अष्टादशसु पुराणेषु अन्यतमं वर्तते वामनपुराणम्। इदं किञ्चन प्राचीनं पुराणम्पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते।नारदपुराणे १०५ अध्याये १०,००० श्लोकात्मकस्य वामनपुराणस्य लक्षणम् उक्तमस्ति। तद्यथा,

वामनपुराणम्  
लेखक वेदव्यास
देश भारत
भाषा संस्कृत
शृंखला पुराण
विषय विष्णुः
प्रकार वैष्णव ग्रन्थः
पृष्ठ १०,००० श्लोकाः
Deshaavathaaram5 vamanan.jpg

शृणु वत्स ! प्रवक्ष्यामि पुराणां वामनाभिधम्।
त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्यकम्॥

कूर्मकल्पसमाख्यानं वर्गत्रयकथानकम्।
भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम्॥
मत्स्यपुराणे ब्रह्म त्रिविक्रमस्य माहात्म्यमधिकृत्य त्रिवर्गस्य कीर्तनं कृतमस्ति। तदेव वामनपुराणं भवति। प्रमाणं दर्शयति एकेन श्लोकेन,

त्रिविक्रमस्य महात्म्यमधिकृत्य चतुर्मुखः।
त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम्॥

पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम्। इति।

अन्तर्विषयाःसम्पाद्यताम्

वामनपुराणे विभिन्नावताराणां कथाः सन्ति। विशिष्य वामनावतारस्य कथाः विद्यन्ते। शिवमाहात्म्यम्, शिवतीर्थम्, शिवशिवाविवाहः, गणेशस्य उत्पत्तिः, कार्तिकेयादीनाम्विशेषतः विष्णोः नैके कथाः विद्यन्ते। अस्मिन् पुराणे १०,००० सहस्रश्लोकाः सन्ति। अस्मिन् पुराणे ९२ अध्यायाः सन्ति। वामनपुराणं द्विदाविभक्तम् अस्ति। उत्तरार्दम्, पूर्वार्दम् इति। उत्तरभागस्य बृहद्वामन इति नामान्तरं भवति। अस्मिन् चतस्रः संहिताः सन्ति।

  • माहेश्वरी संहिता – अस्यां कृष्णस्य तथा तस्य भक्तानाञ्च कथाः सन्ति।
  • भागवती संहिता – अस्यां जगदम्बायाः अवतारकथाः सन्ति।
  • सौरी संहिता – अस्यां पापनाशकस्य सूर्यदेवस्य कथाः विद्यन्ते।
  • गाणेश्वरी संहिता- अस्यां गणेशस्य चरित्रं विद्यते।

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=वामनपुराणम्&oldid=371261" इत्यस्माद् प्रतिप्राप्तम्