सुब्रह्मण्य भारती (१८८२-१९२१) भारतस्य कश्चन महाकवि: आसीत्। तस्य जन्म तमिळ्नाडु प्रदेशे एट्टयपुरनामके नगरे अभूत्। स: कश्चित् पत्रकार: अपि । स: ब्रिटेन-शासनस्य विरोधम् अकरोत्। तस्य नाम्नि कश्चन विश्वविद्यालयः अस्ति कोयम्बत्तूरुमहानगरे

चिन्नस्वामी सुब्रह्मण्य भारती
Subramanya Bharathi.jpg
जन्म सुन्दरमूर्ती (जन्मनाम)
(१८८२-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-११)११ १८८२
Ettayapuram, Madras Presidency, India
मृत्युः ११ १९२१(१९२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११) (आयुः ३८)
चेन्नै, भारतम्
निवासः ट्रिप्लिकेन
देशीयता भारतीयः
अन्यानि नामानि भारतियार्, सुब्बय्या, शक्तिदासन्, महाकवि, मुण्डासु कविगळ् Kavignar
वृत्तिः पत्रकारः
कृते प्रसिद्धः भारतस्य स्वातन्त्र्यान्दोलने सक्रियता, कवित्वम्, समाजोद्धारः
Notable work Panjali Sapatham, Pappa Pattu, Kannan Pattu, Kuyil Pattu, etc.
आन्दोलनम् भारतस्य स्वातन्त्र्यसङ्ग्रामः
धर्मः हिन्दुधर्मः
भार्या(ः) चेल्लम्माळ्
अपत्यानि तङ्गम्माळ् भारती (b. 1904), शकुन्तला भारती (b. 1908)
पितरौ चिन्नस्वामी सुब्रह्मण्य ऐय्यर् तथा एलक्कुम्इ लक्ष्मी अम्माळ्

महाकविः सुब्रह्मण्यभारतीसम्पाद्यताम्

नाम - सुब्रह्मण्यः जननम् - डिसेम्बर११ , १८८२ एट्टयपुरम् , तिरुनेल्वेलीमण्डलम् , तमिळ्नाडु , भारतम् मरणम् - सप्टम्बर् ११ , १९२१( ३८ वयः ) वासः - तिरुवल्लिकेणी , चेन्नै . अन्यनामानि – भारतीयार् , सुब्बय्या , शक्तिदासः .

जीवनचरित्रम्सम्पाद्यताम्

१८८२ तमे वर्षे डिसेम्बर् ११ दिनाङ्के चिन्नस्वामी ऐयर् , लक्ष्मी अम्माळ् दम्पतोः पुत्रत्वेन सुब्रह्मण्यः जातः । तं सुब्बय्या इति आह्वयन्ति स्म । सः तस्य एकादशे वयसि एव कविताः लेखितुम् सामर्थ्यं प्राप्तवान् आसीत् । १८९७ तमे वर्षे चेल्लम्मया सह तस्य विवाहः जातः । १८९८ तमे वर्षे वाणिज्ये नष्टं प्राप्तवान् । तेन कारणेन निर्धनः अभवत् । स्वस्य स्थितिं एट्टयपुरं महाराजाय सूचयित्वा धनसाहायं प्रार्थितवान् । राजा तस्मै राजभवने उद्योगं कल्पितवान् । किञ्चित् कालानन्तरं तम् उद्योगं त्यक्त्वा वाराणसीं प्रति गतवान् । १८९८ वर्षतः १९०२ वर्षंपर्यन्तं तत्र आसीत् । एट्टयपुरं महाराजेन सः पुनः आनीतः । एवं ७ वर्षाणि गीतानि न लिखितवान् । ७ वर्षानन्तरं १९०४ तमे वर्षे मधुरैनगरे सुब्रह्मण्येन लिखितं गीतं “ विवेकभानु “ पत्रिकायां प्रकाशितम् । आजीवनं बह्वीषु पत्रिकासु सम्पादकरूपेण कार्यं कृतवान् । मधुरैसेतुपतिविद्यालये तमिळ् अध्यापकत्वेन अपि कार्यं कृतवान् अस्ति । सुब्रह्मण्यः बहुभाषाज्ञः आसीत् । तमिळ् , हिन्दी , संस्कृतं , बङ्गाली फ्रेञ्च् भाषाः च ज्ञातवान् आसीत् । अन्यभाषाभ्यः साहित्यानि भाषान्तरयति स्म ।

साहित्यकार्यम्सम्पाद्यताम्

“ यः कविताः लिखति सः कविः न । यस्य जीवनमेव कविताः ; कविताः एव जीवनं सः एव कविः । “ – भारती “ मम कार्यं कवितालेखनं , देशाय कार्यकरणं , अविरतपरिश्रमः “ - भारती स्वमातृभाषायाः तमिळ्भाषायाः विषये बहु आसक्तिः आसीत् तस्य । बहुभाषाज्ञः सः “ मया ज्ञातासु भाषासु तमिळ्भाषावत् मधुरा क्वापि न विद्यते “ इति तमिळ् भाषायाः माधुर्यविषये कथितवान् अस्ति । इतरभाषासु विद्यमानाः उत्कृष्ठाः कृतयः तेन तमिळ्भाषया अनूदिताः सन्ति । पुरातनकाव्यानां विषये तस्य विशेषासक्तिः आसीत् । देशीयकविः अस्ति भारती । तस्य चिन्तनानि सौन्दर्येण सत्यसन्धतया च रचितवान् इत्यतः तं लोकस्य श्रेष्ठकविभिः सह तोलनं कुर्वन्ति पण्डिताः । बहवः आधुनिककविषु अनितरसाधारणकविः इति तं मन्यन्ते । तस्य काश्चन कृतयः । • कुयिल्पाट्टु ( कोकिलगीतम् ) • कण्णन्पाट्टु ( कृष्णस्य विषये लिखितानां गीतानां सङ्ग्रहः ) • पाञ्चालीशपथम् • पुदिय आत्तिचूडी • स्वचरितम् • भारती अरुबत्तारु • ज्ञानप्पाडल्गल् • स्तोत्रपाडल्गल् • विडुदलैपाडल्गल् • चन्द्रिकैयिन् कथा

पत्रिकाकार्यं , स्वातन्त्र्यसङ्घर्षः चसम्पाद्यताम्

भारती “ स्वदेशमित्रन् “ पत्रिकायाम् उपसंपातकरूपेण १९०४तमवर्षस्य नवम्बरमासतः १९०६तमवर्षस्य आगस्टमासपर्यन्तं कार्यं कृतवान् । तस्य जीवनस्य अन्तिमेषु दिनेषु अपि १९२० आगस्टतः १९२० सप्तम्बरपर्यन्तं कार्यं कृतवान् । चक्रवर्तिपत्रिकायां १९०५ वर्ष तः १९०६ पर्यन्तं कृतवान् । इण्ड्या , सूर्योदयः , कर्मयोगी , धर्मम् इत्यादीषु विभिन्नासु पत्रिकासु कार्यं कृतवान् । बालभारतम् अथवा यङ्ग् इण्डिया नामिकायाम् आङ्ग्लपत्रिकायाम् अपि सम्पादकः आसीत् भारती

देशीयकविःसम्पाद्यताम्

स्वातन्त्र्यसङ्घर्षसमये देशैक्यभावात्मकगीतानि रचयित्वा जनानां सङ्घटनं कृतवान् इति कारणेन “ देशीयकविः “ इति आद्रियते सः । सः दक्षिणभारते जन्मप्राप्तवान् चेदपि हिमालयः अस्माकम् पर्वतः , गङ्गा अस्माकं नदी इति गीत्वा तेषां वैशिष्ट्यानि अपि रचयति । स्वमातृभूमेः विषये चिन्तनं कृत्वा न केवलं गौरवम् अनुभूतवान् , अपि च तस्याः भविष्यं कथं भवेत् इत्यस्मिन् विषये अपि सः रचयति स्म ( वन्देमातरम् एन्बोम् एङ्गळ् मानिलत्तायै वणङ्गुदुम् एन्बोम् ) । वङ्गस्य प्रभूतं जलम् उपयुज्य भारतस्य मध्यभागे कृषिकार्यं कुर्मः इति तथैव नदीनां संयोजनविषये लिखितवान् ( वङ्गत्तिल् ओडि वरुं नीरिन् मिहैयाल् मैयत्तु नाडुहलिल् पयिर् सेय्हुवोम् ) इति । भारतस्य स्वातन्त्र्यप्राप्तितः पूर्वमेव निश्चयेन स्वातन्त्र्यं प्राप्नुमः इति विश्वासेन स्वातन्त्र्यं प्राप्तवन्तः इव “ आनन्दपळ्ळु “ नाम गीतं गीतवान् ( आडुवोमे पळ्ळु पाडुवोमे आनन्दसुतन्तिरम् अडैन्दु विट्टोमेन्डृ ) ।

नवीनकविःसम्पाद्यताम्

भारतीवर्यः एव स्वस्य गीतेषु प्रथमतया व्याकरणनियमानाम् उल्लङ्घनं कृतवान् । तमिळ्भाषाया व्याकरणग्रन्थः अस्ति “ तोल्काप्पियं “ ग्रन्थः । भारतेः पूर्वं कवयः तस्मिन् ग्रन्थे यथा नियमाः सन्ति तथैव लिखन्ति स्म । पण्डिताः एव तादृशरचनाः अवगन्तुं शक्नुवन्ति स्म । भारती तान् नियमान् उल्लङ्घ्य सामान्याः अपि यथा अवगच्छन्ति तथा सरलया शैल्या लिखितवान् । एवं परिहासचित्रलेखनशैलीं ( केरिकट्टुर् ) तमिळ्जनेभ्यः सः एव परिचायितवान् ।

महिलानां विषये आदरःसम्पाद्यताम्

भारतीवर्यस्य महिलानाम् उपरि महान् आदरः आसीत् । तस्य मूलकारणं तु स्वामिविवेकानन्दस्य शिष्यत्वेन स्थिता ‘ भगिनी निवेदिता ‘ एव । कदाचित् भारतीवर्यः स्वातन्त्र्यान्दोलनस्य सम्मेलनं प्रति आगतवान् । तदा भगिनी निवेदिता “ पत्नी नागता वा ? ” इति पृष्टवती । “ भारते तादृशः अभ्यासः नास्ति । ताः बहिः नागच्छन्ति । “ इति उक्तवान् भारतीवर्यः । “ एवम् भारतस्य जनसङ्ख्यायाम् अर्धांशजनान् गृहे एव दासाः इव स्थापयन्ति चेत् भारतस्य स्वातन्त्र्यं कथं वा प्राप्तुं श्क्नुमः ? “ इति पृष्टवती । तदा एव भारतीवर्यस्य बोधः जातः । तदनन्तरं सः पत्नीमपि स्वातन्त्रान्दोलने भागं स्वीकर्तुं प्रेरयति स्म । महिलानां सर्वासाम् उपरि आदरं दर्शयति स्म । निवेदितामेव स्वस्य गुरुत्वेन स्वीकृतवान् । तमिळ्नाडुराज्ये प्रथमवारं महिलानां स्थानविषये भारतीवर्यः एव उद्घोषितवान् । “ महिलानां दासत्वं यावत् न समाप्यते तावत् स्वातन्त्र्य प्राप्तिः अपि न भवति । “ इति घोषितवान् । स्त्रिभ्यः सहस्रसहस्रवन्दनानि इति कविताः रचितवान् । स्त्रीत्वम् जयतु इति गीतं लिखितवान् । महिलानां शिक्षणं , ताभ्यः न्यायः कल्पनीयः इति भारतीवर्यस्य चिन्तनम् आसीत् । महिलाः अन्नं कर्तुम् केवलं न , आध्यात्मकार्यं कर्तुम् अपि ताः समर्थाः इति अवलोकितवान् ।

पाञ्चालीशपथम्सम्पाद्यताम्

भारतस्य स्वातन्त्र्य-आन्दोलनं सः महाभारतयुद्धम् इव , भारतमातरं पाञ्चाली इव च उपमानं कृत्वा “ पाञ्चालीशपथं “ नाम ग्रन्थं रचितवान् । तस्य उत्तमकविताशैल्याः कारणेन तमिळ्भाषायाः साहित्यक्षेत्रे सः ग्रन्थः उत्तमकाव्यत्वेन शोभते ।

भारतीवर्यस्य स्मारकाणिसम्पाद्यताम्

तमिळ्नाडुसर्वकारः भारतीवर्यस्य एट्टयपुरस्थं तस्य गृहं स्मारकरूपेण पालयन्तः सन्ति । चेन्नै नगरे तिरुवल्लिकेणि प्रदेशस्थं भारतीवर्यस्य गृहम् अपि स्मारकरूपेण पालयति सर्वकारः । एट्टयपुरे भारतीमणिमण्डपः अपि निर्मितः अस्ति । तस्मिन् मध्यभागे ७ पादपरिमिता भारतीवर्यस्य प्रतिमा अपि ११-१२-१९९९ तमे दिनाङ्के पञ्चाबप्रान्तस्य मुख्यमन्त्रिणा दर्बारासिङ्वर्येण प्रतिष्ठिता । तत्र सभामण्डपः अपि निर्मितः अस्ति । १००० जनैः तत्र उपवेष्टुं शक्यते । सुब्रह्मण्यभारतीवर्यस्य जीवनेन सम्बद्धानि भावचित्राणि अपि तत्र स्थापितानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=सुब्रह्मण्य_भारती&oldid=262303" इत्यस्माद् प्रतिप्राप्तम्