अमरकोशः

(अमरकोषः इत्यस्मात् पुनर्निर्दिष्टम्)

अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशोऽस्ति । शब्दार्थकोशा निघण्टुरिति कथ्यते । नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७) । 'अर्थान् निघण्ट्यत्यस्मान् निघण्टुः परिकीर्तितः' । अत्र शब्दानां सङ्ग्रहः समानार्थकाः पर्यायशब्दा अनेकार्थकाः शब्दाश्चात्रोपलभ्यन्ते । संस्कृते सर्वविधानां कोशानां मूलमस्ति वैदिकनिघण्टुः । यास्केन रचितो निरुक्तोऽस्य वैदिकनिघण्टोर्भाष्यम्।

अमरकोशस्य कर्तामरसिंहः । एष चतुर्थे शतके द्वितीयचन्द्रगुप्तस्यास्थाने विद्यमानेषु नवरत्नेष्वन्यतम आसीदिति श्रूयते । केचन वदन्त्ययं सप्तमे शतके विक्रमादित्यस्यास्थानयासीदिति । नामलिङ्गानुशासनमित्येतदस्यापरं नाम वर्तते। अत्र शब्दानामर्थेन सह लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं ग्रन्थोऽत्युपयुक्तो वर्तते ।

ग्रन्थस्वरूपम्

सम्पादयतु

अमरकोशः श्लोकरूपेण रचितोऽस्ति । अतः कण्ठपाठार्थं बहुसुलभं भवति । अमरकोशे त्रीणि काण्डानि सन्ति। स्वर्गादिकाण्डं भूवर्गादिकाण्डं सामान्यादिकाण्डं चेति । एकैकस्मिन् काण्डेऽनेके वर्गाः सन्ति। विषयानुगुणं शब्दा अत्र वर्गीकृताः सन्ति । नानार्थवर्गे विषयविभागोऽशक्य इत्यतोऽत्रान्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतमस्ति । शब्देन सहात्र लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं कोशोऽत्यन्तमुपयुक्तोऽस्ति ।

स्वर्गादिकाण्डम्

सम्पादयतु

स्वर्गादिकाण्डयेकादशवर्गाः सन्ति ।

यथा १ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः

४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः
७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः
१० नरकवर्गः ११ वारिवर्ग इति ।

भूवर्गादिकाण्डम्

सम्पादयतु

अस्मिन् काण्डे दशवर्गाः सन्ति।

यथा १ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः

४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः

७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः
१० शूद्रवर्ग इति ।

सामान्यादिकाण्डम्

सम्पादयतु

अस्मिन् षड्वर्गाः सन्ति।

यथा १ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः

४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्ग इति

वैशिष्ट्यानि

सम्पादयतु

अष्टाध्यायी जगन्मातामरकोशो जगत्पितेत्येषोक्तिरमरकोशस्य श्रेष्ठतां दर्शयति । संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमेऽमरकोशस्य कण्ठपाठोऽनिवार्यरूपेण योजित आसीत् । अमरसिंहस्तस्मिन् समये विद्यमानान् सर्वान् निघण्टूञ्च्छास्त्रान्तराणि च परिशील्यैवैतं ग्रन्थं रचितवानस्ति। अत एव ग्रन्थस्यारम्भे स लिखति समाहृत्यान्यतन्त्राणीति। व्याकरणशास्त्रे तस्य विशेषाभिरुचिरासीत् । पाणिनेरष्टाध्याय्याः सूत्रवार्तिकभाष्यादीनि सम्यक् परिशील्य ताञ्च्छब्दानमरकोशे योजितवानस्ति। अत एवामरसिंहो हि पापीयान् सर्वं भाष्यमचूचरदिति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धास्ति (अमरसिंहो व्याकरणभाष्यं समग्रं चोरितवान्) ।

व्याख्यानानि

सम्पादयतु

अमरकोशस्य चत्वारिंशद्व्याख्यानान्युपलभ्यन्ते । तेषु प्रमुखानि क्षीरस्वामिना विरचितममरकोशोद्घाटनं भानुदीक्षितेन विरचितं व्याख्यासुधा वन्ध्यघटीयसर्वानन्देन विरचितं टीकासर्वस्वं रायमुक्तेन विरचितं पदचरितं जिनेन्द्रभूदिना विरचितं काशिकाविवरणपञ्जिका ।

अमरकोशस्थाः केचन श्लोकाः

सम्पादयतु

पीठिकाश्लोकाः

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः।
सेव्यतामक्षयो धीरास्स श्रिय्यै चामृताय च॥
समाहृत्यान्यतन्त्राणि संक्षिप्त्यैः प्रतिसंस्कृतैः।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्।
स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्॥
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते॥
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्॥

स्वर्गः

स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे तिविष्टपम्॥

बुद्धिः

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥

भूमिः

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः॥
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥

नमस्कृतम्

स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्।

पूजितम्

वरिवसिते वरिवस्यितमुपासितं चोपचरितं च॥

ककारान्ताः

पद्ये यशसि च श्लोकश्शरे खड्गे च सायकः।
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ॥

बाह्यसम्पर्कतन्तुः

सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अमरकोशः&oldid=488098" इत्यस्माद् प्रतिप्राप्तम्