साबरकाठामण्डलम्
साबरकाठामण्डलम् (गुजराती: સાબરકાંઠા જિલ્લો, आङ्ग्ल: Sabarkantha district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति हिम्मतनगरम् इति नगरम् ।
साबरकाठामण्डलम् | |
---|---|
मण्डलम् | |
गुजरातराज्ये साबरकाठामण्डलम् | |
Country | भारतम् |
States and territories of India | गुजरातराज्यम् |
Headquarters | हिम्मतनगरम् |
Area | |
• Total | ७,३९० km२ |
Population (२०११) | |
• Total | २४,२७,३४६ |
Languages | |
• Official | गुजराती, हिन्दी |
Website | sabarkantha.gujarat.gov.in |
भौगोलिकम्
सम्पादयतुसाबरकाठामण्डलस्य विस्तारः ७,३९० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे राजस्थानराज्यं, पश्चिमे मेहसाणामण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे खेडामण्डलम् अस्ति । अस्मिन् मण्डले ५००-१००० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, हाथमती, खारी, मेश्वो, वात्रक, मझाम, हरणाव ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं साबरकाठामण्डलस्य जनसङ्ख्या २४,२७,३४६ अस्ति । अत्र १२,४४,४९१ पुरुषाः ११,८२,८५५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७६.६०% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि- १ बायड २ भिलोडा ३ धनसुरा ४ हिम्मतनगरम् ५ इडर ६ खेडब्रह्मा ७ मालपुरं ८ मेघरजः ९ मोडासा १० प्रान्तिज ११ तलोद १२ वडाली १३ विजयनगरम्
गोधूमः, एरण्डं, कलायः, तमाखुः, 'बेर्', आम्रफलं, दाडिमफलं, आलुकं, वृन्ताकं, कपिशाकं ('क्याबिज्') ('पर्णशाकम्' इति अपि), वार्तिकी, 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु धान्यानाम् उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'बेर्', दाडिमफलस्य उत्पादनेऽपि अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कृषिः, 'सिरेमिक्स्', क्षीरोत्पादनं, 'प्ल्यास्टिक्', आहारसंस्करणं, रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
वीक्षणीयस्थलानि
सम्पादयतुइडरगिरिः, 'क्लोक् टवर्', 'रूठी राणी नो महल्', शान्तिनाथमन्दिरं, श्रीमद् राजचन्द्रविहारश्च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । खेडब्रह्मा, विजयनगरं, पोशिना अपि वीक्षणीयस्थलानि सन्ति । अस्मिन्नेव मण्डले स्थितं भगवतः कृष्णस्य शामलाजी-मन्दिरं गुजरातराज्यस्य प्रसिद्धयात्रास्थलेषु अन्यतमम् अस्ति । विजयनगरे प्राचीनानां हिन्दूमन्दिराणां, जैनमन्दिराणां च अवशेषाः दृश्यन्ते । अतः विजयनगरस्य प्राकृतिकम्, ऐतिहासिकं च सौन्दर्यं वर्तते । 'पोलो'-अरण्यप्रदेशः अपि वीक्षणीयस्थलम् अस्ति । श्रीप्रतापसिंह-राजप्रासादः अपरं वीक्षणीयस्थलम् ।
बाह्यानुबन्धाः
सम्पादयतु- Official site Archived २०११-०९-१३ at the Wayback Machine