प्रमुखा विकल्पसूचिः उद्घाट्यताम्

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कर्णावतीमहानगरम्

અમદાવાદ

Ahmedabad
'Manchester City of India'
कर्णावतीमहानगरम्
कर्णावतीमहानगरम्
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् अहमदाबादमण्डलम्
महानगरविस्तारः ४६४ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ५,५७०,५८५
Founded by सुल्तान् अहमद् शाह्
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body अहमदाबाद् म्युनिसिपल् कोर्पोरेशन्
 • महापौरः मीनाक्षी पटेल
 • उपमहापौरः रमेशः देसाई
 • म्युनिसिपल कमीशनर् गुरुप्रसादः मोहपतरा
Demonym(s) अमदावादी
Time zone UTC+५:३० (भारतीयमानकसमयः(IST))
पिनकोड
३८० ०XX
Area code(s) ०७९
Vehicle registration जीजे-१,जीजे-१८,जीजे-२७
साक्षरता ८६.६५%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website Ahmedabad Municipal Corporation
महात्मनः कर्मस्थली

कर्णावती ( /ˈkərnɑːvət/) (गुजराती: અમદાવાદ, आङ्ग्ल: Ahmedabad)) उत अहमदाबाद-महानगरं गुजरातराज्यस्य अहमदाबादमण्डलस्य प्रशासनिककेन्द्रमस्ति । गुजरातराज्यस्य बृहत्तममेतन्नगरं भारतस्य महानगरेषु पञ्चमम् अस्ति । अस्य कर्णावती इति नामान्तरं प्रख्यातमस्ति । अत्र गान्धि-आश्रमः, 'सिदी-सैयदनी जाली', 'काङ्करिया'तडागः, साबरमती 'रिवरफ्रन्ट्' च प्रेक्षणीयस्थलानि सन्ति ।

अन्तर्विषयाः

इतिहासःसम्पाद्यताम्

११ शताब्द्यां कर्णावतीनगरं परितः 'भील'वंशीयस्य 'आशावल'नामकराज्ञः राज्यम् आसीत् । पाटणपत्तनस्य 'सोलङ्की'वंशीयः राजा कर्णदेवः 'आशावल'राजानं पराज्य कर्णावत्याः अधिपतिः जातः । तत् स्थानम् अधुना मणिनगरम् इति नाम्ना प्रसिद्धमस्ति । 'सोलङ्की'वंशराजानः अत्र १३ शताब्दपर्यन्तं शासनं कृतवन्तः । ततः 'मुजाफ्फरदीन'वंशराज्ञां शासनम् आसीत् । कर्णावतीनगरनिर्माणस्य एका रोचकी कथा वर्तते ।

एकवारम् 'अहमद्'नामकः राजा साबरमतीनद्याः तीरे स्वश्वानेन सह अटन्नासीत् । सः श्वानः अत्यन्तः आक्रामकः, मदान्धश्च आसीत् । राजा अटन् अग्रे गतवान्, तस्मिन्नेव समये श्वानः एकस्य शशकस्य पृष्टे अधावत् । परन्तु राजा आश्चर्यचकितः जातः । शशकः निर्भयो भूत्वा श्वानोपरि एवाक्रमणं कृतवान् । शशकाक्रमेण भीतः श्वानः प्रत्यधावत्, शशकश्च तस्य श्वानस्य पृष्ठे धावन्नासीत् । एतत् दृश्यं दृष्ट्वा राजा अचिन्तयत्, "यदि अत्रस्थः एकः शशकः एतावत् निर्भयः, पराक्रमी चास्ति, तर्हि अत्रस्थानां जनानां विषये तु किं चिन्तनीयम् ? अहम् अत्रैव मम नगरस्य निर्माणं करिष्यामी"ति । एषा घटना १४११ तमे वर्षे घटिता आसीत् । तस्मिन्नेव वर्षे राजा अत्र नगरं निर्मापितवान् । नगरप्रवेशाय 'शेख अहमद्', 'गञ्जबक्षी काजी अहमद्', 'मलेक अहमद्', 'सुल्तान अहमद्' इत्याख्यानि चत्वारि द्वाराणि निर्मापितवान् । द्वाराणां निर्माणकार्यं १४१७ तमे वर्षे समाप्तं जातम् ।

'मुजाफ्फरदीन'वंशस्य शासनं १५७३ वर्षपर्यन्तम् आसीत् । पश्चात् मुघलवंशीयः राजा 'अक्बर' गुजरातराज्यस्य अधिपतिः जातः । तस्य आधिपत्ये व्यापारक्षेत्रे वृद्धिः जाता आसीत् । अतः कर्णावतीनगरं मुघलशासितेषु व्यापारकेन्द्रेषु मुख्यस्थानं प्राप्तवत् । व्यापारीकरणे सति कर्णावतीनगरस्थाः श्रेष्ठीजनाः बहु धनम् अर्जितवन्तः । ते इतः प्रस्तरैः निर्मितानि वस्तूनि यूरोप्-देशं प्रेषयन्ति स्म । तथा च कार्पास(cotton)वस्त्राणि, कौषेय(silk)वस्त्राणि अपि प्रेषयन्ति स्म । विश्वे क्लीतनी(Indigo,नील)सस्यस्य ९०% उत्पादनं कर्णावतीनगरस्य 'सरखेज'क्षेत्रे भवति स्म । अतः अस्योद्योगः कर्णावतीनगरस्य नियन्त्रणे आसीत् । व्यापारस्य अधिके प्रसारे सति नगरसीमाविस्तारस्य आवश्यकताम् अनुभवन्तः धनिकाः, नगरात् बहिः नवीनलघुक्षेत्राणां विकासं कृतवन्तः । 'नवरङ्गमिया'-'उस्मानखान'-'चेङ्गीसखान'नामकश्रेष्ठिनः क्रमेण 'नवरङ्गपुरा'-'उस्मानपुरा'-'मीठाखळी'क्षेत्राणां विकासं कृतवन्तः । तस्मिन्नेव काले मुघल-राज्ञैः उद्यानानि अपि निर्मापितानि आसन् । तानि अधुना 'शाहिबाग', 'अमराइवाडी', 'आम्बावाडी' इति नामभिः प्रख्यातानि सन्ति ।

१७५३ तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीनगरं स्वाधिकारे गृहीत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । ततः नगरस्य नवनिर्माणस्यापि आरम्भः जातः । १८१७ वर्षपर्यन्तं मराठाशासकैः सुचारुरीत्या साम्राज्यस्य वहनं कृतम् । परन्तु १८१८ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः नगरं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य नगरस्य सञ्चालनं दृढतया कृतवन्तः । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तं, आङ्ग्लाः निग्रहरूपेण नगरसञ्चालनं कृर्वन्तः आसन् । परन्तु, आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं कर्णावतीनगरे भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् । कोचरब-आश्रमात् स्थानान्तरं कृत्वा महात्मा सत्याग्रहाश्रमस्य स्थापनां कृतवान् । इतः 'दाण्डीकूच'द्वारा आङ्ग्लविरोधस्य आरम्भः जातः । अस्यां दाण्डीयात्रायां लक्षशः 'अहमदाबादी'जनाः भागं गृहीतवन्तः । ततः १९४२ तमे वर्षे 'भारतछोडो'-आन्दोलने बहवः 'अहमदाबादी'जनाः बलिदानं दत्तवन्तः ।

१९७० तमे वर्षे साबरमतीनद्यां यदा पूरः (Flood) आगतः, तदा ३८०० गृहाणि जलमग्नानि अभूवन्, सम्पत्तेः नाशः जातः, रोगैः बहवः जनाः मृताश्च । सर्वकारः ७.५ लक्षरूप्यकाणां हानिः निर्धारितवान् । एतस्याः प्राकृतिकहानेः पश्चात् नगरस्य व्यवस्थापुनःस्थापनाय महत्समयः जातः ।

पूर्वराजधानी कर्णावतीसम्पाद्यताम्

१९६० तमे वर्षे 'मे'मासस्य १ दिनाङ्के महाराष्ट्रराज्यात् भिन्ने जाते सति, गुजरातराज्यस्य राजधानी कर्णावतीनगरम् अभूत् । कर्णावती राजधानी आसीत्, अतः नवीनविश्वविद्यालयानां, संशोधनसंस्थानां च स्थापना जाताऽत्र । एवं कर्णावतीमहानगरं गुजरातराज्यस्य शिक्षणकेन्द्रं जातम् । यन्त्रशालानां, व्यापारीकरणस्य च विकासः अपि अधिकः जातः । पश्चात् १९८० तमे वर्षे सर्वकारः कर्णावतीनगरस्य एकं भागं पृथक्कृत्वा गान्धिनगरनामकं नवीननगरं घोषितवान् । ततः हरितनगरम् इत्युपाधिधातृ गान्धिनगरं गुजरातराज्यस्य राजधानी इति घोषणापि जाता । तथापि गुजरातराज्यस्य आर्थिकराजधानी तु कर्णावती एव ।

वीक्षणीयस्थानानिसम्पाद्यताम्

स्थापत्यम्सम्पाद्यताम्

कर्णावती ‘अहमद्-शाह’राज्ञः मुख्यनगरम् आसीत् । अतः तेन निर्मापितानि स्थापत्यानि अधिकानि सन्त्यत्र । 'सिदी-सैयदनी जाली' इति सुप्रसिद्धं यवनप्रार्थनास्थानं कर्णावतीनगरे अस्ति । तत्र प्रस्तरेषु कृताः शिल्पकलाः विश्वप्रसिद्धाः सन्ति । सरखेजक्षेत्रे ‘सरखेजरोजा’ इतीदं स्थापत्यकलायाः अद्भुतोदाहरणमस्ति । कर्णावतीनगरे जनाः स्वसम्प्रदायानुसारं भिन्नेषु संरक्षितस्थलेषु निवसन्ति स्म । यत्र 'देसाई'जनाः निवसन्ति, तस्य स्थानस्य ‘देसाईनी पोळ’ इति नाम । एवम् एकैकस्यापि वसतिप्रदेशस्य 'पोळ’ इति व्यवहारः । सर्वत्र ‘पोळ’-प्रवेशद्वारे रक्षणकक्षः भवति स्म । तथा च प्रत्येकस्मिन् 'पोळ'प्रदेशे एकस्मात् 'पोळ'स्थानात् अपरं 'पोळ'स्थानं गन्तुं गुप्तमार्गाश्च भवन्ति स्म । अधुना सम्प्रदायानुसारं विभाजनं नास्ति, परन्तु ‘पोळ’संस्कृतिः अखण्डास्ति ।

कर्णावतीमहानगरस्य एकं दृश्यम्

उद्यानानिसम्पाद्यताम्

कर्णावत्याम् उद्यानेषु प्रप्रथमनाम 'ला'-उद्यानस्य(Law Garden) एव अस्ति । एतत् अतिप्रख्यातं तथा च बृहत् उद्यानमस्ति । ‘ला’ इति नाम न्यायमहाविद्यालयत्वात् अस्ति । एतस्योद्यानस्य कारणेन समीपस्थविस्तारस्य विकासः जातः । अधुना आबालवृद्धाः अत्रागत्य स्वश्रान्ततां दूरी कुर्वन्ति । विक्टोरिया-उद्यान-बालवाटिके अपि द्वे प्रसिद्धे उद्याने स्तः । विक्टोरिया-उद्यानं भद्रक्षेत्र(‘लालदरवाजा’)स्य दक्षिणदिशि अस्ति । अत्र विक्टोरियाराज्ञाः पुत्तलः (Statue) अस्ति । बालवाटिका कर्णावत्याः सर्वाधिकप्रसिद्धे ‘काङ्करीया’तडागे अस्ति । अत्र अधिकतया यात्रिकाः, युवानश्च गच्छन्ति । रात्रौ व्युत्प्रकाशन(Laser Light)कार्यक्रमः अपि भवत्यत्र । अन्यानि प्रमुखानि उद्यानानि परिमल-प्रह्लाद-‘लालदरवाजा’-उद्यानानि सन्ति । नगरे भिन्नेषु क्षेत्रेषु लघूद्यानानि सन्ति । यत्र नगरजनाः विहर्तुं गच्छन्ति ।

तडागाःसम्पाद्यताम्

कर्णावत्याः प्रख्यातः मानवनिर्मिततडागः ‘काङ्करीया’तडागः अस्ति । एषः तडागः कर्णावत्याः मणिनगरक्षेत्रस्य पश्चिमे भागे अस्ति । अस्य तडागस्य निर्माणं १४५१ तमे वर्षे अभूत् । ‘कुतुब्-होज्’ इति नामान्तरमस्य । यदा एतस्य तडागस्य निर्माणं भवत् आसीत्, तदा एतस्मात् स्थलात् अधिकानि लघुप्रस्तराणि निर्गतानि । तेषां प्रस्तराणां नाम गुर्जरभाषायां ‘काङ्करा’ इति अस्ति । अतः अस्य नाम 'काङ्करीया' इति । वर्तुलाकारः एषः तडागः २.५ कि.मी. विस्तृतः अस्ति । पूर्वम् अत्र प्रवेशाय मूल्यं नासीत्, परन्तु पुनर्निर्माणानन्तरम् अन्तःप्रवेशाय १० रूप्यकाणि प्रवेशमूल्यमस्ति । बापुनगरक्षेत्रस्य लालबहादुरशास्त्रीतडागः निर्माणावस्थायाम् अस्ति । अन्येषां ३४ नवतडागानां निर्माणयोजना अस्ति । ह

साबरमती ‘रिवर्-फ्रन्ट्’सम्पाद्यताम्

साबरमती-‘रिवर्-फ्रन्ट्’ प्रकल्पः 'अहमदाबाद् म्युनिसिपल् कोर्पोरेशन्'द्वारा कार्याधीनः अस्ति । प्रकल्पाय १ कोटिरूप्यकाणां व्ययः भविष्यतीति पूर्वयोजनायां निश्चितम् । १०.४ कि.मी. यावत् साबरमतीनद्याः तीरे अस्य निर्माणं भविष्यतीति योजनास्ति । अत्र प्रवासनोद्योगः भवेत् तथा च नगरजनेभ्यः विहर्तुं स्थलं भवेत् इति प्रकल्पस्य मुख्योद्देशः अस्ति । एतस्मिन् स्थले पतङ्गोत्सवः मुख्यपर्व अस्ति, यत्र देश-विदेशतः जनाः आगच्छन्ति । अत्र सायङ्काले जनानां गमनमधिकं भवति ।

पर्वाणिसम्पाद्यताम्

एवं तु गुजरातीजनाः पर्वप्रियाः सन्त्येव । परन्तु गुजरातराज्यस्य मुख्यनगरत्वात् अत्र पर्वाणाम् आयोजनं विशिष्टतया भवति । उत्तरायण-गरबानृत्य-दीपावली-होलीका-गणेशचतुर्थी-गुडीपडवा-ईद्-रथयात्रादिपर्वाणां भव्योत्सवः भवति । उत्तरायणपर्वणि पतङ्गोत्सवकार्यक्रमे २०१३ तमे वर्षे ९५ देशेभ्यः स्पर्धालवः भागं गृहीतवन्तः । गरबानृत्यं दशदिनानि यावत् चलति । एतेषु दशदिनेषु रात्रौ सर्वत्र गरबागीतानि एव श्रूयन्ते । रात्रौ ९ वादनतः प्रातः ५ वा ६ वादनपर्यन्तं गरबारसिकाः नृत्यमग्नाः एव भवन्ति । गरबानृत्यम् एतावत् प्रख्यातमस्ति यत्, लग्नप्रसङ्गेषु, उत्तरायणपर्वणि, शरदपूर्णिमायां, गणेशचतुर्थ्याम् अपि गरबानृत्यं कुर्वन्ति गुजरातीजनाः । जगन्नाथपुर्यां जगन्नाथमन्दिरे यथा रथयात्रोत्सवः भवति, तथैव कर्णावत्यामपि जगन्नाथयात्रा भवति ।

विक्षणीयस्थलानाम् आवलिःसम्पाद्यताम्


कर्णावत्याः आकर्षककेन्द्राणि
साबरमती आश्रमः कर्णावत्याः पोळ इत्यस्य दृश्यम् सीदीसैयदनी जाली स्वामिनारायणमन्दिरम् - कालुपुरम् संस्कारकेन्दसङ्ग्रहालयः (पतङ्गसङ्ग्रहायलयः)

मार्गाःसम्पाद्यताम्

विमानमार्गःसम्पाद्यताम्

सरदार् वल्लभभाई पटेल-अन्तर्राष्ट्रियविमानस्थानकं मुख्यनगरात् १५ कि.मी. दूरे अस्ति । विदेशस्थितलण्डनादिनगरेभ्यः, भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च कर्णावतीनगराय वायुयानानि सन्ति ।

धूमशकटमार्गःसम्पाद्यताम्

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः कर्णावतीनगराय धूमशकटयानानि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गःसम्पाद्यताम्

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः कर्णावतीनगराय 'बस'यानानि अपि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद्पुणे-बेङ्गळूरु-जयपुरादिनगरेभ्यः 'बस'यानानि सन्ति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=अहमदाबाद&oldid=318042" इत्यस्माद् पुनः प्राप्तिः