भरतः दशरथस्य पुत्रः । कैकेयी भरतस्य माता। कुशध्वजस्य पुत्री माण्डवी भरतस्य पत्नी ।

भरतः
Rama-Bharata-Paduka.jpg
रामस्य पादुकां याचन् भरतः
व्यक्तिगतविवरणम्
सहचारी माधवी
अपत्यानि तक्क्ष
पुष्पकला[१]
पितरौ
सहोदराः रामः, लक्ष्मणः, शत्रुघ्नः (विभ्रातरः) शान्ता (विभगिनी)
वंशः रघुवंशः

पितृभक्तिःसम्पाद्यताम्

यदा दशरथेन श्रीरामस्य राज्याभिषेकः आयोजितः तदा भरतः स्वमातुलगृहं गतः आसीत् । कैकेयीवचनानुगुणं श्रीरामः वनवासार्थं गतः । शोकेन दशरथः इहलोकयात्रां समापितवान् । भरतः त्वरया अयोध्यां प्रति अगन्तव्यः इति वार्ता प्रेषिता । पूर्वस्मिन् दिने भरतः दुःस्वप्नं दृष्टवान् आसीत् । प्रेषिते पत्रे अपि राजमुद्रा न आसीत् । आगन्तुं विशेषव्यवस्था कल्पिता आसीत् । अनेन पितुः विषये बहु चिन्ताक्रान्तः अभवत् । अयोध्यागमनानन्तरं वसिष्ठः पूर्वजानां रघुवंशीयाणां मूर्तिदर्शनपूर्वकं दशरथस्य मरणं ज्ञपितवान् । तदा पितुः मरणवार्तां ज्ञात्वा बहु खिन्नः अभवत् ।भासमहाकविः स्वीयनाटके प्रसङगमेनं मनोज्ञतया चित्रितवान् [२]

भ्रातृभक्तिःसम्पाद्यताम्

यदा भरतः अयोध्यां प्रविष्टवान् तदा स्वमातुः नीचबुद्ध्या अग्रजः रामः वनं गतवान् इति ज्ञातवान् । तदा अग्रजस्य विषये विद्यमानया महत्या प्रीत्या मातुः वधं कर्तुमुद्युक्तः । वसिष्ठवचनानुगुणं वधं नाचरितवान् । स्वदेहत्यागमपि कर्तुमुद्युक्तः भरतः वसिष्ठेन वारितः ।

श्रीरामसेवकःसम्पाद्यताम्

भ्रातृविहीनायाम् अयोध्यायां सिंहासने नोपविषामीति मातुः समीपे उक्त्वा श्रीराममन्विषन् वनं प्रति प्रस्थितः । कैकेयीवचनम् अल्पमिति मत्वा अयोध्यां प्रत्यागत्य सिंहासनमधिरोढुं श्रीरामस्य सकाशे विनम्रं विज्ञापयति । परं श्रीरामः नाङ्गीकुरुते । श्रीरामस्याधिष्ठाने अयोध्यासिंहासने नाहमुपाविषामीति श्रीरामस्य समीपे उक्त्वा तस्य पादुकां प्रसादरूपेण अपृच्छत् । पादुकां शिरसि वहन् अयोध्यायां राजसिंहासने संस्थाप्य श्रीरामस्य वनवासपूर्तिपर्यन्तं नन्दिग्रामे तपः आचरितवान् [३]

पुराणेषु भरतःसम्पाद्यताम्

विष्णुधर्मोत्तर पुराणे १.२०२ आख्यानमस्ति यत् सिन्धुनद्याः द्वयेषु कूलेषु शैलूषस्य गन्धर्वस्य राज्यमासीत्। भरतस्य मातुलं युधाजितं अयं न रोचते। अनेन कारणेन भरतः शैलूषेण गन्धर्वेण सह युद्धं करोति एवं तस्य राज्यध्वंसनं कृत्वा सिन्धोः द्वयेषु कूलेषु स्वपुत्राणां तक्ष एवं पुष्कलस्य राज्याभिषेकं करोति। मत्स्य ५१.८ एवं वायु २९.७ पुराणेषु उल्लेखमस्ति यत् भरताग्निः ब्रह्मौदनमस्ति।

शैलूषस्य किमर्थं भवति, अस्मिन् संदर्भे ऋग्वेद १०.१२६ सूक्तं उल्लेखनीयमस्ति। अस्य सूक्तस्य ऋषिः शिलूष-पुत्रः कुल्मलबर्हिः अथवा वामदेवस्य पुत्रः अंहोमुक् अस्ति। देवता विश्वे देवाः सन्ति। अस्मिन् सूक्ते मित्र-वरुण-अर्यमा देवत्रयेभ्यः प्रार्थना अस्ति यत् ते द्वेषतः मोचनं कुर्वन्तु इत्यादि। भागवतपुराणस्य ११.२.४६ श्लोकमस्ति –

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।।

अर्थात् मध्यमस्य कोट्याः भक्तस्य लक्षणमयमस्ति यत् सः ईश्वरे, तस्य भक्तैः सह, बालिशेषु एवं द्विषत्सु सह क्रमशः प्रेम, मैत्री, कृपा एवं उपेक्षया सम्बन्धं स्थापितं करोति। ऋग्वेद १०.१२६ सूक्ते मित्र(मैत्री), वरुण(कृपा) एवं अर्यमा(द्वेषः) देवतानां उल्लेखमस्ति। किन्तु प्रेमस्य देवस्य उल्लेखं नास्ति। प्रेम एव ब्रह्मौदनस्य सृष्टिं करिष्यति। प्रेमस्य सृष्टिः भरतस्य माध्यमेन भविष्यति, अयं प्रस्तावः।

ऋग्वेद १०.१२६ सूक्तस्य ऋषिः कुल्मल-बर्हिः अस्ति। कुल्मलस्य किं अर्थं अस्ति, अयं विचारणीयः। अथर्ववेदे उल्लेखमस्ति – जिह्वा ज्या कुल्मलं वाङ् - -- । अन्यत्र कुल्मलं पापमस्ति। कुल्मलस्य अन्य शब्दार्थानां हेतु शब्दकोशः द्रष्टव्यमस्ति।

विष्णुधर्मोत्तरे ३.१२१.५ निर्देशमस्ति यत् अयोध्यायां रामस्य अर्चना करणीयमस्ति एवं केकयदेशे भरतस्य। केकय शब्दस्य किमर्थं भवति। पुराणेषु उल्लेखं अस्ति यत् ऋषीणामाश्रमेषु मन्त्रध्वनिं श्रुत्वा मयूराः केका ध्वनिं कुर्वन्ति। केका अर्थात् कय-कय। कय-शब्दे। अयं ध्वनिः प्रतिध्वनिरस्ति। मनुष्यस्य जीवनं द्वि-तन्त्राणां योगमस्ति – श्रुत्याः एवं स्मृत्याः। श्रुति अर्थात् ईश्वरीय वाण्याः श्रवणे कोपि रोधं नास्ति। लौकिक भाषायाम् – कोपि कार्यः आत्मायाः आवाजानुसारेण एव भविष्यति। स्मृति अर्थात् इदानीं श्रुत्याः, ईश्वरवाण्याः श्रवणं सम्भवं नास्ति। कदाचित् कस्मिंश्चित् काले यः श्रुतमासीत्, तस्य सम्यक् संरक्षणेन एव, स्मृत्या एव, आर्ष पुरुषाणां कथनानुसारेण कार्यं करणीयमस्ति। रामायणे कैकेयी अयोध्यायां अपि भरतस्य राज्यं स्थापयितुं यत्नं करोति। किन्तु अन्ततः सफलं न भवति। कारणं – अयोध्या श्रुत्याः स्थानं भवति। अष्टचक्रा नवद्वारा देवानां पूरयोध्या। स्मृत्याः स्तरे ईश्वरस्य कृपायाः ग्रहणं कठिनं भवति। अनेन कारणेन भरतस्य, भरणकस्य आवश्यकता भवति।

भरतस्य मन्दिरम्सम्पाद्यताम्

ऋषिकेश नगरे भरतसंज्ञकः मन्दिरमस्ति किन्तु अत्र पूजनीय देवता भगवान् हृषीकेशः अस्ति, न राम – भ्राता भरतः। अस्य रहस्यस्य व्याख्या एवंप्रकारेण कर्तुं शक्यन्ते। पद्मपुराणे ६.२४२.९४ उल्लेखमस्ति यत् राम-भ्राता भरतः पाञ्चजन्यस्य शंखस्य अवतारः अस्ति(शत्रुघ्नः चक्रस्य)। भगवद्गीतायां १.१५ उल्लेखमस्ति –

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः।।

पाञ्चजन्यस्य किमर्थं भवितुं शक्यते, अयं विचारणीयः। अस्माभिः कोपि हवं, अभीप्सा भवेत्, अस्य सफलीभवनाय अयं आवश्यकं अस्ति यत् अभीप्सायाः जननं देहस्य पञ्च धातुभ्यः – लोम, असृग्, मांस, अस्थि एवं मज्जातः युगपद् एव भवेत्(द्र. ऋ. ३.५३.१६)। हृषीकेश संज्ञकस्य विष्णोः विशेषता अस्ति यत् तस्य नियन्त्रणं स्वकृष्टिषु उपरि भवति। हृषीकाणि – इन्द्रियाणि। अतएव यदा गीतायां उल्लेखमस्ति यत् हृषीकेशेन पाञ्चजन्यस्य शङ्खस्य घोषमभवत्, अयं उचितमेव। ऋषिकेश नगरस्य भरतमन्दिरस्य विषये कथनमस्ति यत् अक्षयतृतीयां तिथौ यः देवस्य १०८ परिक्रमाः करोति, तस्य कामना सफलं भवति।

आधाराःसम्पाद्यताम्

  1. Ramayana - Conclusion, translated by Romesh C. Dutt (1899)
  2. द्रष्टव्यम्-प्रतिमानाटकम्-चौखम्भाप्रकाशनम्,वाराणसी
  3. वाल्मीकिरामायणम्


संदर्भाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=भरतः_(रामायणम्)&oldid=425675" इत्यस्माद् प्रतिप्राप्तम्