विकिपीडिया:महिला-लेखाभियानम् २०१५
मार्च्-मासस्य ८ दिनाङ्के आचर्यमाणम् अन्ताराष्ट्रियमहिलादिनम् उपलक्ष्य महिला-लेखाभियानं संस्कृतविकिपीडियापक्षतः स्वीकृतम् । अस्मिन् मासे महिलाविषयकाः लेखाः आधिक्येन योजनीयाः इति अस्य अभियानस्य लक्ष्यं विद्यते । एते लेखाः विविधक्षेत्रेषु विशिष्टसाधनां कृतवतीनां विषये भवितुम् अर्हति । उद्देश्यम्सम्पादयतुसंस्कृतविकिपीडियायां महिलासम्बद्धलेखाः वर्धनीयाः इति धिया इदम् अभियानं स्वीकृतम् । सर्वेषु क्षेत्रेषु महिलानां योगदानं सुमहत् वर्तते एव । किन्तु तद्विषयकाः लेखाः अत्र अल्पाः सन्ति । अनेन अभियानेन तादृशानां लेखानां निर्माणं, वर्धनम्, एकत्रीकरणञ्च भवतु इत्यस्ति सङ्कल्पः ।
रचनीयाः नूतनलेखाःसम्पादयतु
वर्धनीयाः लेखाःसम्पादयतु
भागग्राहिणःसम्पादयतुअस्मिन् अभियाने भागग्रहणे उत्सुकाः योजकाः अत्र नामाङ्कनं कुर्वन्तु ।
सन्दर्भसम्पर्काःसम्पादयतु |