१७४७
१७४७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
- अस्मिन् वर्षे जर्मनीदेशस्य रसायनविज्ञानी आण्ड्रियस् मार्ग्राफ् पालङ्कतः शर्करां पृथक् कृत्वा कन्दमूलेषु शर्करांशः भवति इति प्रत्यपादयत् ।
- अस्मिन्नेव वर्षे विश्वे एव प्रथमवारं लण्डन्-नगरस्य "लाक्" नामके वैद्यालये लैङ्गिकरोगाणां निमित्तं पृथक् वैद्यालयः आरब्धः ।
- स्काट्लेण्ड्-देशस्य नौकादलस्य वैद्यः जेम्स् लिण्ड् स्कर्विरोगं निम्बूकजातीयानि फलानि निवारयन्ति इति संशोधितवान् । तदर्थं सः १२ नाविकनाम् उपरि प्रयोगम् अकरोत् ।