शत्रुघ्नः अयोध्याधिपस्य दशरथचक्रवर्तिनः पुत्रः । सुमित्रा अस्य माता । लक्ष्मणः अस्य सहोदरः । शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः । कुशध्वजस्य पुत्री श्रुतकीर्तिः अस्य पत्नी । सुबाहुः शत्रुघाती च अस्य द्वौ पुत्रौ । शत्रुघ्नः कनिष्ठः रामस्य अनुजः। सः सुमित्रापुत्रः

शत्रुघ्नः
Satrughna, the youngest brother of Rāma..jpg
रामस्य अनुजतमः भ्राता
व्यक्तिगतविवरणम्
सहचारी सुकीर्तिः
अपत्यानि शत्रुघाती
सुबाहुः
पितरौ
सहोदराः रामः, लक्ष्मणः, भरतः,
शान्ता
दशरथस्य चत्वारः पुत्राः

यथा लक्षणः रामम् अनुसरति तथा शत्रुघ्नः भरतं सर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य नन्दीग्रामे तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति। धनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। लवणासुरः तस्य पित्रा रुद्रद्वारा प्राप्तस्य शूलस्य साहाय्येण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुजनानां मुनीनां च पीडनं करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पतित्वा मृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशानुसारं लवणासुरं शूलरहितसमयं दृष्ट्वा हतवान्।


"https://sa.wikipedia.org/w/index.php?title=शत्रुघ्नः&oldid=425678" इत्यस्माद् प्रतिप्राप्तम्