सागर, कर्णाटकम्
सागरः (Sagar, Karnataka) शिवमोग्गमण्डलस्य एकं नगरम् तथा उपमण्डलं च। बेङ्गलूरुनगरात् ३६० कि. मी. दूरे सागरनगरम् अस्ति। सहजतया अत्र बहुवृष्टिः भवति। अत्र अरण्ये विविधप्राणिसङ्कुलानि च निवसन्ति। प्रकृतिप्रियाणां सागरः स्वर्गः एव। श्रीगन्धस्य शिल्पकलायां सागरः सुप्रसिद्धः। श्रीगन्धस्य आलयः इत्यपि कथ्यते।
Sagara Sagar Jambagaru | |
---|---|
city | |
Country | India |
State | Karnataka |
Region | Malenadu |
District | Shimoga |
Subdivision | Sagar |
Government | |
• Type | Democratic |
• Body | Sagar City Municipal Council |
Area | |
• Total | १९.७५ km२ |
Elevation | ५७९ m |
Population (2011) | |
• Total | ५४,५५०[१] |
• Density | ७,१६०/km२ |
Languages | |
• Official | Kannada |
Time zone | UTC+5:30 (IST) |
PIN |
577401 |
Telephone code | 08183 |
Vehicle registration | KA-15(Sagar sub division) |
Website | www.sagaracity.gov.in |
इतिहासः
सम्पादयतुसागरनगरस्य चतुःशतवर्षाणाम् इतिहासः अस्ति। केळदि-नायकानां कालादेव एतत् नगरम् आसीत् इति कथयन्ति। पुरा अस्य समीपे एकः सरोवरः आसीत्। तं सरोवरं सर्वे सदाशिवसागरः इति कथयन्ति स्म। तदनन्तरं सदाशिव इति नाम लुप्तं भूत्वा केवलं सागरः इत्येव प्रसिद्धम् अभवत्। अतः अस्य प्रदेशस्य नाम सागरः इति प्रसिद्धं जातम्।
प्रेक्षणीयस्थलानि
सम्पादयतुअत्र प्रेक्षणीयस्थलानि बहूनि सन्ति। प्रथमतः -
जोगजलपातः
सम्पादयतुभारतदेशे अत्युन्नतः जगत्प्रसिद्धः च अस्ति जोगचलपातः। अयं जलपातः सागरनगरात् २९ कि. मी दूरे अस्ति। शरावतीनदी, राजराणि-रोरर्-राकेट् इति नाम्ना चतुर्धा विभक्ता सती उन्नतप्रदेशतः धाराकाररूपेण अधः पतति। सागरनगरात् जोगजलपातं प्रति गन्तुं लोकयानस्य व्यवस्थाऽपि अस्ति।
इक्केरिः
सम्पादयतुइक्केरिः केळदिसंस्थायाः मन्दिरम्। अत्र होय्सळशौल्याः सुन्दरशिल्पकलाकृतयः सन्ति। इक्केरिपट्टणम् सागरनगरात् ५ कि.मी. दूरे अस्ति। लोकयानेन, त्रिचक्रयानेन, कार्-यानेन गन्तुं शक्यते।
केलदिः
सम्पादयतुऐतिहासिकवस्तुसंग्रहालयः अत्रत्यः विशेषः।
होन्नेमरडुः
सम्पादयतुशरावतीनद्याः पृष्ठभूमिकया आवृतः सुन्दरः प्रदेशः होन्नेमरडुः। जोगजलपातगमनमार्गे एवं अयं प्रदेशः वर्तते। होन्नेमरडुः सागरनगरात् २५ कि.मी. दूरे अस्ति। अयं प्रदेशः साहसक्रीडानां कृते प्रशस्तः।
मारिकाम्बा देवालयः
सम्पादयतुसागरनगरस्य मध्यभागे मारिकाम्बा देवालयः अस्ति। त्रिषु वर्षेषु एकवारम् अत्र उत्सवः प्रचलति। अयम् उत्सवः सर्वान् जनान् आकर्षति।
वरदग्रामः
सम्पादयतुवरदग्रामे श्रीधरस्वामिनां स्मारकम् आश्रमश्च अस्ति। सागरात् ७ कि.मी दूरे अयं ग्रामः अस्ति। समीपस्थतः महाराष्ट्रराज्यतः बहुसंख्यया भक्ताः अत्र आगच्छन्ति। निसर्गमध्ये विद्यमानम् इदं स्थलम् अत्यन्तं प्रशान्तम् आध्यात्मचिन्तनाय प्रशस्तञ्च अस्ति।
सिगन्दूरुक्षेत्रम्
सम्पादयतुअत्र चौडेश्र्वरीदेवालयः अस्ति। सागरनगरात् ३२ कि.मी. दूरे अस्ति। तत्र शरावतीनद्याः द्वारा गन्तुं शक्यते।
नाडकलसिः=
सम्पादयतुसागरनगरात् १० कि.मी. दूरे अस्ति। अत्र शिवदेवालयः अस्ति। मूलविग्रहः सम्पूर्णतया शिलाया एव निर्मितः अस्ति।
होसगुन्दः
सम्पादयतुअत्र उमामहेश्र्वरी देवालयः अस्ति। सागरात् २६ कि.मी दूरे अस्ति।
वरदामूलम्
सम्पादयतुएतत् वरदानद्याः उगमस्थलम्। अत्र वरदाम्बादेव्याः देवालयः अस्ति। अत्र अग्नि-वरदा-लक्ष्मी इति तिस्रः नद्यः प्रवहन्ति। अत्र प्रतिवर्षं तिल-अमावास्यादिने उत्सवः भवति।
लिङ्गनमक्किजलाशयः
सम्पादयतुअयं जलाशयः १९६४ तमे वर्षे कर्णाटकस्य सागर-उपमण्डले शरावतीनद्याः कृते निर्मितः जलबन्धः। जलबन्धस्य अधः शरावतीजलविद्युत्-योजना कार्यं निर्वहति। एतत् जोगप्रदेशात् ६ कि.मी. दूरे अस्ति।
साहित्य-कला-संस्कृतिश्र्च
सम्पादयतुसागरोपमण्डलस्य जनाः कलारसिकाः साहित्याराधकाः च । म्याग्सेसे-प्रशस्तिपुरस्कृतेन के. वि. सुगुण्णकट्टीमहोदयेन निर्मितः ’नीनासम्’ (नीलकण्ठेश्र्वरनाट्यसङ्घः) बहु प्रसिद्धः। प्रख्यातसाहित्यकारः ना. डिसौजा अत्रत्यः एव।
यक्षगानम् एकः सुप्रसिद्धकलाप्रकारः। सागरनगरे यक्षगानप्रदर्शनानि बहूनि भवन्ति।
दीपावलिसमये ग्रामस्थाः रात्रौ एकं दीपं प्रज्वाल्य प्रतिगृहं गायनं कुर्वन्तः गच्छति। इदं ’हुब्बाडुवपद’ इति वदन्ति।
जन-मन-भाषा
सम्पादयतुसागर-उपमण्डलस्य जनाः शान्तिप्रियाः स्नेहजीविनश्च । अत्रत्यजनानां प्रधानकार्यं कृषिः। पूगीफल-तण्डुल-इक्षुदण्ड-वेनिल्ला-रब्बर्- इत्यादीनाम् उत्पादनमत्र मुख्यतया क्रियते। हव्यकसम्प्रदायजनाः सागर-उपमण्डले अधिकतया निवसन्ति। तेन सागरे हव्यककन्नडभाषया व्यवहारः प्रचलति। परिसरः - सागरप्रदेशः गिरिपर्वतैः तथा अरण्येन आवृतः अस्ति। सागरस्य बहुभागः लिङ्गनमक्किजलाशयस्य पृष्ठजलेन आवृतमस्ति। अत्र अरण्ये कळिङ्गसर्प-व्याघ्र-मयूर-कृष्णमृगादीनां प्राणिपक्षीणाम् आलयाः अपि सन्ति।
मार्गविवरणम्
सम्पादयतुसागरनगरं प्रति गन्तुं बेङ्गलूरुनगरात् लोकयानं तथा रेल्वेसम्पर्कः अस्ति। रा. मा. २०६ द्वारा ८ घण्टानां प्रवासः भवति। राज्यस्य प्रमुखपट्टणात् तथा मुंबैनगरात् लोकयानं, रेल्वेसम्पर्कः च अस्ति।