अथ (अनन्तरम्)
अव्ययेषु अन्यतमं भवति इदम् अव्ययम् अथ इति ।
अर्थविवरणम्
सम्पादयतुअथ इति शब्दः नाना अर्थेषु वर्तते । यथा -
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।[१]
अर्थात् अथशब्दः मङ्गलम्, अनन्तरम्, आरम्भः, प्रश्नः, कार्त्स्न्यम् इत्येतेषु अर्थेषु प्रयुज्यते ।
उदाहरणवाक्यानि
सम्पादयतुअभियुक्तोक्तिः
सम्पादयतुअथशब्दविषये अभियुक्तोक्तिः काचिद्विद्यते -
ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
अर्थात् - पुरा कदाचित् ब्रह्मणः कण्ठं भित्त्वा ॐकारः अथ इति शब्दश्च बहिरागतौ । ब्रह्मणः मुखात् बहिरागतौ इत्यस्मात् तयोः मङ्गलत्वम् ।
सन्दर्भः
सम्पादयतु- ↑ अमरकोषः ३/३/२४९
- ↑ (ब्रह्मसूत्रम् १/१/१)
- ↑ (महाभाष्यम् पस्पशाह्निकम् १/१)