वैतालमन्दिरम् ओडिशाराज्यस्य भुवनेश्वरे स्थितम् ९ शताब्द्याः कलिङ्गस्थापत्यकलायां खाखराशैल्यां निर्मितं चामुण्डादेव्याः मन्दिरम् अस्ति । यतो हि मन्दिरस्य शिखरे त्रीणि शिरांसि सन्ति, तस्मात् कारणतः जनाः त्रिशिरामन्दिरम् इति कथ्ययन्ति । जनश्रुत्यनुसारं एतानि त्रीणि मुण्डानि देवीचामुण्डायाः त्रिशक्तयः इति कथ्यन्ते । यथा - महासरस्वती, महालक्ष्मीः, महाकाली इति तिसृणां उद्देशेन समर्पिताः सन्ति ।

स्थापत्यकला

सम्पादयतु

वैतालमन्दिरस्य मुख्यमन्दिरं अर्धनलाकारम् यस्य उपरिभागः दक्षिणभारतस्य गोपुरमन्दिरसदृशं खाखराशैल्यां निर्मितम् अस्ति । अस्य शिखरस्य दक्षिणभारतस्य मन्दिरैः सह साम्यं दृश्यते । एषा भित्तिः लम्बा, विस्तृता चतुष्कोणा च अस्ति ।

वैतालमन्दिरमस्य बाह्यभित्तिषु शिवस्य, शक्तिरूपेण पार्वत्याः, नानामृगयायात्राः , वन्यगजाः, रतिक्रीडायुक्तानां दम्पतीनां मूर्तेः चित्रम् द्रष्टुम् लभ्यते ।

जगमोहनस्य उपरि तीर्थस्य अग्रभागे द्वौ चैत्यानां गवाक्षौ स्तः - अधः सूर्यस्य प्रतिमा अस्ति, या सन्ध्यासायं आलोकवितरणं करोति इति प्रतीतं भवति पुनः अग्रे च सप्त अश्वानां आरोहणं कुर्वतः अरुणस्य मूर्तिः वर्तते ।

चैत्यस्य उपरि स्तितं पिण्डे दशभुजनटराजस्य अथवा नाट्यमुद्रायां शिवस्य प्रतिमा अस्ति । समतलछत्रयुक्तस्य जगमोहनस्य पार्श्वभागे धम्मचकपवतन( धम्म -चक्र-प्रवर्तनम्) मुद्रां पृथिवीस्पर्शमुद्रां च धारयत् बुद्धप्रतिमाद्वयं भवति

अधीष्ठात्रीदेवी

सम्पादयतु

अत्र अधीष्ठात्रीदेवी चामुण्डा वा चर्चिका शृगालस्य उलूकस्य च मध्ये शवस्य उपरि शिरः-माला-हारं च धारयन्ती उपविष्टा मूर्तिः चित्रिता अस्ति । सा क्रमेण सर्पं ,धनुषं, कवचं,खड्गं ,त्रीशूलम् च असुरस्य कण्ठं भेदनशक्तिं च धारयति। अस्य मन्दिरस्य बाह्यभागे चैत्यस्य शिल्पं, शिवपार्वयोः वास्तुकला च अस्ति । देवी चामुण्डा मन्दिरस्य उभयपार्श्वे अनेकाः भैरवाः, योगिन्यः च वेष्टितः । एतत् मन्दिरस्य निम्नभगे वर्तते ।

पूर्वभागे देव्या सह मिथुनभैरवस्य विग्रहः अस्ति ।

उत्तरभित्तिषु उपशमरूपेण एकस्मिन् हस्ते असुरस्य विच्छिन्नशिरः अपरस्मिन् हस्ते च रक्तपूर्णं ललाटं धारयन्त्याः करालिन्याः मूर्तिः अस्ति । अन्यस्य त्रिपादशिखरस्य कटोरे द्वे शिरसी स्तः । यत् देवीं निवेद्यते ।दक्षिणपार्श्वे स्थितः शृगालः उपरि पश्यति , वामे च योगिनी ध्यानमुद्रया देवीम् आराधयति ।

अस्य तीर्थस्य तान्त्रिकपूजायाः प्रमाणं तस्य जगमोहनस्थ वलिपीठं ,हरिकाष्ठं वा यूपस्थम्भात् ज्ञायते । प्रभातस्य सूर्यप्रकाशः तस्य गर्भगृहे पतति चेत् अपि अन्ते गमनसमये कृत्रिमप्रकाशस्य आवश्यकता भवति ।

"https://sa.wikipedia.org/w/index.php?title=वैतालमन्दिरम्&oldid=490829" इत्यस्माद् प्रतिप्राप्तम्