नाटकमिदं महाभारतीयं कथावस्त्वाश्रित्य विरचितम् । दुश्शासनापमानसन्तप्ता द्रौपदी घोरां प्रतिज्ञामकृता, यद् 'अहं दुश्शासने निहत एव केशयसंयमनं करिष्यामि । अस्याः एव घटनायाः पूर्त्तौ महाभारतस्य या कथा साऽत्र वर्णिता । अत्र नाटके षडङ्काः सन्ति । प्रथमोऽङ्कः कृष्णचन्द्रस्य दौत्यात् प्रारभ्यते यत्र विफले भगवति कृष्णे कुपिते च युधिष्ठिरे समरदुन्दुभिरताड्यत । द्वितीयेऽङ्के दुर्योधनभानुमत्योः संवादः । तृतीये प्रवेशकेन धृष्टद्युम्नकृतद्रोणवधावगमः, कुपितस्याश्वत्याम्नः सकलराजन्यकनिन्दा, कर्णाश्वत्याम्नोर्वाक्कलहश्च प्रधानं वस्तु । चतुर्थेङ्के सुन्दरकद्वारा युध्दस्थितौ दुःशासनभीषणवधपर्यन्तायां निवेदितायां दुर्योधनस्य खेदः । पञ्चमेऽङ्के धृतराष्ट्रगान्धार्यो दुःखितत्वेन दुर्योधनं पाण्डवैः सह सन्धि विधातुमागृह्णीतः, परं नासौ मन्यते । षष्ठेऽङ्के चार्वाकमुनिवञ्चनया यावधुधिष्ठरो वह्निप्रवेशमभिलष्यति तावदेव सत्ये विदिते सर्व आनन्दन्ति, द्रौपदी च दुःशासनामृजा केशान् संयमयति ।

संस्कृतनाट्यशास्त्रानुसारेण वेणीसंहारं शास्त्रीयदृष्ट्याऽऽदर्शभूतम् । यद्यप्यत्र नाटके नाटकीयवस्तूनां विन्यासस्तथा सुश्लिष्टतया घटितो यथा नाटकीयवस्तूदाहरणायैव निर्मितमिदं नाटकमिति सन्देहः सम्भवति, परन्तु नेयं वस्तुस्थितिः, सिध्दनाटककारप्रतिभोद्भूते रुपके नाटकीयवस्तूनि स्वतो यथास्थानं निविशन्ते यान्युदाहरति नाट्यरीतिकारः ।

वेणीसंहारनाटकस्य रचयिता महाकविः भट्टनारायणः स्वस्य एकमात्ररचनायां वेणीसंहारनाटके आत्मवृत्त- विषयकं – “ तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारनाटकम्” इति विलिख्य मौनमधारयत् । बाह्यसाक्ष्येण च वेणीसंहारनाटकस्य रचयिता भट्टनारायणः कान्यकुब्ज (कन्नौज) देशोदभवः शाण्डिल्यागोत्रीयो ब्राह्मणः आसीत् । क्षितीशवंशावलीचरितम्, रागावली, बङ्गराजघटक- दक्षिणाराधीयघटक-प्रभृतिषु राजवंशावलिषु भट्टनारायणस्येतिवृत्तविषयकं किमपि प्राप्यते । तदनुसारं “बंगदेशे सेनवंशप्रवर्त्तकेन गौडाधिपतिना आदिसूरेण वैदिकानुष्ठानार्थं कान्यकुब्जदेशात् आहूतेषु पञ्चसु सनातनपण्डितेषु प्रधानः भट्टनारायण आसीत् । दक्षिणारुपेण आदिसूरः अस्मै पञ्चग्रामान् अददात् , स्वसभापण्डितपदे चामुं प्रतिष्ठापयामास । शनैः शनैः भट्ट्नारायणः स्वयमेव बंगदेशे एकस्य राजवंशस्य प्रवर्तकः सञ्जातः” । सनातनधर्मस्योत्पीडनात् कान्यकुब्जं परित्यज्य भट्टनारायणः स्वयमेव बंगदेशमात्मनः निवासस्थानम् करोत् इत्यपि श्रूयते । डा. गजेन्द्रगडकरमतानुसारं बौध्दमतेन प्रभावितो भट्टनारायणः वैदिक – सनातनधर्मानुयायिभिः पण्डितौरुत्पीडितः कान्यकुब्जदेशं विहाय वङ्गदेशे निवासं कृतवान्।

नामकरणम् सम्पादयतु

कस्यापि ग्रन्थस्य नामकरणं तत्र घटितासु घटनासु प्रधानतामाधृत्य क्रियते । महाकविः भट्टनारायणोऽपि स्वरचितस्य नाटकस्य नामकरणं वेणीसंहारः इति अनेनैव सिध्दान्तेना करोत् । वस्तुतः तस्य नाटकस्याभिधानं सर्वथा प्रयोजनानुसारं प्रभावोत्पादकञ्चास्ति । वेण्या वेणीहेतुना संहारः कौरवाणां नाशः अस्य नाटकस्य प्रतिपाद्यो विषयः । अनेन अभिधानेन वेणीसंहारनाटकस्य प्रमुख –प्रयोजनस्य सफलतायाः निदर्शनमस्ति । ‘वेण्याः चोटिकायाः, संहारः सम्वरणम् सुबन्धनं वा इत्यनया व्याख्ययाऽपि वेणीं गृहीत्वा येन दुर्योधनेन द्रौपदी आकर्षिता धर्षिता वा सकुलं तस्य संहारो यस्य नाटकस्य प्रतिपाद्यो विषयः, तद् वेणिसंहार-नाटकम्, अनया व्याख्ययाऽपि नाटकस्य नामकरणम् तदुद्देश्य-पूर्तिं करोति । नाटकेऽस्मिन् महाभारतस्य कथा मौलिकतया नूटनेन परिवेशेन सह प्रदर्शिता । कुटिलहृदयो दुर्योधनः पाण्डवानां साधुमनोवृत्तेःअ अनुचितमाभेन पाण्डवान् द्यूतक्रिडायां पराजित्य तेषां राज्यापहरणाय चेष्टते । दुर्योधनस्यैवाज्ञया दुःशासनः राज्यसभायां द्रौपद्याः वेणीं गृहीत्वा तां धर्षति । अमानवीयं व्यवहारमिदं दृष्ट्वा द्रौपद्याः पतिर्महाबली भीमसेनः प्रतिशोधभावनया राज्यसभायामेव – ‘मथ्नामि कौरवशतं समरे………..’ । इत्यादि सकुलं दुर्योधनस्य संहाराय भीषणां प्रतिज्ञां करोति घोषयति च यद् अस्याः द्रौपद्याः दुःशासन- विमुक्ता इयं वेणी तदैव संयता भविष्यति यदा सकुलस्य दुर्योधनस्य संहारो भविष्यति, अन्यथा विमुक्तैवस्यास्यति । नाटकेऽस्मिन् एतस्यैव उद्देश्यस्य पूर्तये कविना सफलप्रयासो विहितः –

चञ्चद् भुजभ्रमितचण्डगदाभिघात-
सञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
सत्यानावनध्दघनशोणितशोणिपाणि –
रुत्तंसयिष्यति कचांस्तव देवि ! भीमः (वेणी १/२१)

भीमस्य एषा भीषणप्रतिज्ञा सर्वत्र नाटके गुञ्जिता भवति । सर्वाः नाटकस्य घटनाः भीमस्य एतत्प्रतिज्ञा- पूर्तये एव घटन्ते कौरवाणां विनाशः एव नाटकस्यान्तः । नाटकान्ते भीमसेनः सर्वान् कौरवान् विनिहत्य दुः शासन- रुधिरेण स्वहस्ताभ्यां द्रौपद्याः मुक्त –कचान संयतान् करोति वेणीं बध्नाति वा ।

इत्थं सुकविना भट्टनारायणेन स्वरचितस्य नाटकस्याभिधानं ‘वेणीसंहार – नाटकम्’ समीचीनमेव कृतम् । यद्यपि वेणीसंहारनाटकस्य कथानकं महाभारतीयकथाधारितमस्ति । तस्य प्रमुखा घटना च द्रौपद्याः उन्मुक्तायाः वेण्याः संहारः (सम्वरणम्) एवास्ति । अतः अत्र सामाजिकीदशाचित्रणस्य सम्भावना क्षीणतरा वर्तते । महाकविर्भट्टनारायणः तथापि अत्र सामाजिकीं स्थितिं प्रतिबिम्बितामकरोत् । नाटकस्य द्वितीयाङ्के चित्रितेन भानुमत्याः स्वप्नदर्शनेन ज्ञायते यत् तदा समाजे जनाः शुभाशुभशकुनानां चिन्तनं कुर्वन्ति स्म । नार्यः देवाराधन- व्रतोपवासादिविविधक्रियाभिः स्वपत्युरमङ्गक- नाशाय प्रयतन्ते स्म । अङ्गस्पन्दनादिभिः जनाः शुभशुभशकुन-कल्पनां कृत्वा शान्त्यर्थं च कृत-प्रयत्नाः भवन्ति स्म । दुर्योधन –पत्नी भानुमती झंझावातेन विनष्टां स्वपत्युः रथ –पताकामव –लोक्य अपशकुनस्यानुभवमकरोत् । समाजे ब्राह्मणः समादृतः आसीत् । जनाः प्रायः सत्यवादिनः आसन्, किन्तु स्वार्थाय तेऽसत्यभाषणादपि भीताः न भवन्ति स्म । यथा –

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा ।
स्वैरं शेषे ‘गज’ इति किल व्याहृतं सत्यबाधा ॥

अनेन च्छ्लेनैव द्रोणाचार्यवधोऽभवत् । समाजे वर्णानामुच्चनीचभावना वलवती आसीत् । कर्णस्य सेनापतित्वे ‘सूतेन’ सह युध्दमकृत्वा नृपेणैव सह युध्दं करणीयम् इति अर्जुनस्य विचारोऽयमेतदेव पुष्णाति । समाजे गुरुजनानां समादर आसीत् । जलतर्पणाद्यशौचस्यापि प्रथा तदाऽऽसीत् । ब्रह्महत्यां महत्पापं जनाः मन्यन्ते स्म ।लोके सतीप्रथाऽपि प्रचलिताऽऽसीत् यथा षष्ठाङ्के छलेन राक्षसद्वारा भीमवधासत्यसूचनां प्राप्य द्रौपदी कथयति – “ आर्य ! कुरु दारु- संचयम् । त्वरते मे हृदयं नाथं प्रेक्षितुम्, प्रज्वाल्यतां चिता” । इति । इथं वेणी –संहाररचनाकाले जनाः चौराः धूर्त्ताः मद्यपाश्च भवन्ति स्म । समाजे द्यूत –क्रीडा –प्रचलनमासीत् । तात्कालिका विश्रॄङ्खलिता राजनीतिः समाजस्य विघटनत्वं सिध्दयति । तदा समाजे धार्मिकी आस्था, दास-प्रथा वर्णव्यवस्था च उग्रतरा आसीत्, व्यापारस्य संगीत-वाद्य –नाट्य- चित्रकलादिकानां प्रचारः शासने च शैथिल्यमासीत् । समाजे जनाः सुशिक्षिताः आसन् । धनुर्वेदस्य शिक्षायाः तदा प्रचार, सर्ववर्णेषु आसीत् । शिष्याः गुरुकुलमेत्य शिक्षायाः शस्त्रशास्त्राणाञ्चाभ्यासं कुर्वन्ति स्म ।


नाट्यशास्त्रियनियमानुसारं श्रृंगारः वीरो रसः प्रामुख्यं भजते । श्रृंगारकरुणादयाः अंगाः सन्ति । नाटकस्य प्रारम्भः एव वीररसाद् भवति, आः पाप दुरात्मन् ! वृथामंगलजयपाठकशैलूषा पसद ! द्वितीयाङ्के च कञ्चुकी विनयन्धरो दुर्योधनं बालोद्यानस्य सुषमां वर्णयति –प्रालेयमिश्रमकरन्दकरालकोशैरित्यादिभिः । दुर्योधनोऽपि समन्तादुषसो रमणीयतां विलोक्य –“मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफः” इति कथयति । अत्रैव राज्ञी भानुमत्यपि समागच्छति । यदा भानुमती दृष्टस्य दुः स्वप्नस्य अमङ्गलवारणाय भगवतः सहस्ररश्मेः सपर्यार्थमर्ध्य्ंजलादिक मायोजयति तदा नृपो दुर्योधनः आगत्य परिजनानुत्सार्य अर्ध्यपुष्पाणि स्वयमुपनयति, स्पर्शसुखमभिनीय च कुसुमानि भुमौ पातयति । सः कथयति –

वक्त्रेन्दुं ते नियममुषितालक्तकाङ्गाधरं वा पातुं वाञ्चामि

इमे सर्वे श्रृङ्गररसस्याभिव्यक्तिं सुस्पष्टं कुर्वन्ति । तृतीयाङ्के च राक्षस्याः राक्षसस्य च रक्तपानं, रुधिरमज्जासञ्जयेन च बीभत्सरसस्य सुस्पष्टं चित्रणं दरीदृश्यते – ‘प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नव –रुधिरमग्रमांसं चानीतं तत् पिबैतत्” इति । अपि च – “ हतमानुषशोणितनदीदर्शन प्रनष्टबुभुक्षापिपासस्येवेह स्वर्गलोको भवैष्यतीति”।

नाटकस्य चतुर्थाङ्के वीररसस्य सहायकः करुणरसः । सुन्दरकः दुर्योधनमन्विष्यन् तत्पार्श्वं गत्वा युध्दे सुतस्य वृषसेनस्य वध-समाचारं दिर्योधनाय श्रावयति तदाकर्ण्य दुर्योधनः विलपति । अवसरेऽस्मिन् गान्धारी घृतराष्ट्रश्चापि तत्रागच्छतः, दुः शासनादिकानां वध –वृत्तान्तेन तावपि विलपतः । षष्ठाङ्के छदममुनिः दुर्योधनसहायकः चार्वाकः युधिष्ठिरमेत्य दुर्योधनेन सह युध्दे भीमस्यार्जुनस्य च मिथ्यावधसमाचारं निवेदयति । श्रुत्वेतत् सर्वे विलपन्ति । करुणारसस्य सुन्दरं दृश्यं कविरत्र् प्रकटयति । इत्थं नाटकस्य वीररसस्य इमे श्रॄंङ्गार –बीमत्सकरुण- रसाः अङ्गरसाः सन्ति, वीररसं ते सर्वे समुत्तेजयन्ति ।

पात्रसमीक्षा सम्पादयतु

वेणीसंहारस्य पात्राणीतिहासप्रसिध्दचरितानि । तेषां केवलं रञ्जनमत्र कृतम् । भीमसेनस्य चरितं व्यापकं प्रभावपूर्णञ्च । दृढप्रतिज्ञो भीमो निजां प्रतिज्ञां पूरयति, द्रौपद्यपमानदीपस्तदीयहृदये यावत्प्रतिज्ञापूर्त्तस्तावदतन्द्रभावेन प्रज्ववति । भीमः स्वबलावलिप्त इति तत्कृतविकत्थनाभिः प्रतीयते । दुर्योधनोऽत्रात्मविश्वासिभावेन चित्रितः। युध्दे प्रवृत्ते तस्य भानुमत्या सह शृङ्गारप्रथनमीशदुद्वेजकम् । जाते कुलक्षये केवलमात्मनो रक्षार्थमसौ पाण्डवैः सह सन्धिं नानुमन्यत इति तस्य वीरत्वप्रशस्तिः । अश्वत्थामाऽत्र पुत्रकृत्ये सावधानः । पितरि निहते कुपितोऽकेशवं जगद्विधातुमिच्छति कर्णस्यात्मश्लाघयाऽसौ नितान्तं क्षुभ्यति । अप्राप्तविकासं तस्य शौर्यं तस्मिन्नेव लीयते ।

शैली सम्पादयतु

यद्यपि भट्टानारायणेनात्र वेणीसंहारे पात्राणां चित्रणं साधु कृतम्, पात्राणां व्यक्तित्वं च विशदीकृतम् परन्तु कथायां कापि मन्दतेव प्रतिभासमाना नाटकोपयुक्तं क्रियावेगं विधटयति । वीररसस्यौजसश्चात्र प्रवाहः । भवभूतिरिव भट्टनारायणोऽपि संस्कृते प्राकृतेऽपि च दीर्घसमासं वाक्यजातं प्रायुङ्क्त । भट्टनारायणो निशावर्णनं साधु कृतवानिति निशानारायण आख्यायते । काव्यदृष्ट्या भट्टनारायणस्य कृतिरियं वीररसं समेधयितुं प्रयतते । भट्टानारायणो वैष्णवः कविरिति स नान्द्यामेव राधाकृष्णयोः केलिं वर्णयति । स हि कृष्णचन्द्रस्य भगवद्भावं महत्त्वं चैभिः शब्दैः प्रकाशयति –

आत्मारामा विहितमतयो निर्विकल्पे समाधौ
सत्त्वोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममं वेत्तु देवं पुराणम् ॥

वर्ण्ये वीरभावे कीदृशी शब्दावली प्रयुज्यते इत्यस्मिन्नयं सिध्दहस्तः ।

चञ्चद्भुजभ्रमितचण्डगदाभिधातनिष्पीडितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनध्दघनशोणितशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥

नाटकदृष्ट्या नितान्तनिर्दोषं काव्यदृष्ट्याऽपि परमरमणीयमिदं नाटकम्, अत एव चैकेनैवानेन ग्रन्थेन भट्टानारायणोऽमरो जातः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वेणीसंहारम्&oldid=461672" इत्यस्माद् प्रतिप्राप्तम्