१८८० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे समुद्रतले जीवतां जीविनां विषये अध्ययनार्थं "सागरजीवविज्ञान"स्य (मरैन् बयालजि) विभागः ब्रिट्न्-देशे आरब्धः ।
अस्मिन् वर्षे फ्रान्स्-देशीयः लवरेन् नामकः मलेरियारोगाणून् संशोधितवान् ।
अस्मिन् वर्षे अमेरिकादेशस्य सैण्ट्लूयीस्-प्रदेशीया "ल्याम्बर्ट् फार्मस्युटिकल्" इति संस्था पूतिनाशकस्य संशोधकस्य जोसेफ् लिस्टर् इत्यस्य विज्ञानिनः स्मरणार्थं मुखप्रक्षालनद्रवस्य निर्माणम् अकरोत् ।
अस्मिन् वर्षे अमेरिकादेशीयौ फ्रान्सिस् डि क्लार्क् तथा एं जि फास्टर् नामकौ "श्रवणयन्त्र"स्य (हियरिङ्ग् एय्ड्) स्वाम्याधिकारं प्राप्तवन्तौ ।
अस्मिन् वर्षे रोगनिरोधकक्रमस्य संशोधकः लूयीस् पाश्चर् कुक्कुटानां कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् ।
अस्मिन् वर्षे भारतस्य प्रसिद्धः क्रान्तिकारी, स्वातन्त्र्ययोद्धा च बालगङ्गाधरतिलकः "न्यू इङ्ग्लीष् हैस्कूल्" नामकस्य विद्यालयस्य आरम्भम् अकरोत् ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे भारतस्य प्रसिद्धः हिन्दीकथालेखकः, उपन्यासकारः च प्रेमचन्दः जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य प्रसिद्धः इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः, भारतरत्नप्रशस्त्या भूषितः डा. पण्डुरङ्ग वामन काणे जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य आधुनिकमहाकाव्यरचयितृषु अन्यतमः स्वामी भगवदाचार्यः स्थलकोटनगरे जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे जून्-मासस्य २७ तमे दिनाङ्के अमेरिकादेशीया मूका अन्धा च विख्याता लेखिका, उपन्यासिका, राजनैतिकनेत्री हेलेन केलर जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे जुलैमासस्य २ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य धारवाडनगरे वचनपितामहः इति सुप्रसिद्धः कविः फ.गु. हलकट्टिः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८८०&oldid=411522" इत्यस्माद् प्रतिप्राप्तम्