सरदार पटेल स्मारकभवनम्
सरदार पटेल-स्मारकभवनं ( ( शृणु) /ˈsərədɑːrə pətɛlə smɑːrəkəbhəvənəm/) (गुजराती: સરદાર પટેલ સ્મારક, आङ्ग्ल: Sardar Patel Memorial) कश्चन सङ्ग्रहालयः, प्रदर्शनकेन्द्रं च । भारतस्वतन्त्रसेनानिनः, राजनेतुः लोहपुरुषस्य स्मारकत्वेन समर्पितम् । तत् स्मारकं गुजरातराज्यस्य कर्णावती-महानगरस्य शाहिबाग-विस्तारे विद्यमानम् अस्ति । तस्य स्मारकभवनस्य नाम 'मोती शाही महेल' इति । तं प्रासादं परितः बृहत् उद्यानम् अस्ति [१] । प्रासादस्य पुरः भागस्थे उद्याने लोहपुरुषस्य विशालप्रतिमा अस्ति [२] । तस्य उद्यानस्य उपयोगः प्रलेखिचलच्चित्रप्रदर्शनाय (Documentary Film) अपि भवति ।
सरदार पटेल स्मारकभवनम् | |
---|---|
સરદાર પટેલ સ્મારક | |
मोती शाह-प्रासादः | |
स्थापना | 7, 1980 |
स्थानम् | शाहीबाग, कर्णावती, गुजरातराज्यम् |
प्रकारः | स्मारकभवनम्, ऐतिहासिककेन्द्रम् |
जालस्थानम् | आधिकारिकजालस्थानम् |
इतिहासः
सम्पादयतु१६१८-१६२२ मध्ये मोगलशासकेन शाहजहाँ इत्यनेन 'मोती शाही'-प्रासादः कर्णावती-महानगरे निर्मापितः । तस्मिन् समये सः गुजरातराज्यस्य राज्यपालः आसीत् । एकोनविंशे शताब्दे सैन्यशिबिरत्वेन कर्णावती-महानगरस्य स्थापना अभवत्, तस्मिन् काले सः प्रासादः आङ्ग्लसर्वकाराधीनः अभवत् । १९८० तमस्य वर्षस्य मार्चमासस्य सप्तमे दिनाङ्के एतस्य सैन्यशिबिरत्वेन स्थापना अभवत् [३][४] । वङ्गप्रदेशस्य महान् कविः, लेखकः, चिन्तकः रवीन्द्रनाथठाकुरः १८७८ तमे वर्षे एतस्मिन् प्रासादे निवासम् अकरोत् । तस्मिन् समये सः सप्ततिवर्षीयः आसीत् । ततः भारतस्वान्तत्र्योत्तरम् एषः प्रासादः गुजरातराज्यस्य राज्यपालस्य निवासस्थानम् अर्थात् राजभवनम् आसीत् ।
स्मारके वीक्षणीयम्
सम्पादयतुसरदारस्मारकम्
सम्पादयतु१८७५ तमस्य वर्षस्य अक्तूबरमासस्य एकत्रिंशे दिनाङ्के गुजरातराज्यस्य नडियाद-नगरे लोहपुरुषस्य जन्म अभवत् । पञ्चसप्ततिवर्षीयस्य लोहपुरुषस्य मृत्युः १९५० तमस्य वर्षस्य दिसम्बरमासस्य पञ्चदशे दिनाङ्के अभवत् । तस्य मरणोत्तरम् एतस्य प्रासादस्य स्मारकत्वेन घोषणा अभवत् । अत्र लोहपुरुषस्य मूर्तिः अपि विद्यते । एषः भागः मेमोरियल् ग्राउण्ड इति प्रसिद्धम् अस्ति । एतस्मिन् भागे एकं सभागारं अन्ये चत्वारः प्रकोष्ठाः सन्ति । मुख्यसभागारे लोहपुरुषस्य चित्राणि सन्ति, येषु सः स्वान्त्र्यक्रान्तिकारिभिः, कुम्बेन, मित्रैः च सह स्वातन्त्र्यान्दोलनकाले समयं यापयन् दृष्टुं शक्यते । लोहपुरुषस्य १९३० तमे वर्षे महात्मना सह सम्बन्धः, युवावस्थायाः चित्राणि, शिक्षणे, अभ्यासे च उपयुक्तानि वस्तूनि, भारतीयराजवंशीयानाम् एकत्रसङ्घटने तस्य योगदानस्य चित्राणि च तत्र एकस्मिन् प्रकोष्टे सङ्ग्रहीतानि सन्ति । तस्मिन् प्रासादे प्रवेशद्वारस्य वामतः प्रकोष्टे खादि-कुन्तकं, धौतवस्त्रं, पादत्राणं च स्थापितम् अस्ति । तत्रैव तस्य वैदेशिकशैल्याः वस्त्राणि अपि स्थापितानि सन्ति ।
मुख्यसभागारस्य उपरि अपि उपसभागारम् अस्ति । तस्मिन् उपसभागृहे सरदारसरोवरयोजानायाः (एषा योजना सरदारसरोवरजलबन्धेन सह संल्लग्ना अस्ति ।) प्रारूपं परिलक्षितम् अस्ति । तस्मिन् उपसभागृहे चित्राणि, पुस्तकानि, प्रकल्पसम्बद्धानि तथ्यानि च प्रदर्शितानि सन्ति । तस्मिन् प्रकोष्ठे सरदारसरोवरयोजनायाः प्रलेखनचलच्चित्रक(प्रोजेक्टर)-माध्यमेन अपि प्रदर्शनं भवति । तस्य प्रकोष्ठस्य समीपस्थे प्रकोष्ठे लोहपुरुषेण सह महात्मनः जीवनस्य, कार्याणां च प्रदर्शनम् अस्ति । तस्मिन् प्रदर्शने चित्राणां, सुवाक्यानां, मूर्तीनां, पुस्तकानां च समावेशो भवति । समग्रे स्मारके महात्मना सह तस्य घनिष्ठतायाः दर्शनं प्रत्यक्षम् अस्ति ।
ठाकुरस्मारकम्
सम्पादयतु१८७८ तमे वर्षे रवीन्द्रनाथः एतस्मिन् प्रासादे न्यवसत् । अतः यस्मिन् प्रकोष्ठे सः निवसति स्म, तस्मिन् प्रकोष्ठे तस्य चित्राणि, प्रतिमा, वस्तूनि च स्थापितानि सन्ति । तत्रापि प्रलेखनचलच्चित्रमाध्यमेनापि तस्य स्मारकं चलच्चित्रं प्रदर्श्यते ।
उद्धरणम्
सम्पादयतु- ↑ Ras Mala, 199. A Forbes' Oriental Memoir. IIL 136,138.
- ↑ Gazetteer of the Bombay Presidency: Ahmedabad (Public Domain Text). Government Central Press. 1879. p. 283.
- ↑ Mukherjee Parikh, Runa (July 27, 2012). "‘Renovation’ ruining Shah Jahan’s palace". The Times of India (Ahmedabad). TNN. Archived from the original on June 18, 2013. आह्रियत March 8, 2013.
- ↑ "HC stays renovation at Shah Jahan Monument". The Indian Express (Ahmedabad). August 17, 2012. आह्रियत March 8, 2013.