मेलुकोटे (Melukote)कर्णाटकराज्यस्य मण्ड्य्यमण्डले विद्यमानं किञ्चन क्षेत्रम् । एषा

मेलुकोटे
नगरम्
Skyline of मेलुकोटे
कर्णाटके मेलुकोटॆ
कर्णाटके मेलुकोटॆ
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
Elevation
९०० m
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय समान्यकालमानम्)
पत्रालयकूतटसंख्या
571431
दूरवाणीसंख्या 08232
Vehicle registration KA-11

श्रीरामानुजार्याणां लीलाभूमिः । एतत् स्थानं तिरुनारायणपुरं दक्षिणबदरी यादवाद्रिः नारायणाद्रिः वेदाद्रिः यदुगिरि इत्यपि कथयन्ति । यदुगिरिपर्वतस्थले ३५८९ पादपरिमिते उन्नते स्थाने निर्मितं दुर्गम् इति कारणतः प्रसिद्धमस्ति इदं यात्रास्थलम् । दक्षिणभारते स्थितेषु चतुर्षु वैष्णवक्षेत्रेषु

चेलुवनारायणस्वामिन्मन्दिरम्

मेलुकोटे अन्यतमम् । अन्यानि क्षेत्राणि कञ्चि, तिरुपतिः श्रीरङ्गञ्च

अत्र श्रीचेलुवनारायणस्वामिमन्दिरम् अत्यन्तं सुन्दरम् अस्ति । पर्वतप्रदेशे स्थितं योगानरसिंहमन्दिरम् अपरं सुन्दरं देवस्थानम् अस्ति । कृतयुगादारभ्य अत्र पूजा प्रचलति इति विशेषः । ब्रह्मणा पूजितः, तस्य मानसपुत्रेण सनत्कुमारेण भूलोके अत्र स्थापितः देवः अत्र अस्ति इत्यभिप्रायः। श्रीरामानुजाचार्याः क्रिस्ताब्दे १११० तमे वर्षे प्रतिष्ठापितवन्तः इति चारित्रिकः आधारः अस्ति । चेलुवनारायणस्वामिदेवालयः २८० पादपरिमितः चौकाकारे अस्ति । होय्सलराजा बिट्टिदेवः अथवा विष्णुवर्धनः अस्य देवालयस्य अभिवृद्धये कारणपुरुषः इति स्पष्टमस्ति ।

श्री चेलुवनारायणस्वामिनः मनमोहका भङ्गी अत्यन्तम् आकर्षिका अस्ति । एतं वैरमुडि, राजमुडि, कृष्णराजमुडि इति किरीटैः निर्दिष्टदिनेषु अलङ्कुर्वन्ति । तेन वैरमुडि-उत्सवः, राजमुडि-उत्सवः, कृष्णराजमुडि-उत्सवः इत्यादयः आचरन्ति । वैरमुडि- उत्सवः वैभवपूर्णः भवति । एतदुत्सवं वीक्षितुं लक्षाधिकजनाः रात्रौ अत्र आगच्छन्ति । पर्वतप्रदेशे स्थितः योगानरसिंहः भक्तप्रह्लादस्य तपसः फलरूपेण प्रत्यक्षम् आगतः इति विश्वासः अस्ति । एषः देवः चतुर्भुजः भव्यमूर्तिरूपः । अत्रत्यम् अत्यन्तम् आकर्षकं स्थानम् कल्याणीतीर्थम् । अक्कनकोळ, तङ्गियकोळ, रायशिखरं (६० पादपरिमितोन्नतौ स्थिताः निराधाराः चतुस्तम्भाः एकशिलानिर्मिताः। धनुष्कोटिः इति तीर्थक्षेत्रं देवालयतः एक- कि.मीटर् दूरे अस्ति। पौराणिकैतिह्यानुसारं श्रीरामः सीतासहितः अत्र आगतवान् । सीतायाः स्नानार्थं बाणप्रयोगेण जलोद्गमनम् कृतवान् इति स्थलपुराणम् अस्ति ।

मार्गः सम्पादयतु

मण्ड्यतः ३६ कि.मीटर ।
पाण्डवपुरतः २९ कि.मी।
मैसूरुतः ७० कि.मी ।
बेङगलूरुतः १५७ कि.मी।
सम्पर्कदूरभाषा -०८२३६-५८७३९

वीथिका सम्पादयतु

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मेलुकोटे&oldid=481739" इत्यस्माद् प्रतिप्राप्तम्