शाण्डिल्यः
शाण्डिल्यः प्रमुखः ऋषिः । सः शाण्डिल्यगोत्रस्य कुलपुरुषः । इदं गोत्रं प्रसिद्धेषु अष्टसु गोत्रेषु अन्यतमम् । संस्कृतभाषायां शाण् (पूर्णम्) डिलम् (चन्द्रः) इति पदयोः योजनेन शाण्डिल्यः इति पदस्य निष्पत्तिः भवति । एवं शाण्डिल्यः चन्द्रस्य ऋषिः इति ज्ञायते ।
देवलस्य पुत्रः कश्यपस्य पौत्रः शाण्डिल्यः शुक्लयजुर्वेदस्य शतपथब्राह्मणेन (१०.६.३.१) सह सम्बद्धः । अपि च सामवेदस्य कौथुमशाखाया छान्दोग्योपनिषदा (३.१४.१) सह शतपथ ब्राह्मणस्य बृहदारण्यकोपनिषदा (१०.६.३) सह च सम्बद्धः ।
सः उदरशाण्डिल्यः इत्यपि प्रसिद्धः । सः अतिधन्वनः शौनकस्य शिष्यः येन ब्रह्मणः प्रसिद्धत्वम् अपरिमितत्वं पाठितम् । [१]
सः आन्वीक्षिकेषु दार्शनिकेषु च प्रमुखः ।
सः निर्णयति यत् चेतना आत्मनः सारः । अपि च यः स्थिरः (कायः, पुरुषः, जिज्ञासा) सः अनिश्चितेषु (पुरुषः, ब्रह्मन्) अनिश्चितः इति अन्तिमं स्थलं गवेषयति[२]
कौशिक:, गौतममहर्षिः, कैशोर्यः काप्यः, वत्स्यः वैजवपः, कुक्षिः च शाण्डिल्यस्य आचार्याः ।
कौण्डिन्यः, अग्निवेशः, वत्स्यः, वामकक्षायनः, वैष्टपुरेयः, भरद्वाजः च शाण्डिल्यस्य शिष्याः । शाण्डिल्योपनिषद् तेन रचिता । शाण्डिल्यभक्तिसूत्रं तेन लिखितम् इति प्रमाणीकृतमस्ति । सः हस्तिनापुरस्य परीक्षितमहाराजस्य द्वारकस्य वज्रमहाराजस्य च आध्यात्मसंबद्धान् संशयान् निवारितवान् इति भागवतपुराणे ज्ञायते ।
अध्यापनम्
सम्पादयतुशाण्डिल्यविद्या विद्यासु एकः गणः अथवा दर्शनम् । इयं शतपथोपनिषदः अग्निरहस्यम् इत्यस्य एकः भागः । अपि च एतस्याः विद्यायाः विचाराः छान्दोग्योपनिषदि वर्तन्ते । इयं परब्रह्मं भक्तिं च प्रतिपादयति ।
शाण्डिल्यविद्या
सम्पादयतुशाण्डिल्यविद्या छान्दोग्योपनिषदि (III.xiv.1-4)[३] वर्णिता वर्तते |
शाण्डिल्येन उच्यते:-
- सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
- मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ २ ॥
- एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
- सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
एषु चतुर्षु वचनेषु शाण्डिल्यः परब्रह्मणः आत्मनः विषये आधारं ददाति । स्वस्य कर्मणः अनुगुणम् अग्रिमे लोके जीवनं निर्णेष्यति ।
शाण्डिल्यगोत्रस्य उपनामानि
सम्पादयतुअस्सामवङ्गराज्ययोः भण्डोपाध्यायः, विश्वकर्मः, ठाकुरः, मैतिः, बटब्यालः, मन्नः, कुशरिः, भर्ठाकुरः, भोर्ठाकुरः इत्यादीनि शाण्डिल्यगोत्रस्य उपनामानि । पश्चिमोत्तरप्रदेशेषु त्यागिः इति उपनाम पूर्वोत्तरप्रदेशेषु तिवारिः च शाण्डिल्यगोत्रेषु अन्तर्वर्तेते |
गुर्जरराज्ये भट्टः, ठाकुरः, व्यासः, विश्वकर्मा इत्यादीनि उपनामानि शाण्डिल्यगोत्रस्य सामन्योदाहरणानि ।
मध्यप्रदेशराज्ये दीक्षितः, भरद्वाजः, दुबे, त्रिपाठिः, चतुर्वेदी इत्यादीनि उपनामानि शाण्डिल्यगोत्रस्य प्रमुखोदाहरणानि ।
महाराष्ट्रराज्ये सिधये, शिधये, पतङ्करः, बिद्वै, घोड्के, हिर्दे, कुलकर्णिः, जोशिः, खेडेकरः, पगेयः, पट्टर्किने, पण्डितः, पट्किः, शुक्लः, सोमनः इत्यादीनि उपनामानि शाण्डिल्यगोत्रस्य प्रमुखोदाहरणानि ।
बिहारराज्ये चौधरिः, विश्वकर्मः, शर्मा, ठाकुरः, तिवारिः, झा इत्यादीनि उपनामानि शाण्डिल्यगोत्रेषु अन्तर्वर्तन्ते । उत्तरप्रदेशेषु सरयूनदी समीपे तिवारिः, त्रिपाठिः, विश्वकर्मः, शर्मा, मिश्रः, चौरासियः, जोशिः, त्रिवेदी, शुक्लः, पाण्डेयः इत्यादीनि शाण्डिल्यगोत्रस्य उपनामानि ।
राजस्थानराज्ये पुष्कर्णब्राह्मणाः, पुरोहितः, द्विवेदी, दुबे, विश्वकर्मः इत्यादीनि शाण्डिल्यगोत्रेषु अन्तर्वर्तन्ते ।
आन्ध्रप्रदेशराज्ये पट्नायक् जातीनाम् उपनामानि आमति, बलिवद, लोचर्ल, वेलनाडु च वर्तन्ते । वैदिकब्राह्मणानां जातीनाम् उपनामानि भामिडिपतिः, येल्लेपेड्डि, बय्य, गरिमेल्ल भागि च, तेलगण्य, चेन्नवज्जुल, औरवेल च वर्तन्ते । नियोगीब्राह्मणानां जातीनाम् उपनामानि औडिपुडि इत्यादीनि ।
देवाङ्गे वुम्मिटि उपनाम शाण्डिल्यगोत्रेषु अन्तर्वर्तते । सैनी जातिषु रेड्डि शाण्डिल्यगोत्रेषु अन्तर्वर्तते ।
बिष्ट (दार्चुलराज्ये पश्चिमे नेपाले), काफ्ले, खड्क प्रसाई इत्यादीनि उपनामानि नेपालदेशे शाण्डिल्यगोत्रेषु अन्तर्वर्तन्ते ।|
टिप्पणी
सम्पादयतु- ↑ Benimadhab Barua. A History of Pre-Buddhistic Indian Philosophy. Motilal Banarsidass. p. 91. "sandilya vidya."
- ↑ Shyama Kumar Chattopadhyaya (2000). the Philosophy of Sankar's Advaita Vedanta. Sarup & Sons. p. 305. ISBN 9788176252225.
- ↑ Hindu Upanishads – Chandogya Upanishad. Bharatdesam.