सर्वोदयदिनम्
सर्वोदयदिनम् ( शृणु) इत्येतत् भारतदेशे प्रतिवर्षं जनवरी-मासस्य ३० तमे दिने आचर्यते । अस्य दिनस्य हुतात्मादिनम् इति च नाम अस्ति । स्वातन्त्र्यसङ्ग्रामे भागं स्वीकृतवतां स्वातन्त्र्याय बलिदानं कृतवतां स्वातन्त्र्यवीराणां अस्मिन् दिने श्रध्दाञ्जलिं समर्पयन्ति । जनवरी ३० तमे एव दिने गान्धिमहोदयस्य हननम् अभवत्। १९४८ तमे वर्षे जनवरीमासस्य ३०तमे दिने भारतदेशेन अतीवदुःखदायकी वार्ता श्रोतव्या अभवत् । राष्ट्रपिता इति ख्यातः मोहनदासकरमचन्दगान्धिमहोदयः सायङ्काले पञ्च वादनसमये प्रार्थनां कर्तुं गच्छन् आसीत् ।तदा एव नाथुरामगोडसे महोदयेनमारितः अभवत् । सम्पूर्णे भारते एष विषयः अतीव दुःखकारकः अभवत् । महात्मागान्धीमहोदयः भारतदेशे स्वातन्त्र्यप्राप्तिः अहिंसामार्गेणैव शक्या इति निर्णीतवान् । पूर्वम् अनेके जनाः भगतसिंहः मदनलालधिङ्ग्रा, चन्द्रशेखर आजादः इत्यादयः क्रन्तिमार्गेण आङ्ग्लान् उच्चाटयितुं प्रयत्नं कृतवन्तः । बेळगावीसमीपे स्थिता कित्तुरुचेन्नम्मा स्वातन्त्र्यार्थम् आङ्गलानां विरुद्धं युद्धं कृतवती । झांसी लक्ष्मीबायी १८५७ तमे वर्षे आङ्गलानां विरुद्धं युध्दं कृतवती । वीरपाण्डयकट्टबोम्मन् स्वातन्त्र्याप्रियः आसीत् । एवं पूर्वकालतः भारते स्वातन्त्र्यप्राप्तये प्रयत्नः चलन्नासीत् । १८८५ तमे वर्षे ‘काङ्ग्रेस’ संस्था अधिकृततया आरब्धा । स्वातन्त्र्यप्राप्तिः अस्योध्देशः आसीत् । अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः १९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् । स्वातन्त्य्रप्राप्तेः अनन्तरं भारते अनेकसंस्थानां परिहारोपायाः साधनीयाः आसन् । महात्मागान्धिमहोदयस्य राजकीयगुरुः श्री गोपालकृष्णगोखले जातिरहितवर्गरहितसमाजनिर्माणम् आवश्यकम् इत्युक्तवान् महात्मगान्धिना अस्य कार्यस्य सर्वोदयः इति नाम दत्तमासीत् । सर्वोदयतत्वानि एवम् आसन् –
- यथा सर्वेषां हितरक्षणम् आवश्यकम् अस्ति, तथैव सर्वेषां कार्याणां विषये समानगौरवः प्रदर्शनीयः अस्ति। :* सर्वेजनाः समानाः भारतीयप्रजाः सन्ति ।
- श्रमेण जीवनं देशहिताय कार्यकारणम् अनिवार्यम् अस्ति। दीनदलितदरिद्रधनिकभेदः दूरीकर्तव्यः।
- भारतीयसर्वकारस्य सामाजिकार्थिक-शैक्षणिककार्यक्रमेषु सर्वे सक्रियरुपेण कार्यं कुर्वन्तु, रामराज्यमिव भारतेऽपि जनहितराज्यं भवतु।
इत्यादि । सर्वोदयाधारेण सर्वेजनाः परस्परं साहाय्यं कुर्वन्तु विद्यावन्तः अविद्यावतां मार्गदर्शनं कुर्वन्तु । ग्रामोद्धारः कर्तव्यः तदा एव देशोध्दारः भविष्यति इति महात्मागान्धिः श्रीविनोबाभावे इत्यादयः प्रमुखाः कार्यं कृतवन्तः । विनोबाभावे अनेकवर्षाणि यावत् एतत् कार्यं कृतवान् । सर्वोदयदिने रोगिणां सेवा, हुतात्मनां स्मरणं श्रध्दाञ्जलिदानं, स्वातन्त्र्यवीराणां कार्यस्मरणं, कुष्ठरोगचिकित्सा, श्रमदानं, राष्टस्य अ भिवृद्धिविषये चिन्तनम् इत्यादि कार्याणि कुर्वन्ति । स्वातन्त्र्य प्राप्तेः अनन्तरम् भारतपाकिस्तानयोः विभागविषयः प्रमुखः अभवत् । पूर्वं महात्मा भारतपाकिस्तानविभागस्य विरोधी आसीत् । किन्तु स्वातन्त्र्येन्स्त्र्येण सह विभागः अपि अनिवार्यः अभवत् । एतेन नाथुरामगोडसे गान्धिमहोदयं मारितवान् । हे राम इति वदन् महात्मागान्धिः अधः पतितवान् । गान्धियुगः समाप्तः अभवत् युगपुरुषस्य महात्मा गान्धिनः स्मरणार्थं तथा स्वातन्त्र्यवीराणां स्मरणार्थं च हुतात्मदिनं अचर्यते । देशे ३० जनवरी दिने प्रातः काले ११ वादने मौनाचरणं भविष्यति । स्मारकाणां पुष्पाञ्जलिः समर्पिता भवति । सर्वे जनाः मौनेन वीरचेतनेभ्यः स्वगौरवम् अर्पयन्ति । सर्वत्र रघुपति राघव राजारां पतित पावन सीताराम् ईश्वर अल्ला तेरे नाम् सबको सन्मति दे भगवान् इति गीतम् गायन्ति ।