अमरकोशः
अमरकोशः (आङ्ग्लभाषा:Amarakosha) कश्चन प्रसिद्धः शब्दार्थकोशोऽस्ति । शब्दार्थकोशा निघण्टुरिति कथ्यते । नि+घटि(भाषार्थे) + णिच् "कुः" (उ १।३७) । 'अर्थान् निघण्ट्यत्यस्मान् निघण्टुः परिकीर्तितः' । अत्र शब्दानां सङ्ग्रहः समानार्थकाः पर्यायशब्दा अनेकार्थकाः शब्दाश्चात्रोपलभ्यन्ते । संस्कृते सर्वविधानां कोशानां मूलमस्ति वैदिकनिघण्टुः । यास्केन रचितो निरुक्तोऽस्य वैदिकनिघण्टोर्भाष्यम्।
- अमरकोशस्य कर्तामरसिंहः । एष चतुर्थे शतके द्वितीयचन्द्रगुप्तस्यास्थाने विद्यमानेषु नवरत्नेष्वन्यतम आसीदिति श्रूयते । केचन वदन्त्ययं सप्तमे शतके विक्रमादित्यस्यास्थानयासीदिति । नामलिङ्गानुशासनमित्येतदस्यापरं नाम वर्तते। अत्र शब्दानामर्थेन सह लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं ग्रन्थोऽत्युपयुक्तो वर्तते ।
ग्रन्थस्वरूपम्
सम्पादयतुअमरकोशः श्लोकरूपेण रचितोऽस्ति । अतः कण्ठपाठार्थं बहुसुलभं भवति । अमरकोशे त्रीणि काण्डानि सन्ति। स्वर्गादिकाण्डं भूवर्गादिकाण्डं सामान्यादिकाण्डं चेति । एकैकस्मिन् काण्डेऽनेके वर्गाः सन्ति। विषयानुगुणं शब्दा अत्र वर्गीकृताः सन्ति । नानार्थवर्गे विषयविभागोऽशक्य इत्यतोऽत्रान्त्यव्यञ्जनानुगुणं शब्दसंयोजनं कृतमस्ति । शब्देन सहात्र लिङ्गनिर्देशोऽपि कृतोऽस्तीति कारणतोऽयं कोशोऽत्यन्तमुपयुक्तोऽस्ति ।
स्वर्गादिकाण्डम्
सम्पादयतुस्वर्गादिकाण्डयेकादशवर्गाः सन्ति ।
यथा १ स्वर्गवर्गः २ व्योमवर्गः ३ दिग्वर्गः
- ४ कालवर्गः ५ धीवर्गः ६ वाग्वर्गः
- ७ शब्दादिवर्गः ८ नाट्यवर्गः ९ पातालभोगिवर्गः
- १० नरकवर्गः ११ वारिवर्ग इति ।
भूवर्गादिकाण्डम्
सम्पादयतुअस्मिन् काण्डे दशवर्गाः सन्ति।
यथा १ भूमिवर्गः २ पुरवर्गः ३ शैलवर्गः
४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः
- ७ ब्रह्मवर्गः ८ क्षत्रियवर्गः ९ वैश्यवर्गः
- १० शूद्रवर्ग इति ।
सामान्यादिकाण्डम्
सम्पादयतुअस्मिन् षड्वर्गाः सन्ति।
यथा १ विशेष्यनिघ्नवर्गः २ सङ्कीर्णवर्गः ३ नानार्थवर्गः
- ४ नानार्थाव्ययवर्गः ५ अव्ययवर्गः ६ लिङ्गादिसङ्ग्रहवर्ग इति
वैशिष्ट्यानि
सम्पादयतुअष्टाध्यायी जगन्मातामरकोशो जगत्पितेत्येषोक्तिरमरकोशस्य श्रेष्ठतां दर्शयति । संस्कृतभाषायाः साम्प्रदायिकाध्ययनक्रमेऽमरकोशस्य कण्ठपाठोऽनिवार्यरूपेण योजित आसीत् । अमरसिंहस्तस्मिन् समये विद्यमानान् सर्वान् निघण्टूञ्च्छास्त्रान्तराणि च परिशील्यैवैतं ग्रन्थं रचितवानस्ति। अत एव ग्रन्थस्यारम्भे स लिखति समाहृत्यान्यतन्त्राणीति। व्याकरणशास्त्रे तस्य विशेषाभिरुचिरासीत् । पाणिनेरष्टाध्याय्याः सूत्रवार्तिकभाष्यादीनि सम्यक् परिशील्य ताञ्च्छब्दानमरकोशे योजितवानस्ति। अत एवामरसिंहो हि पापीयान् सर्वं भाष्यमचूचरदिति व्याजस्तुतिः पण्डितगोष्ठीषु प्रसिद्धास्ति (अमरसिंहो व्याकरणभाष्यं समग्रं चोरितवान्) ।
व्याख्यानानि
सम्पादयतुअमरकोशस्य चत्वारिंशद्व्याख्यानान्युपलभ्यन्ते । तेषु प्रमुखानि क्षीरस्वामिना विरचितममरकोशोद्घाटनं भानुदीक्षितेन विरचितं व्याख्यासुधा वन्ध्यघटीयसर्वानन्देन विरचितं टीकासर्वस्वं रायमुक्तेन विरचितं पदचरितं जिनेन्द्रभूदिना विरचितं काशिकाविवरणपञ्जिका ।
अमरकोशस्थाः केचन श्लोकाः
सम्पादयतुपीठिकाश्लोकाः
- यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः।
- सेव्यतामक्षयो धीरास्स श्रिय्यै चामृताय च॥
- समाहृत्यान्यतन्त्राणि संक्षिप्त्यैः प्रतिसंस्कृतैः।
- सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम्॥
- प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित्।
- स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित्॥
- भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः।
- कृतोत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते॥
- त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
- निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक्॥
स्वर्गः
- स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
- सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे तिविष्टपम्॥
बुद्धिः
- बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः।
- प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥
भूमिः
- भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा।
- धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः॥
- सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा।
- गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥
नमस्कृतम्
- स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्।
पूजितम्
- वरिवसिते वरिवस्यितमुपासितं चोपचरितं च॥
ककारान्ताः
- पद्ये यशसि च श्लोकश्शरे खड्गे च सायकः।
- जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ॥
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि एतत्सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते : अमरकोशः |