"जगन्नाथदासः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
'''जगन्नाथदासः''' (Jagannatha dasa) श्रेष्ठः कीर्तनकारः । '''जगन्नाथदासः''' (कन्नडभाषा : ಜಗನ್ನಾಥ ದಾಸ) [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले बागवट्टीग्रामः शा.श १६४९ (क्रि.श. [[१७२७]] )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्परायाः प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः "नरसिंहाचार्यः" जगन्नाथदासस्य पिता, "लक्ष्मीबायी" माता । पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । [[वरदेन्द्रतीर्थः]] [[गोपालदासः]] च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु "जगन्नाथविठल" इति अङ्कितं भवति । [[चन्द्राभागा]] नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । [[कर्णाटकस्य दासपरम्परा|दासवर्गे]] एषः सुप्रसिद्धः, महाविद्वान् च । [[भगवद्गीता]], [[ब्रह्मसूत्राणि|ब्रह्मसूत्रम्]] , [[दशोपनिषद्भाष्यग्रन्थः|दशोपनिषत्]] इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते [[हरिकथामृतसारः]] इत्येतस्मिन् कन्नडग्रन्थे [[मध्वसिद्धान्तः|मध्वमतस्य]] तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. [[१८०९]]) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् । [[मान्वीविधानसभाक्षेत्रम्|मान्वी]] मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।
==कृतयः==
एतावति काले तस्य लब्धाः कृतयः "२०७" हरिकीर्तनानि, उगाभोगौ, सुळादयः, हरिकथामृतसारः इति मध्वशास्त्रग्रन्थः च । चरणश्लोकः,
'''जलज्येष्टनिभाकारं जगदीश पदाश्रयम् ।'''<br>
'''जगतीतलविख्यातं जगन्नाथं गुरुं बजे ॥'''<br>
अस्य प्रसिद्धकृतौ [[हरिकथामृतसारः|हरिकथामृतसारे]] ३२ सन्धयः सन्ति । कन्नडास्य प्रसिद्धे छन्दसि भामिनीषट्पदीवृत्ते लिखितः अस्ति । हरिकथामृतसारस्य रचनाकाले घटिता काचित् घटना एवमस्ति । तस्य कृतिरचनावसरे २८सन्धयः अनायासेन रचिताः अग्रे नेतुं कष्टम् अभवत् । तदा तस्य गुरुः [[गोपालदासः]] सूचितवान् यत् तस्मिन् काव्ये आरम्भे भगवतः गणपतेः स्तोत्रं न योजितं अतः एवम् अभवत् इति । तदनन्तरं २८तमं सन्धिं विघ्नेश्वरसन्धिः इति नामाङ्कितं कृत्वा समर्पितवान् । तदनन्तरं ३२सन्धयः समापिताः ।
 
==मुक्तिः==
जगन्नाथदासः ४०आयुः प्राप्तवान् आसीत् । किन्तु गुरोः [[गोपालदासः|गोपालदासस्य]] अनुग्रहेण ४२वर्षाणि अधिकम् आयुर्भाग्यं प्राप्य ८२वर्षाणि जीवन् क्रि.श [[१८०९]]तमे वर्षे दिवं गतः । मन्वीग्रामे यस्मिन् गृहे श्रीजगन्नाथदासः स्वजीवनं सार्थकम् अकरोत् तत् गृहं इदानीं देवालयः अस्ति । यस्य स्तम्भस्य आधारेण सः वार्धक्ये उपविशति स्म तस्मिन् स्तम्भे इदानीमपि तस्य सूक्ष्मशरीरम अस्ति इति भक्तानां भावः अस्ति । अतः तत्र तस्य स्तम्भस्य प्रदिनं पूजा सम्भवति । दासेन उपयुक्तानि कानिचन धार्मिकवस्तूनि इदानीमपि तस्मिन् मन्दिरे सन्ति । [[हरिकथामृतसारः|हरिकथामृतसारस्य]] काचन कागदप्रतयः मन्दिरे उपलब्धाः सन्ति । प्रतिवर्षं भाद्रपदशुद्धनवम्यां दासवरेण्यस्य पुण्यदिनं वैभवेन आचर्यते ।
 
==जीवनपाठः==
पङ्क्तिः २९:
निनगेष्टु हेळलि केळु जिष्णु सखने ।
वौश्निष नी दयादृष्टियिन्दलि नोडि हृष्टन्न माडो ।
सन्तुष्टियिन्दलै ॥
 
हयमुखने निन्न दयदिन्द सलहुदु ।
"https://sa.wikipedia.org/wiki/जगन्नाथदासः" इत्यस्माद् प्रतिप्राप्तम्