादृष्ट्या मृच्छकटिकस्य समीक्षा – नाट्यकलादृष्ट्या मृच्छकटिकं सुन्दरं सफलं च नाटकं विद्यते । संस्कृतसाहित्ये सर्वप्रथममस्मिन्नेव नाटके राजवंशातिरिक्तः तथा निम्नवर्गस्य सामाजिको जनः नायकः दृश्यते । संस्क्रुतनाटकेषु नायकः विशेषतया राजा राजवंशोद्भवो वा भवति, अतः जनसामान्यः नायकः न भवति, परन्तु शूद्रकः प्राचीनपरिपाटीं परित्यज्याभिनवां नाट्यकलां गृह्णाति । मृच्छकटिकनाटके तत्कालीनसमाजस्य प्रतिबिम्बं विद्यते । “साहित्यं समाजस्यादर्शः” इत्याभाणकमस्मिन्नेव नाटके चरितार्थं दृश्यते ।


नाटकस्य कथानकं तथा नाटकस्य वातावरणं, नितान्तयथार्थं विद्यते । अत एव विदेशीयाः नाटकमेतत् बहुप्रशंसन्ति । नाटकस्य पात्रं कल्पनोपपादितमिति न लक्ष्यते, प्रतीयते यत् सर्वाणि पात्राणि सामाजिकानि तत्प्रतिनिधयश्च सन्ति । एवं नाट्यकलादृष्ट्या शूद्रकस्य रुपकमिदं परमश्लाघनीयं सफलञ्च विद्यते ।

नामकरणम्

सम्पादयतु

नामकरणस्य अन्वर्थकतायाः विषये उच्यते यत्, दार्शनिकदृष्ट्या नामसु अन्वर्थकतायाः अभावः अनौचित्यं जनयति। साहित्यिकदृष्टौ नाम्नि सार्थकता अनिवार्या मन्यते। नामौचित्यस्य सम्बन्धे क्षेमेन्द्रः स्वस्य ‘औचित्यविचारचर्चा'यां उल्लिखति -

'नाम्ना कर्मानुरूपेण ज्ञायते गुणदोषयोः।'

तादृश्यां स्थित्यां कस्यापि नाटकस्य प्रकृत-अर्थस्य अनुकूले नाम-चयने कवेः कला परिलक्षिता भवति। प्रकृत-अर्थस्य अनुरूपं नाम श्रुत्वैव सहृदयानां हृदयं विकसितं भवति। महापात्रः विश्वनाथः मन्यते यत्, नाटकस्य नाम तु तस्य गर्भितार्थस्य प्रकाशकम् एव भवेत् -

'नामकार्यं नाटकस्य गर्भितार्थप्रकाशकम्।'

यदि उक्तम् उचितं भवेत्, तर्हि 'मालतीमाधव'वत् अस्य नाटकस्य नामकरणम् अपि नायिका-नायकयोः नाम्नि आधारीकृत्य 'वसन्तसेनाचारुदत्तम्' भवेत्। यतः साहित्यदर्पणस्य षष्ठे परिच्छेदे लिखितमस्ति यत्,

'नायिकानायकाख्यानात् संज्ञाप्रकरणादिषु'

तर्हि एतस्य प्रकरणस्य शीर्षकं 'मृच्छकटिकम्' अर्थात् ‘मृत्तिकायाः शकटम्' इत्यस्य अन्वयार्थका का? इति प्रश्नः समुद्भवति। सर्वप्रथमं तु प्रकरणमिदं संस्कृतरूपकेषु घटनाचक्रस्य दृष्ट्या अपूर्वम्, अतुलनीयं च मन्यते। घटनाचक्रस्य गत्यात्मकता रूपकस्यास्य निज-प्रमुख-विशेषता वर्तते। एतत् नाम प्रकरणस्य कयाचित् घटनया सह सम्बद्धः विद्यते। नायकः चारुदत्तस्य पुत्रः रोहसेनः मृत्तिकायाः शकटेन खेलनम् अत्यजत्। सोऽपि स्वप्रतिवेशिनः शिशोः सदृशं सुवर्णशकटं क्रीडितुम् इच्छति स्म। तत् न प्राप्ते सति रुदति च। रुदन्तः सः गृहपरिचारिकया रदनिकया सह वसन्तसेनायाः समीपं प्राप्नोति। कारणं ज्ञत्वा वसन्तसेना तस्य मृत्तिकाशकटं स्वस्य सुवर्णाभूषणैः पूरयति। तानि आभूषणानि एव विदुषकात् लभन्ते। चारुदत्तेन च स्वर्णाभूषणेभ्यः वसन्तसेनायाः हत्याकरणस्य प्रमाणानि भवन्ति। यद्यपि मृत्तिकायाः, सुवर्णस्य च शकटस्य एषः कथानकः अतीव सामान्या घटना दरीदृश्यते, किन्तु वास्तव्येन एषः कश्चन नाटकीयः पूर्वाभासः वर्तते। अग्रे घटिष्यमाणायाः प्रवहणपरिवर्तनरूपि-महत्त्वपूर्णायाः घटनायाः सूचनां यच्छति। षष्ठे अङ्के प्रवहणपरिवर्तनस्य कारणेन एव वसन्तसेना चारुदत्तस्य स्थाने दुष्टस्य शकारस्य पार्श्वे गच्छति। तत्र च राजबन्दी भावी सम्राट् आर्यकः चारुदत्तस्य शरणागतः भवति। एतस्य प्रवहणपरिवर्तनस्य कारणेन शकारद्वारा वसन्तसेनायाः हत्या भवति। वसन्तसेनायाः हत्यायाः आरोपत्वात् दरिद्रचारुदत्तः न्यायालयात् प्राणदण्डं प्राप्नोति। एतस्य प्रवहणपरिवर्तनस्य कारणेन अपरत्र राजबन्दी आर्यकः राज्ञः पालकस्य हत्यां कृत्वा चारुदत्तस्य प्राणरक्षकः भवति। स्वस्य मूर्तरूपाकारत्वात् एतस्य प्रकरणस्य घटनाः न केवलम् अधिकाः रुचिकराः वर्तन्ते, प्रत्युत हठात् सहृदयानां मनांसि अपि आकर्षयन्ति। एतस्य आकर्षणस्य रहस्यम् एतस्य प्रकरणस्य अनेकानां घटनानां क्रिया-प्रतिक्रियाः न, अपि तु तासु निहिताः मनुष्याणां मनस्तत्वानां भावा सन्ति। वसन्तसेनायाः अभिसारस्य उत तस्याः हत्यायाः घटना भवेत्, सर्वासां संयोजनं तथा जातमस्ति यत्, सहृदयानां नेत्रसम्मुखं सर्वाः घटनाः देदीप्यमानाः भवन्ति। एतस्य प्रकरणस्य प्राणः घटना अस्ति, घटनायाश्च अपि अधिकमहत्त्वपूर्णाः तासु निहितानि चरित्राणि, चरित्रेभ्यः च अधिकमहत्त्वपूर्णा तेषां सफला अभिव्यक्तिः महत्त्वपूर्णा मन्यते। चारुदत्तस्य उत वसन्तसेनायाः, शकारस्य उत शवलकस्य च पात्रं भवतु, परन्तु तेषां मनोवृत्तीनां प्रकरणस्य घटनाभिः सह अविच्छिन्नः सम्बन्धः वर्तते। घटनानां च सम्पूर्णं गतिचक्रं संचालितं भवति ‘प्रवहणपरिवर्तन'स्य आधारेण। रोहसेनस्य मृत्तिकायाः शकटं सर्वासां घटनानां धुरा वर्तते। अत एव एतस्य प्रकरणस्य नामकरणं ‘मृच्छकटिकम्' इति सूपयुक्तं मन्यन्ते विद्वांसः।

विभिन्नाः आलोचकाः एतस्य नामकरणस्य औचित्यं स्वज्ञानानुसारं प्रमाणयितुं प्रायतन्त। केषाञ्चन दृष्ट्यां चारुदत्तस्य पुत्रः रोहसेनः स्वमृदः शकटात् सन्तुष्टः नासीत्। सः सम्पन्नस्य स्वप्रतिवेशिनः सार्थवाहस्य पुत्रस्य सुवर्णशकटवत् शकटम् इच्छति स्म। तस्य असन्तोषस्य अग्नौ प्रायः प्रकरणस्य सर्वाणि पात्राणि दग्धानि भवन्ति। चारुदत्तः स्वसाधुचरित्रायाः, विवाहितायाः धूतायाः सन्तुष्टः नासीत्, सः कमनीयकलेवरां गणिकां वसन्तसेनाम् इच्छति स्म। वसन्तसेना सहजसुलभं सम्पन्नं शकारं नेच्छति स्म। सा दरिद्रं किन्तु सम्पन्नं ब्राह्मणं चारुदत्तम् इच्छति स्म। स्वस्य मुदः शकटस्य स्थाने अन्यशकटस्य रोहसेनस्य ईप्सा सर्वव्यापिनः असन्तोषस्य प्रतीकमात्रम् अस्ति। अतः तस्य मृदः शकटस्य आधारीकृत्य एतस्य प्रकरणस्य उपयुक्तं नाम ‘मृच्छकटिकम्' एव मन्यते।

केषाञ्चन विदुषां दृष्टौ अतिसमृद्धस्य चारुदत्तस्य अतिदानशीलतायाः कारणेन उद्भुतां दरिद्रतां सूचयितुं तस्य पुत्राय मृदः शकटं क्रीडितुं दीयते, परन्तु सः सुवर्णस्य शकटेन क्रीडितुं लालायितः भवति। मदः तां महत्तां दर्शयितुं प्रकरणस्य नामकरणं ‘मृच्छकटिकम्' इति।

केषाञ्चन आलोचकानां दृष्टौ मृच्छकटिकस्य कथावस्तु भागद्वये विभक्तम्। चारुदत्तस्य, वसन्तसेनायाः च प्रणय-गाथा प्रथमभागः। द्वितीयश्च भागः राज्य-विप्लवः, आर्यकस्य राज्य-प्राप्तिश्च। भासस्य नाटकानाम् उपलब्धेः अनन्तरम् एतत् प्रायः निश्चितं मन्यते यत्, शूद्रकः मृच्छकटिकस्य कथावस्तु आधारीकृत्य भासः 'दरिद्रचारुदत्तं' निर्मितवान्, यतः उभयोः कथयोः बहुलांशे शब्दतः, अर्थतः च समानता अस्ति। प्रकरणस्य प्रथमभागः पञ्चमाङ्कं यावान् अस्ति, यः भासस्य चारुदत्तात् गृहीतः अस्ति, द्वितीयश्च भागः षष्ठतः दशमाङ्कं यावान् अस्ति, यः कविकल्पनां प्रयसूते। तयोः उभयोः भागयोः मिश्रणं मृच्छकटिकस्य निर्माणम् अकरोत्। रोहसेनेन मदः शकटेन अक्रीडनघटना कवि-रचितस्य नवीनांशस्य प्रारम्भे एव समायाति। पूर्वापरां घटनां स्पष्टरूपं दातुमेव कविः प्रकरणस्य नामकरणं मृच्छकटिक इति अकरोत्। एवं विविधैः विद्वद्भिः नाकरणस्य समाधानं कर्तुं प्रयासाः कृताः दरीदृश्यन्ते।

किन्तु अन्यविदुषां दृष्ट्या घटनौत्सुक्यमेव शब्दस्य उत अर्थस्य दृष्ट्याः अतिरमणीयम्, आकर्षकं च वर्तते। एतस्य नामकरणस्यापि एतदेव मूलं रहस्यं वर्तते। यत्र भारतीयनाटकानाम् उद्देश्यः केवलं रसनिष्पत्तिः वर्तते; तत्र प्रचलितपरम्परायाः दिशान्तरणं कृत्वा एतत् प्रकरणं जीवनस्य भौतिकतां, कर्मसंकुलतां, सङ्घर्षं च प्रति आग्रहवद् अस्ति। एतस्य प्रत्येकं घटना आन्तरिक्यः उत बाह्याः च, कमपि वैषम्यम् उत सङ्घर्षं प्रकटयति। एतदेव कारणम् अस्ति यत्, संस्कृतस्य अन्यनाटकेभ्यः भिन्ना एतस्याः प्रत्येकं पङ्क्तिषु जीवनस्य ऊष्मा दरीदृश्यते। चारुदत्तस्य उत शकारस्य चरित्रे क्षमायाः, हत्यायाः उत प्रतिशोधस्य कार्याणि विद्यन्ते, तानि प्रकरणस्यास्य आकर्षणं न सन्ति। प्रत्युत तेषां कारणेन तासां घटनानां यः मनोवैज्ञानिकः आरोहः, अवरोहश्च दर्शितः अस्ति, स एव एतस्य प्रकरणस्य प्राणः वर्तते। अतः प्रवहणपरिवर्तनं घटना-सम्भूतं ‘मृच्छकटिकम्' नाम सूपयुक्तं मन्यते। समग्रे प्रकरणे नाम्नः अन्वर्थकी क्षमता व्याप्ता अस्ति।

शूद्रकः

सम्पादयतु

संस्कृतनाटयसाहित्यस्य प्रगल्भप्रकरणं ‘मृच्छकटिकं' राज्ञः शुद्रकस्य कृतिरूपेण विख्याता अस्ति। स्वप्रकारस्य एतत् एकलनाट्यं मन्यते। तत्र सहसा प्रणयकथात्मकं प्रकरणं, धूर्तसंकुलभाणं, राजनीतिकनाटकं च अन्तर्भवति। तत्सर्वं दूग्ध-जलवत् मिश्रितं प्रतीयते। संस्कृतसाहित्ये एषः एकाकी नाटककारः वर्तते, यः स्वयुगस्य सामाजिकसमस्याः स्वनाटकविषयत्वेन स्व्यकरोत्। जीवनस्य, समाजस्य च विसङ्गतीः आधारिकृत्य हृदयद्रावकाः घटनाः, व्यङ्ग्याः च उचितदिशायां निर्देशिताः सन्ति, तेन सह सर्वं पूर्णतया प्रतिबिम्बितम् अपि कृतमस्ति।

कर्तृत्वे शङ्काः

सम्पादयतु

कः? कदा? च प्रकरणमिदं रचितवान् इत्येतयोः प्रश्नयोः एतावता न किमपि दृढोत्तरं प्राप्तम् अस्ति। मृच्छकटिकस्य प्रस्तावनायां लिखितानां श्लोकानां ३, ४, ५, ६, ७ अनुसारारं द्विजेषु श्रेष्ठः शूद्रकनामा कश्चन राजा आसीत्। वेदवेदान्तादिविद्यासु सः पारङ्गतः आसीत्। हस्ति-शिक्षायाः, अनेककलानां च सः ज्ञाता आसीत्। दशाधिकदिनोत्तरं शतं वर्षे स्वपुत्राय राजभारं दत्त्वा अग्नि-प्रवेशम् अकरोत्। स एव राजा शुद्रकः उज्जयिन्याः सार्थवाहस्य, दरिद्र-चारुदत्तस्य, वसन्तसेनायाः प्रणयगाथां नीत्वा प्रकरणस्यास्य रचनाम् अकरोत्। एतस्याः प्रस्तावनायाः कारणेनैव शुद्रकः मृच्छकटिकस्य रचनाकारः मन्यते। अत्रापि केचन प्रश्नाः समुद्भवन्ति। यथा प्रस्तावनायाः श्लोकपञ्चकं शूद्रकस्यैव वा? यदि आम्, तर्हि सः स्वयं स्वायोः ईयत्तां यथार्थतया वक्तुं कथं पारयति? दशाधिकदिनोत्तरं शतं वर्षे सति अग्निप्रवेशं करिष्यति इति लेखनं सः कथं कृतवान् इत्यादयः।

'लब्ध्वा चायुः शताब्दं दशदिनसहितं शुद्रकोऽग्नि प्रविष्टः' । इत्यनेन अनुमीयते यत्, तस्य मृत्युः कदा कथं चाभवत् इत्युल्लेखः सन्देहान् पुष्टयति इति। तदतिरिक्तम् ‘एतत् कविः किल', 'कविर्बभूव', 'चकार सर्वं किल शूद्रको नृपः' अत्यत्र 'किल' ‘चकार' ‘बभूव' अत्यस्य उल्लेखालोके मन्यते यत् शूद्रकस्य देहत्यागात् दीर्घकालोत्तरं एते श्लोकाः रचनायाः प्रस्तावनायां योजिताः इति। ततः प्रश्नः उत्पद्यते यत्, यदि एतस्याः प्रस्तावनायाः श्लोकपञ्चकं शूद्रकरचितं नास्ति, तर्हि तत् कः योजितवान्? किमर्थं च?, किं शुद्रकः ऐतिहासिकजनः वा? यदि आम्, तर्हि कालः कः? एते केचन जटिलप्रश्नाः सन्ति, येषु अनेके विद्वांसः स्वस्य विभिन्नानि अभिमतानि अयच्छन्। किन्तु, अद्यावधौ एतेषां किमपि सर्वसम्मतं समाधानं प्रस्तुतं नाभवत् इति मन्यते।

शुद्रकः कः आसीत्? शूद्रकः संस्कृतसाहित्यस्य कश्चन बहुचर्चितः जनः मन्यते। स्कन्दपुराणे कस्यचित् शूद्रकस्य उल्लेखः प्राप्यते। केचन तमेव ऐतिहासिकं पुरुषं ‘मृच्छकटिक'स्य कर्तृत्वेन पश्यन्ति। केचन तं आन्ध्रवंशस्य प्रथमराज्वेन अङ्गीकुर्वन्ति। तस्य नाम सिशुकः उत सिमुकः अथवा सिप्रकः। प्रो० स्टेन कोनो इत्यस्य मतानुसारं आभीरवंशस्य राज्ञः शिवदत्तस्य अपरं नाम शूद्रकः आसीत्। तमेव केचन मृच्छकटिकस्य रचयितारं मन्यन्ते। 'वेतालपञ्चविंशतिकायां', कल्हण-कृत राजतरङ्गिण्यां, कथासरित्सागरे च शूद्रक-सम्बद्धाः अनेकाः कथाः सन्ति। पं० चन्द्रबली पाण्डेय-महोदयः शुद्रकम् आन्ध्रवंशीयं वासिष्ठी-पुत्रं पुलुमाविं स्वीकरोति। 'अवन्तिसुन्दरीकथासार'ग्रन्थे इन्द्राणिगुप्तस्य अपरं नाम शूद्रकः विद्यते। वासिष्ठी-पुत्रः पुलुमाविः एव शूद्रकः मन्यते। बाणस्य हर्षचरितात् ज्ञायते यत्, शुद्रकः स्वशत्रोः चकोरराज्ञः कथं स्वराज्यरक्षणं करोति इति। कादम्बर्यां शुद्रकः विदिशायाः राजा वर्तते। दण्डिनः दशकुमारचरिते अपि शुद्रकस्य उल्लेखः प्राप्यते। एतेषाम् उल्लेखानाम् आलोढनं कृत्वा सारः समुद्भवति यत्, यथा कालान्तरे उदयनेन सह सम्बद्धाः अनेकाः कथाः प्रचलिताः अभवन्, तथैव कालान्तरे शुद्रकः अपि अनेकेषां कथानां नायकः जातः स्यात्।

विभिन्नमतानि

सम्पादयतु

डॉ० पिशेल-महोदयस्य मतानुसारं ‘मृच्छकटिक'स्य रचयिता दण्डी वर्तते। तस्यानुसारं दण्डिनः त्रयः कृतयः आसन् 'त्रयो दण्डिप्रबन्धाश्च'। तासु 'काव्यादर्शः', 'दशकुमारचरितं' च प्राप्यते, परन्तु तृतीया न प्राप्यते, सा तृतीया ‘मृच्छकटिकम्' एव इति । केचन तस्य खण्डनं कुर्वन्तः कथयन्ति यत्, यदि दण्डिनः कृतिः एषा अभविष्यत्, तर्हि शूद्रकस्य नाम्ना सा किमर्थं प्रसिद्धास्ति इति। तथैव श्रीनेरुरकर-महोदयः मृच्छकटिकस्य कर्तृत्वेन भासम् अङ्गीकरोति। किन्तु, तस्य विरोधे वादः अस्ति यत्, प्रस्तावनायां शूद्रकः 'राजा' इत्युक्तः परन्तु दण्डी उत भासः राजा नास्ति।

डॉ० सिलवा लेवी-महोदयः मृच्छकटिकं शुद्रकस्य कृतित्वेन न अङ्गीकरोति। कस्यचित् अन्यकवेः एनां रचनां शूद्रकस्य नाम्ना प्रसिद्धा कृता इति तस्य मतम्। तस्य तर्कः अस्ति यत्, शुद्रकस्य नाम्ना प्रसिद्धेः पृष्ठे रचनाविषये भ्रमोत्पादित्वा रचनायै सम्मानार्जनस्य उद्देशः वर्तते इति। किन्तु डॉ० लेवी-महोदयस्य कल्पनायाः विरोधनं कुर्वन् केचन तस्य मतं तथ्यपूर्णं न स्वीकुर्वन्ति, यतः केवलं कृतेः के सम्मान-हेतवे कोऽपि स्वरचनां अन्यस्य नाम्ना प्रचारितं न कुर्यादेव इति।

डॉ० कीथ अपि ‘मृच्छकटिकं' शूद्रकस्य रचनां न स्वीकरोति। तस्य कथनमस्ति यत्, सर्वप्रथमं तु शुद्रकः कोऽपि ऐतिहासिकः जनः नास्ति, कश्चन कविश्च भासस्य चारुदत्ते आर्यक-विद्रोह-कथायाः मिश्रणं कृत्वा मृच्छकटिकम् अरचयत्। कीथ-महोदस्य मतविरोधे केचन कथयन्ति यत्, डॉ० कीथ-महोदयस्य प्रथमे कथ्ये बलं नास्ति, यतः संस्कृतसाहित्ये, यस्य शूद्रकस्य अनेकविधाः प्रशंसाः प्राप्यन्ते, सः विना प्रमाणं काल्पनिकपात्रत्वेन स्वीकरणं युक्तिसङ्गतं न प्रतीयते। द्वितीयकथनम् अपि विवादास्पदं वर्तते इति।

नवीनमतानुसारं राजा शुद्रकः ऐतिहासिकः पुरुषः मन्यते। कालक्रमे लोककथानाम् अविरतम् आरोपणं तस्य ऐतिहासिकस्वरूपम् अलोपयत्। मृच्छकटिकस्य रचयितृत्वस्य प्रश्ने, अभिनव-आलोचकः इमां कृतिं शुद्रकस्य कृतित्वेन नाङ्गीकरोति। तस्य कथनानुसारं भासस्य दरिद्रचारुदत्तस्य अपूर्णतां दृष्ट्वा कश्चन कविः आवश्यकं संशोधनं, परिवर्तनं, परिवर्द्धनं च कृत्वा नवकल्पनानुसारं निजन्धर्याः कल्पनाप्रसूतस्य अथवा गुणाढ्यस्य ‘बृहत्कथा'याः गोपालदारक-आर्यकस्य विद्रोहकथां योजयित्वा ‘मृच्छकटिक'स्य प्रारूपं व्यवस्थितम् अकरोत्। तेनैव विशेषकारणेन कृतिनाम शूद्रकस्य नाम्ना प्रसिद्धा कृता, न तु स्वनाम्ना इति।

प्रस्तावनायां शूद्रकस्य परिचयात्मकेषु पद्येषु शुद्रकस्य वर्णनं 'परोक्षभूते लिट्'-द्वारा कृतं वर्तते। ततः सर्वेऽयं प्रश्नं पृच्छति यत्, यदि एवं अस्ति तर्हि कविः किमर्थं स्वकृत्या सह स्वनाम नायोजयत् इति। विविधचिन्तकाः तस्य प्रश्नस्य उत्तरं दातुं प्रायतन्त। डॉ० भोलाशङ्करव्यासः 'संस्कृत कवि दर्शन' नामके पुस्तके द्वे कारणे यच्छति — प्रथमस्तु मूलनाटकं, यस्य आधारेण ‘मृच्छकटिक'स्य रचना जाता अस्ति, सः भासस्य रचना आसीत्, अतः तस्याः समग्ररचनायाः स्वरचितत्वं वक्तुं कविः आत्मग्नानिम् अनुभविष्यत्। द्वितीयमस्ति यत्, नाटके यस्याः राष्ट्रिय-सामाजिक-राजनैतिक-परिस्थितीनां चित्रणं कृतमस्ति, ताः तत्कालीनस्य राजवर्गस्य, समाजस्य उपहासं कर्त्री दरीदृश्यन्ते। मृच्छकटिके ब्राह्मणाः, क्षत्रियाः, सम्पूर्णसमाजश्च असंस्कृताः वर्णिताः । ब्राह्मणः वेश्यागामी, चौरः, द्रुतकरः, चाटुकारी च प्रदर्शितः तथा च क्षत्रियः क्रूरः, अपकर्मी, दुराचारी च । राजा नीचजात्याः वेश्याभिः सह व्यभिचारं करोति, नीचजात्याः जनाः उच्चपदेषु आसीनाः च भवन्ति स्म। न्यायस्य स्थितिरेव नासीत्। राजाज्ञा सर्वोपरि आसीत्। सम्पूर्णस्य मृच्छकटिकस्य परिशीलनेन विद्वद्भिः प्राप्तं यत् कविः स्वयुगस्य मध्यमवर्गे, राजन्यवर्गे च व्यङ्गं कृत्वा एतस्याः कृतेः पल्लवनम् अकरोत्। एताः व्यङ्ग्यात्मकाः रेखाः परस्परं विरोधं कुर्वन्ती, व्यापृवन्ती, सामान्यगोपनीयताकथयन्ती च कटाक्षं कुर्वन्ति। एतादृशः क्रान्तिकारी कविः तस्मिन् काले राजदण्डात् स्वरक्षायै अन्यस्य नाम्ना रचनाम् अघोषयत्। परन्तु उक्तस्य अनुमानस्य तथ्यात्मिकं पृष्ठबलं नास्ति, अतः सर्वे कृतिमिमां शुद्रककृतित्वेन अङ्गीकुर्वन्ति।

रचयितुः व्यक्तित्वम्

सम्पादयतु

मृच्छकटिकस्य रचनाकारस्य कल्पना, अभिव्यञ्जना च समग्रतया तत्कालीनस्य जीवनस्य विस्तृतं परिचयं कारयति। तस्य परिचयस्य गूढा, धूमिला, अदृश्या परन्तु अर्थपूर्णा छविः पठितृभिः सह गम्भीरं, सूक्ष्मं च सम्बन्धं स्थापयति। कवेः नाटकस्य भाषा, गाम्भीर्यं विहङ्गावलोकने यावती स्पष्टा दरीदृश्यते, तावती आन्तरिकरूपेण जीवनवत् सूक्ष्मतां, सूक्ष्मतरां गम्भीरतां स्पृशति। जीवनम् एतादृशमस्ति इति प्रदर्शकः कविः महान् मन्यते, परन्तु विभिन्नसम्भावनाभिः सह जीवनम् एतादृशमपि भवितुम् अर्हति इति प्रदर्शकः कविः महत्तरः मन्यते। अनेन अनुमीयते यत्, मृच्छकटिकस्य रचयितुः वव्यक्तित्वम् अतीव विशालं भवेत्। प्रकरणस्य सूक्ष्मतत्त्वैः विद्वत्सु मतम् अस्ति यत्, कविः दाक्षिणात्यः भवेदिति। वसन्तसेनायाः हस्तिनः नाम ‘खुण्डमोटकः' इति दाक्षिणात्यं नाम वर्तते। धनया तत्र 'नाणकम्' इति शब्दप्रयोग कृतश्च। एतादृशैः प्रमाणैः निष्कर्षोऽयं लब्धः मन्यते।

मृच्छकटिकस्य रचनाकालः

सम्पादयतु

मृच्छकटिकस्य अन्तःसाक्ष्य स्केय आधारेण मन्यते यत्, गुप्तवंशीयानां शासनोत्तरं हर्षवर्द्धनं यावत् भारते कोऽपि सार्वभौमः राजा नोत्पन्नः। उत्तरभारते अनेके शासकाः आसन्, उज्जयिन्यां गुप्तानाम् आधिपत्यं समाप्तम् अभवत्। मालवस्य राजनैतिकस्थितिः अतीव शोचनीया आसीत्। हणानां चतुर्दिक् आक्रमणेभ्यः हिन्दूसमाजः पीडितः आसीत्, तस्य समाजस्य सर्वे आदर्शाः मृद्भवनवत् क्षतविक्षताः अभुवन्, तेषाम् आध्यात्मिकभावः जलबुद्बुगदवत् खण्डितः जातः आसीत्। सामाजिकस्य, राजनैतिकस्य च जीवनस्य सर्वाः मर्यादाः छिन्नाः जाताः। लघुक्षत्रियराज्ञाम् अधःपतनं जातमस्ति। तेषां वीरतायां न्यूनता दरीदृश्यते स्म। ते विलासीनतायाम् आबद्धाः आसन्। राज्ञः अनेक वाङ्गानां शरणम् अपि स्वीकुर्वन्ति स्म। तेन तेषां वीर्यं पतितं जातमासीत्। प्रस्तुतस्य प्रकरणस्य राज्ञः पालकस्यापि भुजिष्याः आसन्, तासु एका शकारस्य भगिनी अपि अन्यतमा। अतः शकारः अपि काणेलीमाता अर्थात् व्यभिचारिण्याः पुत्रः उक्तः। राज्ञां विलासितायाः कारणेन हि राज्यस्य सम्पूर्णा शासन-व्यवस्था उच्छृङ्खला भवति स्म। राज्ञां परिवारजनाः न्यायाधीशान् भीतन् कृत्वा न्यायं कारयन्ति स्म। राजा प्रजायाः, प्रजा राज्ञः च असन्तुष्टा आसीत्। सूर्यास्तोत्तरमेव राजमार्गे द्युतकराः, लम्पटाः, विटाः, वेश्याः, खलाः च अटनम् आरभन्ते स्म। राजमार्गे एव एतेषु परस्परं कलहोऽपि भवति स्म। नगर-रक्षायाः कापि व्यवस्था नासीत्। महिलानां सूर्यास्तोत्तरं गृहात् बहिर्निर्गमनं शक्यं नासीत्। राजा स्वयं स्वशुत्रुभ्यः सर्वदा आतङ्कितः भवति स्म। अवसरे प्राप्ते राजा शत्रूणां दमनं कुर्तं तत्परः भवति स्म। राजविद्रोहस्य सर्वदा आशङ्का भवति स्म। दुष्टतत्त्वानि राज्ञः विरुद्धं दुर्गोष्ठीं कुर्वन्ति स्म। सिंहासनासीनं राजानं मारयित्वा घण्टासु कश्चन नवीनः राजा सिंहासनारूढः भवति स्म। कायस्थाः, श्रेष्ठिनः च अप्रामाणिकतया व्यापारं कुर्वन्ति स्म। तथापि राष्ट्रस्य आर्थिकी स्थितिः सम्पन्ना आसीत्। चारुदत्तः स्वयं सार्थवाहः आसीत्। अत्यधिकं दानं कृत्वैव सः दरिद्रः जातः आसीत्। वसन्तसेनायाः समृद्धि-वर्णनेन मन्यते यत्, समाजे गणिकानां सम्माननम् आसीत्। तदा वेश्याः वर्गद्वये विभक्ता आसीत्। गणिकाः नृत्यगीतादिना स्वाजीविकाम् अर्जयितुं शक्नुवन्ति स्म उत स्वजीविकां त्यक्त्वा कुलवधूः अपि भवितुम् अर्हन्ति स्म। ब्राह्मणाः अपि स्वस्य विवाहितारूपेण तासाम् अङ्गीकारं कुर्वन्ति स्म। चारुदत्तः, शवलकः च अपि ब्राह्मणौ आस्ताम्। द्वयोः क्रमशः वसन्तसेना, मदनिका च कुलवध्वौ आस्ताम्। वेश्याः रूपाजीवा आसन् । तासां वर्गः भिन्नः आसीत्।

देशे दासप्रथायाः प्रचलनम् आसीत् । मदनिका वसन्तसेनायाः दासी आसीत्। शविलकः चौर्यं कृत्वा तां दास्यात् मोचयितवान्। चारुदत्तस्य, शकारस्य चापि चेटाः आसन्। स्वामिनः ऋणं निवर्त्ये तेऽपि स्वतन्त्रां प्राप्तुं शक्नुवन्ति स्म। मध्यमे, निम्ने च वर्गे द्युतक्रीडा सामान्यतया प्रचलने आसीत्। । ते राज्यात् संवैधानिकतया मान्यता-प्राप्ताः आसन्। द्युतक्रीडायां कपटकर्तुः विरुद्धं न्यायालये अभियोगः शक्यः आसीत्। ये आजीविकां न प्राप्नुवन्ति स्म, ते द्युतोपजीवी भवन्ति स्म। द्युतशालायाः प्रमुखः सभिकः उच्यते स्म।

बौद्धधर्मस्य स्थितिः अत्यन्तम् अस्थिरा आसीत्, परन्तु बौद्धभिक्षूणां चारित्रिकं पतनं न जातमासीत्। समाजे तेषां सम्माने न्यूनता न दरीदृश्यते स्म। परन्तु जनाः तान् सशङ्कया पश्यन्ति स्म। वैदिकः, ब्राह्मणः च धर्म एव राजधर्मः आसीत्। शैवानां, शाक्तानां च एषः एव उत्थानकालः। मृच्छकटिकस्य रचयिता अपि शैवः मन्यते। मृच्छकटिकस्य रचयिता संस्कृते, प्राकृते च समानम् अधिकारं धारयति स्म। प्रकरणेऽस्मिन् शौरसेनी, मागधी, प्राकृतम् इत्यादिभिः सह शकारी, ढक्की सदृशासु विभाषासु, देशभाषासु च नाटककारस्य पूर्णाधिकारः आसीत्। ढक्की-विभाषा अपभ्रंशस्य एव कश्चन प्रकारः अस्ति। मृच्छकटिकस्य माथूरस्य उक्तयः उकार-बहुलाः सन्ति। एतेषां सर्वतथ्यानाम् आधारेण विद्वांसः निष्कर्षं निष्कासयन्ति यत्, मृच्छकटिकस्य रचना कालिदासस्य, हर्षस्य च समयस्य विभाषां प्रति सङ्केतयति। नैतावदेव, उक्तवर्णिता सामाजिकी, राजनैतिकी, धार्मिकी च स्थितिः मृच्छकटिकं ईसायाः पञ्चमीशताब्द्याः उत्तरार्द्धस्थम् उत षष्ठमशताब्द्याः पूर्वाधस्थं च सूचयति इति।

मृच्छकटिके प्राकृतम्

सम्पादयतु

प्राकृतप्रयोगस्य दृष्ट्या संस्कृतस्य अन्यनाटकानां तुलनया मृच्छकटिकस्य भन्नमेव महत्त्वमस्ति। प्रकरणऽस्मिन् यावान् प्राकृतस्य उपयोगः भवति, तावान् संस्कृतस्य न कस्मिन्नपि अन्यनाटके भवति। मृच्छकटिकस्य विवृत्ति-लेखकस्य पृथ्वीधरस्य अनुसारं नाटकेऽस्मिन् - सूत्रधारः, नटी, रदनिका, मदनिका, वसन्तसेना, तस्याः माता, चेटी, कर्णपूरकं, धूता, शोधनकः, श्रेष्ठी — एतानि एकादश पात्राणि शौरसेनीं वदन्ति। वीरकः, चन्दनकः च अवन्तिकां वदतः। विदूषकस्य भाषा प्राच्या वर्तते। संवाहकः, वसन्तसेना, चारुदत्तस्य त्रयः चेटाः, भिक्षुः, रोहसेनः - एतानि षड् पात्राणी मागधीं वदन्ति। शकारः, शकारी च प्राकृतभाषायाः प्रयोगं कुरुतः। चाण्डालौ चाण्डाल्याः प्रयोगं कुरुतः। माथुरः द्युतकरः ढक्कीं वदति। पृथ्वीधरः एतासां भाषाणां लक्षणाणि सङ्क्षेपेण स्वस्य विवृत्याः प्रारम्भे प्रादात्। मार्कण्डेयस्य कवीन्द्रस्य प्राकृत-सर्वस्वे तासां विस्तृता विवृतिः प्रदत्ता अस्ति। पृथ्वीधरस्य मते शौरसेनी, मागधी, प्राच्या, अवन्तिका च प्राकृतमेव सन्ति। शकारी, चाण्डाली, ढक्की च विभाषाः इति। मृच्छकटिकस्य शौरसेनी, मागधी, वरुरुचिः इत्यादयः प्राकृतिकवैयाकरणात् प्रभावितं परिनिष्ठतप्राकृतं वर्तते। आवन्ती, प्राच्या च शौरसेन्याः अवान्तरभेदत्वेन तिष्ठतः। पृथ्वीधरस्य मतानुसारम् अवन्ती लोकोक्तिबहुला अस्ति, तत्र च 'र'कारस्य स्थाने 'ल'कारस्य उच्चारणं भवति। प्राच्यां स्वार्थकानां ककाराणां बहुलता भवति। डॉ० भोलाशंकरव्यासस्य मतमस्ति यत्, मृच्छकटिकस्य वीरकः, चन्दनकः, विदूषकः वा यां भाषां वदति, तस्यां पृथ्वीधरेण लिखितलक्षणाणि न घटन्ते। आवन्त्यां मध्यगस्य 'त'कारस्य लोपः दरीदृश्यते। प्राच्य्यां सः 'द'काररूपेण सर्वत्र उपलब्धः वर्तते। शकार्याः प्रमुखविशेषता अस्तव्यस्तोक्तिरूपेण मन्यन्ते। मागधीवत् शकारी, चाण्डाली च मध्ये श, ष, स इत्षां स्थाने केवलं 'श' प्राप्यते। 'र'कारस्य सर्वत्र ‘ल'त्वेन उच्चारणं भवति। मागध्याः प्रथमाविभक्त्याः एकवचनरूपवत् अत्रापि ‘एकारान्त'रूपेण एव प्राप्यन्ते - ‘मणुश्शे 'हो' चारुदत्ते इत्यादि । माथुरस्य ढक्की अपभ्रंशस्य सङ्केतं तु अवश्यमेव करोति, परं सा तस्य कालस्य एव अन्यायाः असंस्कृतभाषावत् प्रतीयते।

मृच्छकटिकस्य कथाभागः

सम्पादयतु

अत्र रुपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रणं कृतं, परं तेनैव सह तत्कालिकसमाजस्य चित्रमप्यङ्कितम्, एतत्प्रकरणगतकथा भागद्वयेविभक्ता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनीषति, द्वितीयश्च भाग आर्थकस्य राज्यप्राप्तिं प्रगुणयति । प्रथर्मोऽशो भासकृतस्य दरिद्रचारुदत्तनामकस्य रुपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीर्योऽशश्च कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्यं स्फुटम् । दशाङ्कनिबध्देऽत्र रुपके कविना क्वचन गुणवति वदान्यतया दरिद्रे च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा, शकारस्य तत्रानुरागोदयस्तस्यामनुरगमनवदधत्यां द्वेषस्तन्मूला तद्वधप्रवृत्तिः, ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः, भाग्यवशात्तदुज्जीवनम्, राज्यपरिवर्त्तनेनार्यकस्य राज्यप्राप्तिश्चारुदत्तवसन्तसेनयोर्विवाहश्छेत्यादयोऽर्था निपुणं वर्णिताः ।

चरित्राणि

सम्पादयतु

वसन्तसेना उज्जयिन्या वेश्या याऽत्र प्रधाननायिका । वेश्यापि सा प्रेम कर्तुं जानाति, मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वधप्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः, परं स्त्रियामपेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते । धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसहनोद्यता । सा हि सपतिकलङ्कप्रक्षालनाय स्वईयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामाभरणानां परिवर्त्ते दातुमुद्यता । शकारो नितान्तगर्वी चारुदत्तस्याकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठं मर्दयति तद्देषं च चारुदत्तस्य शिरसि न्यस्यति, तथापि चारुदत्तस्तस्मै क्षमां ददाति ।

अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रुपकमिदं सजीवमिव सम्पन्नम् ।
अत्रत्यानि पात्राणि न कल्पितस्वरुपाण्यपि तु सर्वत्र सुलभानीति विशेषः ।

तत्कालिकी समाजदशा

सम्पादयतु

शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तत्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति । तस्मिन्समये उज्जयिनी भारतस्य समृध्दा नगरी, फलतस्तत्र चौर्यद्यूतयोः प्ररुढः प्रचारोऽवर्त्तत । वेश्यालयानां प्राचुर्यं विलासितायाः प्रमाणम् । मनुस्मृतिर्न्यायालयेष्वाद्रियमाणाऽऽसीत् । ब्राह्मणा अपि व्यापारार्जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणां सहयोगमपेक्ष्यैव कार्यं चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमीयन्त यत्र रोगिणां शुश्रुषाऽपि व्यधीयत । क्रितदासप्रथाऽवर्त्तत । राजशक्तेर्दुर्बलतायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्त्तनं दृश्यते । बौध्दधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् ।

शूद्रकस्य शैली सरला, प्रसाद-गुण- गुम्फिता चास्ति । लम्बायमानस्य वृत्तस्य प्रयोगोऽतिन्यून एव । नूतनो भावः, अभिनवोऽर्थः स्थले-स्थले प्राप्यते । नाटकस्य मुख्यो रसः श्रृंङ्गारः । वर्षर्तुवर्णनं शूद्रकेण कियन्मनोहरं विशदीकृतमिति न कदापि विस्मर्तव्यम् । विविधाः चमत्कृतसूक्तयः नाटके दरीदृश्यन्ते, कविना न्यायालयस्य वर्णनं कियत्सुन्दरं कृतमिति दृश्यताम् –

चिन्तासक्तनिमग्नमन्त्रिस्सलिलं, दूतोर्मिशङ्काकुलम्
पर्यन्तस्थितचारनक्रमकरं, नागाश्वसिंहाश्रयात् ।
नानावासक- कङ्क – पक्षिरुचिरं कायस्थसर्वास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥

अनेन प्रकारेण शूद्रकः मृच्छकटिकनाटके यत्र तत्र समाजस्य, राज्ञः, तथा राजकर्मकस्य, वेश्यायाः चौरस्य च एतादृशं चित्रं प्रतौति यत् नाटकपठनेन तत्कालीनसमाजस्य चित्रम् अस्माकं सम्मुखे आलिखित-चित्रमिवावभासते । किमधिकं मृच्छकटिकनाटकं सफलं समाजिकं नाटकमिति न केषाञ्चित् विमतिः ।

शूद्रकस्य काव्यशैली सरलतमा, दीर्घः समासो, गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरुकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रुपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । हासप्रयोगेऽपि कवेरस्य साफल्यम । यज्ञोपवीतस्योपयोगे विचार्यमाणे- यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्विधस्य, कुतः-

एतेन मापयति भित्तिषु कर्ममार्गा-
नेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनञ्च ॥

सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्कारित्वमक्षुण्णमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति ।

एषा चारुदत्तस्य कथा अस्ति। सः नटीम् वसन्तसेनाम् कामयति। परम् एकः राजसभास्थः अपि ताम् प्रलुभ्यति। एषा कथा हास्या बोधना चास्ति।

"https://sa.wikipedia.org/w/index.php?title=मृच्छकटिकम्&oldid=455883" इत्यस्माद् प्रतिप्राप्तम्