वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद्
वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद् ( ( शृणु) /ˈvɛɪdʒŋnɪkɪ ɔːdjoʊɡɪkɪ xə ənʊsədɑːnəpərɪʃhəd/) (हिन्दी: वैज्ञानिक तथा औद्यौगिक अनुसन्धान परिषद्, आङ्ग्ल: Council of Scientific and Industrial Research) (सी. एस्. आई. आर्.) भारतगणराज्यस्य प्रमुखा वैज्ञानिकसंस्था अस्ति । सा स्वायत्ता (Autonomous) परिषद् अस्ति [१] । भारतगणराज्यस्य प्रधानमन्त्री तस्याः परिषदः अध्यक्षः भवति । परिषदः नियोजनं स्वायत्तशासिनिकायेन (स्वतन्त्र-प्रबन्ध-दलेन) भवति । परिषद्-सर्वकारयोः मध्ये योग्यसेतुत्वेन कार्यं कर्तुं वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः महानिदेशकः विज्ञान-प्रौद्योगिकी-मन्त्रालये सचिवत्वेन नियुक्तः भवति[२] । भारतगणराज्यस्य नवदेहलीमहानगरस्य रफी-मार्गे स्थिते अनुसन्धानभवने वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः मुख्यकार्यालयः अस्ति [२]। मुख्यालये योजनाप्रभागः, प्रौद्योगिकीप्रभागः, अन्ताराष्ट्रियवैज्ञानिकसहयोगप्रभागः इत्यादयः प्रभागाः सन्ति ।
वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद् Council of Scientific and Industrial Research, India | |
---|---|
भारतगणराज्यस्य प्रधानमन्त्री परिषदः अध्यक्षः भवति । | |
स्थापना | २६/०९/१९४२ |
अधिपतिः | भारतगणराज्यस्य प्रधानमन्त्री |
अध्यक्षः | डॉ. एम् ओ गर्ग |
कर्मचारिणः | परिषदि २५,००० कार्यकर्तारः सन्ति । तेषु ६०५० (अनुमानाधारितम्) कार्यकर्तारः वैज्ञानिकाः, अभियन्तारः (Engineers) सन्ति । |
अर्थसङ्कल्पः | भारतसर्वकारः प्रतिवर्षं परिषदे ५०० कोटिरूप्यकाणि यच्छति । |
क्षेत्रम् |
अनुसन्धानभवनम्, रफिमार्गः नवदेहली-११००१. |
सङ्केतः | dgcsir@csir.res.in, dg@csir.res.in |
जालस्थानम् | www.csir.res.in |
भारतीयविज्ञानस्य जीवनम् |
भारतीयसमाजाय कार्यं कर्तुं प्रयत्नशीला सा परिषद् समाजहिताय अन्यानि कार्याणि अपि करोति । परिषद् प्रतिवर्षं प्रभावशालिवैज्ञानिकेभ्यः शान्तिस्वरूप भटनागर-पुरस्कारं प्रददाति[२] । परिषद् विश्वविद्यालय-संशोधकेन्द्राणां संशोधकेभ्यः छात्रेभ्यः शिष्यवृत्तेः प्रबन्धं करोति । परिषद् शोधछात्रेभ्यः साहाय्यम् अपि प्रयच्छति । साहाय्यम् इत्यस्य कृते अखिलभारतीयपरीक्षायाः आयोजनम् अपि भवति[२] ।
भारतस्य चत्वारिंशत् राष्ट्रियप्रयोगशालाः, द्वादश सहकारी-औद्यौगिकसंस्थाः च तस्यां परिषदि अन्तिर्भवन्ति । वैज्ञानिकक्षेत्रे देशस्य सम्माननं वर्धयितुम् एताः संस्थाः अविरतं कार्यं कुर्वन्त्यः सन्ति । तासां मुख्यभूमिकया एव भारतदेशस्य वैज्ञानिकक्षेत्रे विकासः जायमानः अस्ति । राष्ट्रियप्रयोगशालाः भारतीयविद्यार्थिभ्यः शोधकार्यार्थं सुविधां यच्छन्ति । राष्ट्रियप्रयोगशालासु भारतीयविद्यार्थिनः शोधकार्ये स्वप्रतिभायाः, ज्ञानस्य च उपयोगं कर्तुम् उचितम् अवसरं प्राप्नुवन्ति । तेन माध्यमेन भारतस्य आर्थिकविकासः अपि वेगवान् भवति[३] । वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः ज्ञानं वैज्ञानिकक्षेत्रे आसक्तेभ्यः जनेभ्यः अत्यावश्यकम् अस्ति । वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः (सी. एस्. आई. आर्.) मुख्यकार्यालयः देहलीराज्यस्य नवदेहली-महानगरे अस्ति ।
राष्ट्रियप्रयोगशालायाः विशेषम्
सम्पादयतुराष्ट्रियप्रयोगशालासु विज्ञानस्य विभिन्नेभ्यः क्षेत्रेभ्यः संशोधनं कर्तृभ्यः अनेकाः सुविधाः सन्ति । तेन भारतस्य युवधनं देशात् बहिः अगत्वा स्वदेशे स्थित्वापि स्वदेशस्य कृते संशोधनं कर्तुं प्रभवति । एताः प्रयोगशालाः भारतस्य महत्वपूर्णाः संस्थाः सन्ति । भौतिकविज्ञानम्, इन्धनप्रौद्यागिकी, औषधिविज्ञानं, चर्मोद्योगः, सामुद्रिकसरायणं, विद्युतरसायनं, वैज्ञानिकोपकरणं, भूमिविज्ञानम् इत्यादिषु क्षेत्रेषु राष्ट्रियप्रयोगशालाः संशोधनं कर्तुं सुविधां यच्छन्ति[४] ।
राष्ट्रियप्रयोगशालानाम् उद्देश्यम्
सम्पादयतुभारतदेशस्य गौरवम् आदिकालात् देदीप्यमानम् अस्ति । आधुनके युगे भारतस्य पुरातनं गौरवं रक्षितं भवेत् इति राष्ट्रियप्रयोगशालानां मुख्यलक्ष्यम् अस्ति[३] । केवलं देशस्य सैद्धान्तिकानुसन्धानस्य न अपि तु प्रायोगिकानुसन्धानस्य दायित्वम् अपि राष्ट्रियप्रयोगशालानाम् अस्ति । भारतीयोद्योगानां समस्यानां निराकरणम् अपि प्रयोगशालानाम् उद्देश्यम् अस्ति[४] । सुगम-स्वल्पव्ययविधिम् अन्विष्य देशस्य उत्पादनक्षमतायाः वृद्धिः अपि राष्ट्रिप्रयोगशालानाम् उद्देश्यं भवति । देशस्य विभिनेषु स्थानेषु यत् खनिजद्रव्यम् अस्ति, तस्य अन्वेषणस्य दायित्वम् अपि राष्ट्रियप्रयोगशालानाम् एव भवति[४] ।
इतिहासः
सम्पादयतुप्राचीनकालात् एव विज्ञानक्षेत्रे, प्रौद्योगिकीक्षेत्रे भारतीयसमाज-भारतीयसंस्कृत्योः महत्पूर्णयोगदानम् अस्ति । चतुस्सहस्रवर्षेभ्यः प्राक्तना हडप्पा-संस्कृतिः प्रमुखतः ताम्र-काँस्य-धातुक्षेत्रेषु, कृषिक्षेत्रे च उत्तमं कार्यम् अकरोत् । हरप्पा-संस्कृतेः स्थितिः धातु-कृषिक्षेत्रयोः आधारेणैव दृढा आसीत् । मगधराज्यस्य प्रथमसाम्राज्यस्य उपलब्धिः तस्य राज्यस्य लोहधातोः अद्वितीयसाधनानाम् उपरि आधारिता आसीत्[३] ।
भारतदेशे चिकित्सा-विज्ञानस्य चरकसंहिता, सुश्रुतसंहिता इत्यादीनां महतां ग्रन्थानां रचना अभवत् । तस्मिन् काले वैद्याः शव-परीक्षां कुर्वन्ति स्म । प्राचीनवैद्याः शल्यचिकित्साम् (Operation) अपि कुर्वन्ति स्म[३] ।
आर्यभटः (ई. ४९९), ब्रह्मगुप्तः (ई. ६२८) इत्यादिसदृशाः महान्तः गणितज्ञाः, खगोलविदः च भारते अभवन् । अद्य समग्रे संसारे प्रचलिता शून्य-आधारित-दाशमिक-स्थानमान-पद्धतिः (Decimal) भारतीयसंशोधनस्य एव परिणामः अस्ति[३] । देहली-महानगरे स्थितः षोडशशतवर्षेभ्यः पुरातनः लोहस्तम्भः भारतीयविज्ञानस्य उत्तमम् उदाहरणम् अस्ति । चन्द्रगुप्त-विक्रमादित्ययोः शासने ई. ३७५-४१३ मध्ये तस्य स्तम्भस्य निर्माणं जातम् आसीत् । कृषिकर्मणः साधनानि, वास्तु-शिल्पकलयोः व्यवसायः इत्यादिषु क्षेत्रेषु अपि भारतस्य स्थानम् अद्वितीयम् आसीत्[३] ।
भारतस्य गुरुकुलेषु, आश्रमेषु च स्थित्वा विद्यार्थिनः योग्यानाम् आचार्याणां सान्निध्ये विज्ञानस्य ज्ञानम् अर्जयन्ति स्म[५] । प्राच्यग्रन्थेषु उल्लेखः प्राप्यते यत्, तक्षशिलां परितः विशेषज्ञानाम् आचार्याणाम् अनेकाः आश्रमाः आसन् । तेषु आश्रमेषु वेद-वेदाङ्गयोः, आयुर्वेदस्य, खगोलशास्त्रस्य, रसायणशास्त्रस्य, शिल्पशास्त्रस्य च शिक्षणकार्यं भवति स्म[५] । ततः भारतदेशे नालन्दा, विक्रमशिला इत्यादीनां विद्यापीठानां स्थापना अभवत् । तेषु विद्यालयेषु अपि भारतीयज्ञानस्य अविरतगङ्गा वहति स्म । उक्तेषु सर्वेषु विद्यालयेषु, विद्यापीठेषु न केवलं भारतीयछात्राः, अपि तु वैदिशिकाः छात्राः अपि ज्ञानं प्राप्नुवन्ति स्म । विद्यार्थिनः कुशलशिल्पकलाविदां सान्निध्ये स्थित्वा शिल्पकलायाः ज्ञानं प्राप्नुवन्ति स्म[५] ।
भारतस्य वैपुल्यं विश्वप्रसिद्धम् आसीत् । अतः वैदेशिकेभ्यः देशेभ्यः भारतस्य व्यापर-व्यवसाययोः सम्बन्धाः अपि आसन् । अन्यदेशैः सह भारतस्य व्यापारसम्बद्धत्वात् विज्ञानस्य, प्रौद्योगिक्याः च आदानप्रदानं सामान्यम् आसीत्[५] । ततः भारते शकानां, कुषाणानां, तुर्किजनानां, मुगलजनानां च आगमने सति भारतीयाः नवीनविज्ञानस्य ज्ञानं प्राप्तवन्तः । परन्तु ते भारतस्य अतिक्रमणं कृतवन्तः, अतः भारतीयसंस्कृतौ कुठाराघातः अभवत्[५] । तदारभ्य भारतीयसंस्कृतेः ज्ञान-विज्ञानयोः क्षेत्रेषु संशोधनं मन्दम् अभवत् । ततः आक्रमणकारिणाम् आङ्ग्लानां शासनकाले तु भारतीयशिक्षणपद्धतौ एव कुठाराघातः अभवत् । ततः भारतीयसंस्कृतेः स्थाने पाश्चात्यसंस्कृतेः विस्तारः अभवत् । कालान्तरे भारतदेशे विभिन्नाः विश्वविद्यालयाः, महाविद्यालयाः अभवन्, परन्तु ज्ञानस्य गङ्गायाः ह्रासः अभवत्[५] ।
भारते एकोनविंशतिशतके पुनः विज्ञानस्य, प्रौद्योगिक्याः च क्षेत्रे पुनरुत्थानस्य आरम्भः अभवत् । १७८४ तमे वर्षे संस्कृतेः पुरातत्वस्य च क्षेत्रे संशोधनार्थं कोलकाता-महानगरे एशियाटिक् सोसायटी इत्यस्याः संस्थायाः स्थापना अभवत् । ततः १८७५ भारतीय-वातावरण-विज्ञान-विभागस्य, १८९० तमे वर्षे भारतीय-वनस्पति-विज्ञान-सर्वेक्षण-संस्थायाः, १९१६ तमे वर्षे भारतीय-प्राणिविज्ञान-सर्वेक्षण-संस्थायाः च स्थापना अभवत् । उक्तानां सर्वासां संस्थानां स्थापना आङ्ग्लशासनकाले अभवत्[५] । १८७६ तमे वर्षे डॉ. महेन्द्रलाल इत्याख्येन महानुभावेन इण्डयन् एसोसिएशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स् इत्यस्याः संस्थायाः स्थापना कृता आसीत् । परन्तु तस्याः संस्थायाः तस्य वैज्ञानिकस्य व्यक्तिगतं साहसम् आसीत् । तस्यां संस्थायां संशोधनकार्यं कुर्वन् चन्द्रशेखर वेङ्कटरामन् १९३० तमे वर्षे भौतिकीक्षेत्रे नॉबल्-पुरस्कारं प्राप्तवान्[५] ।
भारते विज्ञानस्य पुनरुद्धारेण सह एव भारतवर्षेण महान्तः वैज्ञानिकाः जनिताः । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, श्रीनिवासन् रामानुजन्, चन्द्रशेखर वेङ्कटेशरामन्, मेघनाद साहा, सत्येन्द्रनाथ बसु इत्यादीनां महानुभावानां मुख्यस्मरणं भवति[५] । एतेषु अनेके स्वस्य स्वतन्त्रानुसन्धानकेन्द्रस्य अपि स्थापनाम् अकुरवन्[५] । यथा जगदीशचन्द्र बसु कोलकाता-महानगरे बोस इन्स्टिट्यूट् इत्यस्याः संस्थायाः स्थापनाम् अकरोत् । चन्द्रशेखर वेङ्कटरामन् इत्यनेन अपि रामन रिसर्च् इन्टिट्यूट् इत्यस्याः संस्थायाः स्थापना कृता आसीत् । १८९२ तमे वर्षे बङ्गाल केमिकल्स् एण्ड् फार्मास्यूटिक्स् इत्यस्याः संस्थायाः स्थापनां प्रफुल्लचन्द्रः अकरोत् ।
भारतीयोद्योगविकासे आङ्ग्लसर्वकारस्य रुचिः नासीत्[४] । परन्तु १९३९ तमे वर्षे यदा द्वितीयविश्वयुद्धम् अभवत्, तदा ते विवशाः सन्तः भारतीयोद्योगविकासे रुचिं स्वीकृतवन्तः । यतो हि विश्वयुद्धानन्तरं वैदेशिकवस्तूनां भारते आयातः अतिन्यूनः अभवत् । युद्धसामग्रीणाम् आवश्यकतायां सत्यां विवशाः आङ्ग्लाः १९३९ तमे वर्षे वैज्ञानिक-औद्यौगिक-अनुसन्धानस्य एकस्याः समितेः रचनाम् अकुर्वन्[४] । आङ्ग्लाः डॉ. शान्तिस्वपरूप भटनागर इत्येनं समितेः अध्यक्षत्वेन अघोषयन् । १९४२ तमे वर्षे यदा विश्वयुद्धस्य प्रभावः एशिया-द्वीपे अपि अभवत्, तदा आङ्ग्लाः समितेः नाम परिवर्त्य परिषदः रचनाम् अकुर्वन् । वैज्ञानिकी, औद्योगिकी च अनुसन्धानपरिषद् इति तस्याः परिषदः नामकरणम् अभवत्[४] ।
१९४२ तमे वर्षे यदा परिषदः नामपरिवर्तितं, तदा तस्य कार्यक्षेत्रस्य व्यापः अपि निर्धारतः आङ्ग्लसर्वकारेण[४] । ततः रसायण-भौतिकी-धातुकर्म-इन्धन-काच-चर्म-औषधीत्यादिषु क्षेत्रेषु संशोधनकार्यम् आरब्धम् । परन्तु कार्यक्षेत्रे निर्धारिते सत्यपि तेषु क्षेत्रेषु किमपि फलवत् कार्यं नाभवत् । १९४७ तमे वर्षे यदा भारतगणराज्यं स्वतन्त्रम् अभवत्, तदा उक्तेषु क्षेत्रेषु दृढरीत्या कार्यम् आरब्धम् । भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री जवाहरलाल नेहरू व्यक्तिगतरुच्या संशोधनक्षेत्रे कार्यं वेगवत् अकारयत्[४] ।
वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदः (CSIR) प्रतीके विज्ञानरूपी ज्योतिः उद्योगरूपिणे चक्रे प्रदर्शिता अस्ति । तस्य प्रतीकस्य भावः अस्ति यत्, विज्ञानस्य दीपप्रभा भारतगणराज्यस्य उद्योगजगति स्थितम् अन्धकारं दूरीकरिष्यति इति । प्रारम्भिके काले यदा भटनागर-महाभागः परिषदः प्रतीकविषये चिन्तयन् आसीत्, तदा आङ्ग्लैः प्रभावितः सः चक्रे लैम्प् इत्यस्य परिकल्पनाम् अकरोत् । परन्तु परिकल्पनायाः प्रायोगिकक्रियान्वयं कुर्वन् कलाकारः शान्तिस्वरूपस्य कथनानुसारं कार्यं कर्तुं न प्रभवति स्म । सः चित्रणे अतीव कष्टम् अन्वभवत् । ततः अन्ततो गत्वा सः कलाकारः शान्तिस्वरूपम् अकथयत्, “महाशय ! सत्यस्य उत ज्ञानस्य दीपप्रभा ‘स्पिरिट् लैम्प’-द्वारा प्रदर्शयितुं न शक्यते । तस्याः दीपप्रभायाः स्वरूपं तु अस्माकं पारम्परिकेण भारतीयदीपेन एव प्रकटीभवति” इति ।
परिषदः वर्तमानस्थितिः
सम्पादयतुभारतगणराज्यस्य स्वतन्त्रतानन्तरमेव परिषदः विस्तारः अभवत् । स्वतन्त्रतानन्तरं आभारतम् एकादशप्रयोगशालानां स्थापना अभवत् । तासु रसायनप्रयोगशाला (पुणे), भौतिकप्रयोगशाला (नवदेहली), धातुकर्मप्रयोगशाला (जमशेदपुर), खाद्यसामग्रीप्रयोगशाला (मैसूर), काचप्रयोगशाला (कोलकाता) इत्यादयः प्रयोगशालाः १९५० तमे वर्षे एव आरभन्त । १९५५ तमे वर्षे डॉ. शान्तिस्वरूपस्य देहावसानम् अभवत्[६] । तस्य कर्मठतायाः, पण्डितस्य सुविधादानस्य च परिणामस्वरूपतः प्रारम्भिके काले भारतवर्षेण विज्ञानक्षेत्रे असामान्यानि कार्याणि कृतानि । अतः डॉ. रामन् तयोः उपलब्धिं ‘नेहरू-भटनागर-प्रभावः’ इत्यनेन सम्बोधयति[६] ।
वर्तमानकाले (२०१४) वैज्ञानिक तथा औद्यौगिक अनुसन्धानपरिषदा सञ्चालिताः प्रयोगशालाः/संस्थाः चत्वारिंशत् (४०) सन्ति । परिषदः एकाशीतिः (८१) क्षेत्रीयकेन्द्राणि/क्षेत्रीयप्रयोगशालाः सन्ति । परिषदि २५,००० कार्यकर्तारः सन्ति । तेषु ६०५० (अनुमानाधारितम्) कार्यकर्तारः वैज्ञानिकाः, अभियन्तारः (Engineers) सन्ति । भारतसर्वकारः प्रतिवर्षं परिषदे ५०० कोटिरूप्यकाणि यच्छति । तद्विहाय औद्यौगिकक्षेत्रे सम्बन्धस्य कारणेन परिषद् अतिरिक्तं धनम् अर्जयति[६] ।
ग्रन्थालयः
सम्पादयतु१९६४ तमे वर्षे नवदेहली-महानगरे स्थिते मुख्यकार्यालये आधुनकिविषयसम्बद्धानां पुस्तकानां संरक्षणार्थं ग्रन्थालयस्य स्थापना अभवत् । प्रारम्भके काले सः ग्रन्थालयः नोलेज् सेन्टर् इति प्रसिद्धम् आसीत्, परन्तु २००८ तमे वर्षे तस्य नाम नोलेज् रिसोर्स् सेन्टर् (Knowledge Resource Centre - KRC) अभवत् । कर्मचारिणां सूचनाप्राप्तेः स्तरे वृद्धिः एव ग्रन्थालस्य मुख्योद्देशः अस्ति । स्वस्य उत्कृष्टपुस्तकानां सङ्ग्रहणत्वात् के आर् सी-ग्रन्थालयः विज्ञानस्य, प्रौद्योगिक्याः, प्रबन्धस्य च आधुनिकसूचनां प्राप्तुम् अत्युत्तमस्थलत्वेन प्रसिद्धम् अस्ति । संशोधनक्षेत्रस्य छात्राः, संशोधकाश्च सदस्यतां प्राप्य पुस्तकानि स्वीकर्तुं शक्नुवन्ति । के आर् सी-ग्रन्थालयः अवकाशस्य दिनेषु, शनिवासरे, रविवासरे च पिधीतं भवति । सोमवासरात् शुक्रवासरपर्यन्तं कार्यालयस्य समयः प्रातः ९:०० तः सायं ५:३० पर्यन्तं भवति[७] ।
परिषदः प्रयोगशालानाम् आवलिः
सम्पादयतुअत्र मुख्यप्रयोगशालानाम् एव नामोल्लेखः कृतः वर्तते ।
१. केन्द्रीयम् औषधि-अनुसन्धान-संस्थानम् (लखनऊ)
२. राष्ट्रिय-रासायणिक-प्रयोगशाला (पुणे)
३. केन्द्रीय-चर्म-अनुसन्धान-संस्थानम् (चेन्नैई)
४. केन्द्रीय-खाद्य-प्रौद्योगिकी-अनुसन्धान-संस्थानम् (मैसूर)
५. केन्द्रीय-काच-‘सिरेमिक’-अनुसन्धान-संस्थानम् (मैसूर)
६. राष्ट्रिय-पर्यावरण-अभियान्त्रिकी-अनुसन्धान-संस्थानम् (नागपुर)
७. केन्द्रीय-लवण-समुद्रिरसायण-अनुसन्धान-संस्थानम् (भावनगर)
८. राष्ट्रिय-समुद्र-विज्ञान-संस्थानम् (गोवा)
९. राष्ट्रिय-वान्तरिक्ष-प्रयोगशाला-१ (बैङ्गळुरु)
१०. राष्ट्रिय-वान्तरिक्ष-प्रयोगशाला-२ (बैङ्गळुरु)
११. भारतीय सुपरकम्प्यूटर-सम्बद्धं संशोधनम्
१२. केन्द्रीय-इन्धन-अनुसन्धान-संस्थानम् (धनबाद)
१३. क्षेत्रीय-अनुसन्धान-प्रयोगशाला (भुवनेश्वरः)
१४. कोशिकीय एवम् आणविकजीव-विज्ञानकेन्द्रम् (हैदराबाद)
१५. भू-भौतिकीय-अनुसन्धान-संस्थानम् (हैदराबाद)
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुउद्धरणम्
सम्पादयतु- ↑ GUNAKAR MULEY (2012). हमारी प्रमुख राष्ट्रीय प्रयोगशालाएँ. राजकमल प्रकाशन. p. 13. ISBN 9788126722631.
- ↑ २.० २.१ २.२ २.३ प्रयोगशालाएँ 2012, पृष्ठम् 17
- ↑ ३.० ३.१ ३.२ ३.३ ३.४ ३.५ प्रयोगशालाएँ 2012, पृष्ठम् 13
- ↑ ४.० ४.१ ४.२ ४.३ ४.४ ४.५ ४.६ ४.७ प्रयोगशालाएँ 2012, पृष्ठम् 15
- ↑ ५.०० ५.०१ ५.०२ ५.०३ ५.०४ ५.०५ ५.०६ ५.०७ ५.०८ ५.०९ प्रयोगशालाएँ 2012, पृष्ठम् 14
- ↑ ६.० ६.१ ६.२ ६.३ प्रयोगशालाएँ 2012, पृष्ठम् 16
- ↑ "ग्रन्थालयः". CSIR. CSIR. आह्रियत ०७/०२/२०१५.