अष्टाध्यायी

"महार्षि पाणिनी" कृत विश्वप्रसिद्ध संस्कृतव्याकरणग्रन्थ
(अष्‍टाध्‍यायी इत्यस्मात् पुनर्निर्दिष्टम्)

अष्टाध्यायी पाणिनेः रचना वर्तते। व्याकरणसूत्रैः ग्रथितस्यास्य ग्रन्थस्य अष्टौ अध्यायाः सन्ति, अतः ग्रन्थस्यास्य अष्टाध्यायी इति नाम।

निर्वचनम्

सम्पादयतु

अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्‍टाध्‍यायी',इति जगत्प्रसिद्धः संस्‍कृतव्‍याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारं वादयाञ्चकार । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव "महेश्वरादागतानि माहेश्वराणि" माहेश्वरसूत्राणि इति कथ्यन्ते । तेषाम् आधारेण एव पाणिनिः अष्टाध्यायी इति व्याकरणग्रन्थं लिलेख । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । प्रत्येकमध्याये चत्वारः पादाः भवन्ति । आहत्य अष्टाध्याय्यां ३२ पादाः सन्ति । अष्टाध्याय्यां व्याकरणस्य उपचतुस्सहस्रं(प्रायः३९६५) सूत्राणि सन्ति ।

अष्टाध्यायीस्थसूत्राणां सङ्ख्या

सम्पादयतु

कथ्यते हि पाणिनीयसंहितायां ३९९६ सूत्राणि सन्तीति यथोक्तम् -

त्रीणि सूत्रसहस्राणि तथा नवशतानि च ।

पष्णवतिश्च सूत्राणां पाणिनिः कृतवान् स्वयम् ।। इति ।

किन्तु सम्प्रति समुपलब्धे ग्रन्ये तु ३९८३ मितानि एव सूत्राणि सन्तीति कथ्यते । अत्र हि गुरुप्रसादशास्त्रिसम्पादिताष्टाध्यायीसूत्रपाठानुसारेण पाणिनीयशब्दानुशासनसूत्रसङ्ख्या प्रस्तूयते

अध्यायाः पादाः सूत्राणि ।

अध्यायाः पादाः सूत्राणि योगः
७५ ३५१
७३
९३
११०
७२ २६८/६१९
३८
७३
८५
१५० ६२५/१२४४
१८२
१७६
११७
१७८ ६३५/१८७९
१४५
१६८
१४४
१३६ ५५५/२४३४
१४०
११९
१६०
२२३ ७३६/३१७०
१९९
१३९
१७५
१०३ ४३८/३६०८
११८
१२०
९७
७४ ३६९/३९७७
१०८
११९
६८

सूत्रासङ्ख्यायां हीदमन्तरं योगविभागे व्याख्यातॄणां मतभेदेन सम्भवति । सूत्रेष्वपि बृद्धपाठे लघुपाठे च किञ्चिदतरमपि विद्यते । तच्च केचित्काशिका। कारेण सूत्रे वातकांशप्रक्षेपेण सञ्जातमिति मन्यन्तेऽपरे तु तदाचार्यंप्रवचनेनैव समुद्भुतमिति कथयन्ति ।।

पाणिनीयाष्टाध्याय्याः संक्षिप्तर्विषयसूचिः

सम्पादयतु


अष्टाध्याय्यां शब्दानुशासनसम्बद्धा ये ये विषयाः प्रतिपादितास्तेषामत्र सूचिः प्रस्तूयते । सामान्यतोऽष्टाध्याय्यां सह सम्बद्धा विषया मुख्यतस्त्रिषु भागेषु विभक्तों दृश्यन्ते ।

१. वाक्येभ्यः पदानां सङ्कलन–प्रथमद्वितीयाध्याययोः ।

२. पदानां प्रकृतिप्रत्यविभागः–नृतीयचतुर्थपञ्चमीध्यायेषु,

३. प्रकृतिप्रत्ययैः सह आगमादेशादीनां संयोजनेन परिनिष्ठितपदानां

निर्माणञ्च-षष्ठसप्तमाष्टमाध्यायेषु । तत्र हि प्रथममुपोद्धातस्ततश्वाष्टावध्यायाः सन्ति । उपोद्धा हिं 'अथ शब्दानुशासनम्' इति मङ्गलाचरणं, ग्रन्थाधिकारो ग्रन्थारम्भश्चे, प्रतिज्ञा ग्रन्थप्रयोजननिदिशो ग्रन्थनार्मानर्देशश्च । ततश्च चतुर्दशप्रत्याहारसूत्राणि । अथेति मङ्गलाचरणम्, अथेति संस्कारानन्तरमिति : ग्रन्थाधिकारिनिर्देशः ‘पुराकल्पे एतदासीत् संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्वाधीयते इति महाभाष्यात्[] प्राप्तसंस्कारो हि व्याकरणाधिकारी भवति इत्याशयेन अथेति ग्रन्थाधिकारः अथ योगानुशासनं' इत्यादाविव । शब्दानुशासनं ग्रन्थस्यास्य प्रयोजनम् नाम चास्य ग्रन्थस्य तदेव विषयानुसार, प्रतिज्ञा च । अथ शब्दानामनुशासनाय शब्दानुशासनं नाम ग्रन्थः प्रस्तूयते मयेत्याशयः । यथाऽऽह सृण्टिधरो भाषावृत्यर्थविवृतौव्याकरणशास्त्रमारभमाणो भगवान् पाणिनिमुनिः प्रयोजननामीव्याचिंख्यासुः प्रतिजानीते-‘अथ शब्दानुशास। नम्' इति । यथाऽऽह महाभाष्यकारश्च–अथेतिशब्दोधिकारार्थः प्रयुज्यते ।

शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्' इति । यथा च न्यासकारो । जिनेन्द्रबुद्धिः-( अथ शब्दानुशासनम्' , इत्यत्र शब्दानुशासनप्रस्तावादेव ।।

हि शब्दस्येति सिद्धे ( स्वं रूपं शब्दस्याशब्दसंज्ञा[] इत्यत्र शब्दग्रहणं ! यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्यते नार्थपरनिर्देश इति । ज्ञापनार्थम्' इति । महाप्राज्ञो दयानन्दश्च ‘अथ शब्दानुशासनम्' इति सूत्रं प्रतिज्ञासूत्रं मन्यते । यथोक्तम् -

इदं सूत्रं पाणिनीयमेव । प्राचीनलिखितपुस्तकेषु आदाविदमेवास्ति ।। दृश्यन्ते च सर्वेष्वार्षेषु ग्रन्थेष्वादौ प्रतिज्ञासूत्राणीदृशानि' इति ।[] केवलं मेधातिथिरेव सूत्रमिदं. केवलं सूत्रसन्दर्भ मन्यते । मनुस्मृतिभाष्ये[] तच्चिन्त्यमेव । स हि कथयति -

पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । लथा हि भगवान् पाणिनिरनुक्त्वैव प्रयोजनम् ‘अथ शब्दानुशासनम्' इति सूत्रसन्दर्भमारभते' इति । मैंधातिथेरेषः, प्रमादः स्वव्याचिख्यासितमनुस्मृतिग्रन्थप्रयोजनाकथनदोषाच्छादनायैव न त्वज्ञानतः । तत्र शब्दानुशासनमेव प्रयोजनं ग्रन्थाभिधानञ्च स्पष्टमेव । उक्तमेवं सूत्रलक्षणे -

अल्पाक्षरमसान्दीग्धं साखद्विश्वतो मुखम् ।

अदुष्टमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। इति ।

तेन सूत्रस्य सारवत्ता तेनाज्ञातेति नैव युज्यते । स हि जाननेव. स्वाभीष्टः सिद्धये तथा व्याख्याति चेन्नीचपथेन गच्छज्जलं केन निरुध्यते। ततश्च प्रत्याहारसूत्राणि । तानि अइउण प्रभृतीनि चतुर्दश । तानि हि " माहेश्वराक्षरसमान्नायमधारीकृत्य भगवता पाणिनिना प्रणीतानि नै तु साक्षान्माहेश्वराणि । शम्भुप्रोक्त पस्त्रिषष्टिवर्णेभ्यः प्रत्याहारोपयोगिद्विचत्वारिंशद्वणनादाय भगवता पाणिनिनो प्रत्याहारसिद्धये निर्मितान्येतानि सूत्राणि । तथ्यमेतदुपेक्ष्यैव यदि कश्चित्तानि माहेश्वराणीति मन्यते यथा नन्दिकेश्वर-भट्ठौ जिदीक्षितादयः सानुयायिनस्तदपि दुर्भाग्यमेवास्माकम् । थथा च स्वयमेव भगवता महाभाष्यकारेण ‘‘एषा ह्याचार्यस्य शैली लक्ष्यते यत्तुल्यजातीयोस्तुल्यजातीयेष्वेवोपदिशति-अचोऽक्षु हलो हल्धुं ‘इति कथनेन स्वीकृतेऽपि प्रेत्या हारसूत्राणां पाणिनीयत्वे तदप्युपेक्ष्य कश्चित्स्वप्रज्ञौत्कर्षं दर्शयति चेत् तदापि ।। वयं तदेव स्मरामः-त्वं चेन्नीचपथेन गच्छासि पयः कस्त्वां निरोद्ध क्षेमः' । इति ।

तदस्मिन् द्विचत्वारिंशद्ववर्णात्मकचतुर्दशसूत्रौधे भगवान् हि पाणिनिद्विचत्वारिंशदेव प्रत्यात्याहारान् निर्दिशति । तच्च यथा -

“एकस्माद् अणवटाः द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।

ज्ञेयौ चयौ चतुभ्य रः पञ्चभ्यः शलौ षड्भ्यः ।।” इति।

तेषाञ्च गणना यथा—ङजणवटा अनुबन्धा एकैकमकारादिवणत्परों धारिता एकैकं प्रत्याहारं जनयन्ति । यथा-एङ् य, अणु, छेव्, अ, इतिपच्च झ, भष् इति द्वौ, अक्, इक्, उक्, इतिशयः, अणु, इण, यण, इतित्रयः, अम्, यम्, ऊम्, इतित्रय इति नव, अच्, इच्, एचू, ऐच् इति चत्वारः, ययु, • मय्, झय्, खय् इति चत्वार इति अष्टौ, यर्, झर्, शर्, चर्, संर् इति पञ्च, अश्, हश्, जश, वश, झश, इति पञ्च, अल्, हल्, व, र, शल्, हल्, इति पञ्च इंति एकचत्वारिंशत्, अम्' इत्यपि च कृत्वा प्रत्याहारी द्वचत्वारिंशदेव । तंत्र, एङ-एङ: प्राचां देशे, य-अतो दीर्घा यनि, अणु-ठूलोपेपूर्वस्य दीघोऽणः । छन्-नश्छव्यप्रशान् । अट्-शश्छोऽटि, झड्-एकाचो वश भष् झषन्तस्यस्ध्वोः , भष्-एकाचो वशो भय् झषन्तस्य स्ध्वोः, अक्-अकः सवर्णे दीर्धः, इक्-, इकोऽसंवर्गे शाकलस्य ह्रस्वश्च, उक्-श्रुयुकः किति, अणु-अणुदित्सवर्णस्य चाप्रत्ययः, इण-इण्कोः, यण-इको यणचि, अम्-पुमः खय्यम्परे, यम्-हलो यमा यमि लोपः, ऊम्-ङमो ह्रस्वादचि ङमुट् नित्यम्, अच्-नाज्झली, इंच्नादिचि, एच्-एचोऽयंवायावः, ऐच्-आदेच उपदेशेऽशिति, यय्-अनुस्वारस्य ययि परसवर्णः, मय्-मय उबो वो वा, झय्-झयो होऽन्यतरस्याम्, खय्शपूर्वाः खय्, दर्-यरोऽनुनासिकेऽनुनासिको वा, झर्-झरो झरि सवर्णे, खर्खरि च, चर्-अभ्याशे चर्च, शर्-शर्पूर्वाः खय्, अश्-भोभगो-अघो अपूर्वस्य योऽशि, हश्-हशिच, बर्-एकाचो वशो भष् झषन्तस्य स्ध्वोः, जश्-झलां .: जश् झशि, झश्–झलां जश् झशि, अल्-अपृक्त एकाल्प्रत्ययः, हल्-हलन्त्यम्, वेल-लोपो व्योर्वलि, रल्-रलो व्युपधाद्धलादेः सेच, शल्-शल इगुपधादनिटक्सः, झल्-हुंझल्भ्यो हेधि । अय्-जयन्ताड्डः। वर्णानामुपदेशः प्रत्याहारार्थः । प्रत्याहारश्च लाघवेन शास्त्रप्रवृत्यर्थः । यथा शषस इति कथने शर् इत्येव, अ इ उ ऋ ल ए ओ ऐ औ हयवर इति * कॅथने अट् इत्येव ।

'ततश्व प्रथमाध्यायः प्रारभ्यते यत्र हि शास्त्रव्यवहार्यसंज्ञापरिभाषादीनां व्यवस्था कृताऽस्तिः। तत्र चत्वारःपादाः । प्रथमे पादे पञ्चसप्ततिः सूत्राणि । बृद्धिरादैजित्यारम्य ‘ए प्राचां देशे प्रभृतीनि । पादोऽयं संज्ञापरकः । अत्र हि वृद्धि-गुण-संयोग-अनुनासिक-सवर्ण - प्रगृह्य-घु-घ-सङ्ख्या -षट्-निष्ठा-सर्वनामअव्यय-सर्वनामस्थान - विभाषा-सम्प्रसारण-लोप-टि-उपधा-प्रत्याहारं-वृद्ध-संज्ञाः क्रियन्ते यासु घु-घ-वृद्धसंज्ञाः पाणिनिकल्पिताः शेषाश्च परम्परागताः । संज्ञाभिः सह परिभाषाणामपि सादृश्यसम्बन्धने विषयोपयोगितया परिभाषासूत्राण्यपि पठितानि । तत्र आद्यन्तौ टकितौ (१।१।४६) इत्यारभ्य द्विवंचनेऽचि (११॥५९) पर्यन्तं पुनश्च प्रत्ययलोपे प्रत्ययलक्षणं (१॥१॥६२) ततश्च तस्मिन्नितिनिर्दिष्टे पूर्वस्य (१।१ ६६) इत्यारभ्य येन विधिस्तदन्तस्य (११।७२) इतिः पर्यन्तञ्च परिभाषाव्यवस्था। तत्रापि प्रथमसूत्रादारभ्य दशमसूत्रपर्यन्तं वर्णसम्बन्धिसंज्ञा, एकादशतमसूत्रादारभ्य त्रयश्चत्वारिंशत्तमसूत्रपर्यन्तं : शब्दसंज्ञा, चतुश्चत्वारिंशत्पञ्चचत्वारिंशतमसूत्रयोरार्थीसंज्ञा सम्प्रसारणसंज्ञी च षष्टितमे आर्थीसंज्ञा, चतुषष्टिपञ्चषष्टितमसूत्रयोरर्थसंज्ञा, पादान्ते बृद्धसंज्ञा ... च कृतास्ति । पादेऽस्मिन् पूर्णतः शास्त्रव्यवहार्यसंज्ञानां व्यवस्था कृताऽस्ति । प्रकरणमात्रव्यवहार्योपपदप्रभृतिसंज्ञानां तु तत्तत्प्रकरणे एव व्यवस्था कृताऽस्ति ।

प्रत्ययसम्बद्धसंज्ञाविधानादारभ्यतेऽस्य त्रिसप्ततिसूत्रात्मकोद्वितीयः पादः । तादृशं संज्ञाविधानं गाङ्कुटादिभ्योञ्णिन् ङित् इतिप्रथमसूत्रादारभ्य रलो व्युपधाद्धलादेःसँश्च इति षड्वितितमसूत्रपर्यन्तं चलति । किञ्चैतत् संज्ञया सहातिदेशोऽपि । अतोऽस्य पृथग्रूपेण विन्यासः । सप्तविंशतितमसूत्रादारभ्य ह्रस्वादिसंज्ञा प्रवर्तते ताऽपि एकोनत्रिशत्तमसूत्रादारभ्य चत्वारिशत्तमसूत्रपः । यन्तं वैदिकमुदात्तादिविवरणम् । ह्रस्वादयो हि वर्णसम्बद्धसं ज्ञास्तेनज्ञकचत्वाः रिंशत्तये वर्षविषयिंका अपृक्तसंज्ञा कृता । द्वाचत्वारिशत्तमसूत्रादारभ्य चतुश्चत्वारिंशत्सूत्रपर्यन्तं समाससम्बद्धे कर्मर्धारय-उपसर्जनसंज्ञे कृते पञ्चचत्वाः रिशत्तम षटचत्वारिंशत्तमसूक्तयोः प्रातिपदिकसंज्ञाविधानं ततश्च सप्तचत्वारिश त्तम सूत्रादारभ्य त्रिषष्टितमसुत्रपर्यन्तं प्रातिपदिकसम्बद्ध ह्रस्वादिविधानं, शेषेषु एकशेषविधानञ्च । अत्रौव ५९-६३ तमसूत्रेषु वचनव्यवस्था, कृताऽस्ति ।

'धातुसंज्ञया सह प्रारभ्यते त्रिनुवतिमितसूत्रात्मकस्मृतीयपादः । धातून नामाधीनत्वान्नामान-तरं धातुनिर्देशो - युक्त एव । ततश्च द्वितीयसूत्रादारभ्य अष्टमसूत्रपर्यन्तमित्संज्ञाविधानं कृतम् । धातूनामनुबन्धबाहुल्यात्तत्रेत्संज्ञाविधानं .. युक्तमपि । नवमसूत्रे इत्संज्ञकस्य लोपविधिः, ततश्च दशमैकादशतमसूत्रयोरिद्विधौ नियमाः, ततश्च द्वादशतमसूत्रादारभ्य आपादसमाप्त र्धातुसम्बद्धा आत्मनेपदपरस्मैपदनियमाः यत्र विप्रतिषेधनियममनुसृत्य प्रथमं द्वादशतमासूत्रादारभ्य सप्तसप्ततितमसूत्रपर्यंन्तमात्मनेपदनियमाः शेषेषु परस्मैपदनियमाः । अवशिष्टसंज्ञाविधानादारभ्यते दशोत्तरैकशत सूत्रात्मकचतुर्थपादः । तत्र प्रथम नियमसूत्रं द्वितीयं परिभाषासूत्रम् । तृतीयसूज़ादारभ्य षष्ठसूळपर्यन्तं नदीसंज्ञा, । तदवशिष्टरूपेण सप्तमाष्टनवमसूत्रैः घिसंज्ञाविधानं, ततश्च दशमसूत्रे ह्रस्वसंज्ञा, एकादशद्वादशेयोदीर्घसंज्ञा, त्रयोदशे अङ्गसंज्ञा, चर्तुदशतमादारभ्य सप्तदशतम पर्यन्तं पदसंज्ञा, ततश्च द्वयोःसूत्रयोर्भसंज्ञा, एकविंशतितम द्वाविंशतितमयोः बहुवचन-द्विवचनैकवचन संज्ञाः योविंशतितमसूत्रादारम्य पञ्चयञ्चाशत्तमसूत्रपर्यन्तं कारकंविचारः स च विप्रतिषेधनियममनूसत्यैव अपादान-सम्प्रदान-करणअधिकरण-कर्मकर्तृक मेण निर्दिष्टः । तत्रापि २४-३१ सूत्रेषु अपादानविचारः ३२-४१ सूत्रेषु सम्प्रदानविचारः, ४२-४४ सूत्रेषु करणविचारः ४५-४८, सूत्रेषु अधिकरणविचारः, ४९-५३ सूत्रेषु कर्माधिकारः, ५४-५५ सूत्रयोः कर्तृ विचारः, ५६-५८ सूत्रेषु. निपातविचारः, ५९ तमसूत्रे उपसर्गसंज्ञा, ६०-७९ सूत्रेषु गेतिसंज्ञाविचारः, ८०-८२ सूत्रेषु उपसर्गगतिसंज्ञकशब्दप्रयोगविचार, ८३-९८ सूत्रेषु कर्मप्रवचनीयविचारः, ९९ तमसूत्रे परस्मैपदसंज्ञा, १०० तमसूत्रे आत्मनेपदसंज्ञा, एकाधिकशततमसूत्रे प्रथममध्यमोत्तमपुरुषसंज्ञा, १०२-१०३, सूत्रयोः एकद्विवचनसंज्ञा, चतुरधिकशततमसूत्रे विभक्तिसंज्ञा, १०५-१०६ सूत्रयोर्मध्यमपुरुषविचारः, १०७ सूत्रे उत्तमपुरुषविचारः, १०८ सूत्रे प्रथमपुरुष:. नवाधिकशततमंसूत्रे संहिताविचारः दशाधिकशततमसूत्रे अवसानसंज्ञा विचारश्च ।

विशेषपदसङ्कलनात्मको द्वितीयोऽध्यायः । तत्र हि चत्वारः पादाः । तत्र प्रथमः पादो द्विसप्ततिसूत्रात्मकः पदसामान्यविषयपरः । तत्र हि प्रथमद्विती सूत्रयोः समासरूपविशिष्टपदानां विवेचनं, तृतीयचतुर्थयोः समासाधिकारविषयनिरूपणं, ततश्च शेषसूत्रेषु समासविचारो यत्र ५-२१ सूत्रेषु अव्ययीभावसमास विवेचनं, शेषेषु तत्पुरुषविवेचनं कुंतमस्ति । द्वितीयपादे १-२२ सूत्रेषु शेषत: परुषविवेचनं, २३-२८ सूत्रेषु बहुव्रीहिविवेकः, २९ सूत्र द्वन्द्व समासविचारः, शेषेषु सर्वविधसमासोपयोग्युपसर्जनादिविवेचनम् । तत्र हि पूर्वपदार्थप्रधानत्वात्वात्प्रथममव्ययीभावस्ततश्चोत्तरपदार्थप्रधानस्तत्पुरुषस्तस्यैव शेषत्वेन ततोऽत्यपधानबहव्रीहिविवेकः, ततश्च सर्वसमासप्रधानद्वन्द्व समासविवेक इति समास विवेचनक्रमस्याधारः ।

तृतीये हि पादे त्रिसप्ततिसूत्राणि । तेषु हि सुब्विभक्तिविवेकः । तत्र हि अनभिहिते इत्यधिकृत्य द्वितीयाचतुर्थीतृतीयापञ्चमीसप्तमीप्रथमाषष्ठी विचार अमेग, २-१२ सूत्रेषु द्वितीयाविचारः, १३-१७ सूत्रे चतुर्थीविवेकः १८-२७, सूत्रेषु, तृतीयाविवेकः, २८-३५ सूत्रेषु पञ्चमी विवेकः, ३६-४५ सूत्रेषु सप्तमीविचारः ४६-४९ सूत्रेषु प्रथमाविचारः, ५०-७३ सुत्रेषु षष्ठीविचार इति विभक्तिविवेकः ।। । चतुर्थे हि पादे पञ्चाशितिसूत्राणि येषु १-३१ सूत्रषु लिङ्गवचनविधान, ३२-४३ सूत्रेषु अन्वादेशविधानं,५३-५७ सूत्रेषु आर्धधातुके इत्यधिकृत्य धात्वादेशविधानं, ५८-८४ सूत्रेषु नुग्विधानं, अन्ते च ‘लुटः प्रथमस्य डारौरसः' इति ।

तृतीयोऽध्याये प्रत्ययविचारः पदानां प्रकृतिप्रत्ययविभागेन । तत्रापि चत्वारः पादाः । तत्र प्रथमे पादे पञ्चाशदधिकशतसूत्राणि । तत्र १-४ सूत्रेषु प्रत्यय सामान्यविवेकः ५-२२ सूत्रेषु प्रत्ययान्तधातुविचार', ३३-८६ सूत्रेषु विकरणः । विवेकः, ८७-९० सूत्रेषु सम्बद्धविषयचर्चा, ९१-१३२ सूत्रेषु नामविशेषेणीत्पादककृत्यप्रत्ययविचारः १३३-१५० सूत्रेषु विशेषणोत्पादककृत्प्रत्ययानां विधानं कृतमस्ति । कृत्यप्रत्ययेषु तव्यत्तव्य-अनीयर-यत्-क्यप्–ण्यत् प्रत्ययाः कृत्प्रत्ययेषु ण्वुल्तृच्-ल्यु-णिनि-अच्-क-श-ण ण्वुन-स्थक-युट्-वुनप्रत्यया 'अत्र निरूपिताः ।।

द्वितीयपादे अष्टाशीत्यधिकशतसूत्राणि सन्ति । तेषु हि अवशिष्टकृत्प्रत्ययानामेव निरूपणं कृतमस्ति । तत्र हि अणू-क टक्-अच्-ट-इन-खशु-खेचूड-णिनि-ख्युन्-खिष्णुच् - खुक-क्विन्-कन् - क्विप् - ण्वि-युट् - विट् -ण्विन्

क्वनिप्-अतृन्-कानच्-क्वसु-शतृ-शान-शानन्-चानश्-तृन्-इष्णुच्-ग्स्नु-क्नु-धिनु.', वुञ्-युच्-उकञ्षाकन्-इनि-आलुच् - रुक्मरच्-घुरच्-कुरच्-क्वरप्-र-उ-कि-किने: ननिङ्-आरु-कुक्-लुकन्-वरच्-डे-ढटन्-इत्र-क्तप्रत्यया निरूपिताः । ।

तृतीयपादे षट्सप्तत्युत्तरशतसूत्राणि सन्ति । तत्र १-३ सूत्रेषु उणादिप्रत्यय विधानं, अष्टादशतमसूत्रतो भावे इत्यधिकृत्यप्रत्ययव्यवस्थापन यत्र घबू-कणच्इनुण-अच्-अप्-ण-क-घ-क्त्रि-अथुच्-नङ- नन्-कि-क्तिन्-क्यपु-श-अ-अङ्-युच्ण्वु लूवुच्-अनि-क्तल्युट्-घ-खल्-प्रत्यया प्राधान्येन प्रदर्शिताः । १३१-१७६ सुत्रेषु वर्तमाने लट्[] इत्योरभ्य ‘उणादयो बहुलम्'[] इत्यन्तेसूत्रोक्तप्रत्ययानां कालानुसरिप्रंयोगनिरूपणम् । चतुर्थंपादो हि सप्तदशाधिकशतसूत्रात्मको यत्र १-७६ सुत्रेषु, प्राधान्येन अव्ययरूपकृत्प्रत्ययांनां निरूपणं, ७७-११७ सूत्रेषु ‘लस्य' इत्यारभ्य आदेशनिरूपणं कृतम् ।

चतुर्थेऽध्याये प्राधान्येन नामतो नामोत्पत्तिर्मुख्यविवेच्यविषयः तत्रापि चत्वारः पादाः । तत्र प्रथमो पादः १७८ सूत्रयोः सूत्रात्मको यत्र प्रथमद्वितीय सुविभक्तिविधानं, ३-८१ सूत्रेषु स्त्रीप्रत्ययनिरूपणं तत्रापि ३-१३ सूत्रेषु साधारणस्त्रीप्रत्ययविवेकः १४-८१ सूत्रेषु ‘अनुपसर्जनात्' इत्यारभ्य अनुपसजैनस्त्रीप्रत्ययविधानं कृतम् । ८२-१७-९ सूत्रेषु तद्धितप्रत्ययविधानं यत्र प्रथम अस्वार्थकतद्धितप्रत्यया निरूपिताः सन्ति । द्वितीये हि पादे १४५ सत्राणि । तत्रापि तद्धितप्रत्ययविचारः कृतस्तेन रक्त' रागात् इत्यारम्य पादसमाप्तिपर्यन्तमेव । तृतीये हि पादे १६८ सूत्राणि तद्धितप्रत्ययानामेव विवेकः कृतः ।। चतुर्थे च पादे १४४ सूत्राणि-तेष्वपि प्राग्वत् । अध्यायेऽस्मिन् प्राधान्येन अणूठेक्-यत्प्रत्ययावां महाधिकारः । । 'पञ्चमेऽप्यध्याये ताद्धितप्रत्ययानामेव विचारः । तत्रापि चत्वार, पादाः । तत्र प्रथमे हि पादे १३६ सूत्राणि यत्र तद्धितप्रत्ययानामेव विचारः प्रसरति ।। द्वितीये च पादे १४० सूत्राणि तेष्वपि प्राग्वत् । तृतीये हि पादे ११९ सूत्राणि यत्र प्राग्दिशो. विभक्तिः' इत्यारभ्य स्वाथिकप्रत्ययानां विधानं कृतमस्ति । तत्रापि १.३६ सूत्रेषु विभक्तिसंज्ञकस्वाथिकतद्धितप्रत्ययनिरूपणं ततश्च केवलस्वार्थकतद्धितप्रत्ययविधानम् । चतुर्थे हि पादे १६० सूत्राणि । तत्रापि १-६७ सूत्रेषु स्वाथिकतद्धितप्रत्ययानामेव क्रमः । ६८-१६० सूत्रेषु समासान्तप्रत्यय विधानम् । ततः समाप्नोति तद्धिताधिकारः। समासान्तप्रत्यया अपि प्रक्रियादृष्ट्या तद्धितप्रत्यया एव ।

षष्ठेऽध्याये प्रधान्येन धातुकार्यनिर्देशः । तत्रापि चत्वार एव : पादाः ।। प्रथमें हिं पादे २२३ सूत्राणि । १-१२ सूत्र षु द्वित्वविधिः, १३-४४ सूवेषु मप्रसारणादिविधिः, ४५-७१ सूत्रेषु आत्वविधिश्च । ७२-१५७ सूत्रेषु संहिताधिकारः । ५८-२२३ सूत्रेषु स्वरविधिः ।

द्वितीये पादे १९९ सूत्राणि यत्र हि स्वरविवेक एव चलति । तृतीये पादें १३९ सूत्राणि । तत्र हि १-२४ अलुगाधिकारः, २५-३३ आनङ्ङधिकारः; ३४-४२ सूत्रेषु पुंवद्भावाधिकारः, ४३-४५ सूत्रेषु ह्रस्वाधिकार-, ततश्च. आत्वाद्यागमविचारः १११-१३९ सूत्रेषु दीर्घाधिकार इति ।

चतुर्थे हि पादेः १७५ सूत्राणि तेषु अङ्गसम्बन्धिकार्य निर्दिष्टमस्ति । तत्र १-१८ सूत्रेषु दीर्घविचारः, ततश्च १९-२२ शुडागमादिकार्याणि, २३-३३ ।। न:लोपप्रकरणं, ततश्च इयादिविविधाङ्गकार्याणि, सप्तमाध्यायः प्रत्ययकार्यसम्बद्धः । तत्रापि चत्वारः पादाः । प्रथमे पादे हि १०३ सूत्राणि यत्र १-४९ सूत्रेषु प्रत्ययसम्बद्धकार्याणि, ततश्च ५०-५१ सूत्रयोरसुगागमः, ततश्च सुनुट् नुम्-असुड्-अनङ्-आम्-अम्-इत्-उदागमाः ।।

द्वितीये पादे ११८ सूत्राणि । तत्र १-७ सूत्र षु वृद्धिविचारः, ८-११८ इड्भावादिविचार इतरकार्याणि च । तृतीये पादे १२० सूत्राणि । तेष्वपि प्राग्वदेव । चतुर्थे पादे ९७ सूत्राणि । तत्रापि प्राग्वदेवः।

अष्टमेऽध्याये हिं पदसम्बद्धकार्य निदश्यते । तत्रापि चत्वारः पादाः । प्रथमे पादे ७४ सूत्राणि सन्ति । तत्र १-१५ सूत्रेषु पदद्वित्वविधिः । ततश्च । ‘पदस्य’ ‘पदात्' इति प्रारभ्यः पदादेशाः । द्वितीये हि पादे १०८ सूत्राणि । । तत्र ‘पूर्वत्रासिद्धम्' इत्यारभ्यअसिद्धकाण्डविवेकः । तृतीये पादे ११९ सूत्राणि । तेष्वपि प्राग्वत् । तत्रापि ५५-११९ सूत्रेषु सत्वविधानम् ।। । चतुर्थ पादे हि ६८ सूत्राणि । तत्र १-३९ सूत्रेषु णत्वविधानं, ततश्च । चुत्व-ष्टुत्व-द्वित्व-जश्त्व-चर्व-छत्व-लोपादिविचार इति संक्षेपतः पाणिनोयशब्दानुशासनस्य विषयसूचिः । अष्टाध्याय्याश्चत्वारो भागाः । तत्र प्रथमद्वितीयतृतीयाध्यायाः, चतुर्थपञ्चमाध्यायौ, षष्ठोऽध्यायः, सप्तमाष्टमाध्यौ च । सामान्यतः संज्ञापंरिभाषादिकार्याणि, धातुकार्याणि, पदकार्याणि, विविधकार्याणि चेति चत्वारः प्रतिपाद्यविषयाः। • पाणिनिंना हि स्वग्रन्थलाघवाय प्रत्याहारंगणपाठः संज्ञाविधानञ्चेति त्रिविधमुपकरणमवलम्बितमिति प्रागेवोक्तम् । तत्र हि प्रत्याहोराः पाणिनिपूर्वमपि प्रचलिता एवासन् कामं पाणिनिना ते परिवद्धताः सम्भवन्ति । ऋकतन्त्र ऽप्युक्तम्-‘अथ वर्णाः संज्ञाप्रत्याहारसमाः'[] इति ।

गणपाठश्च आपिशल्यादिकृतोऽपि विद्यत एव ।

संज्ञाविधानमपि पूर्वव्याकरेषु विद्यमानमेव ।।

तत्र - कतिचित्संज्ञास्तु पाणिनिना पूर्वव्याकरणतो यथा स्वरूपं वा स्वल्पं वा पूर्णतः 'संशोध्य गृहीताः कतिचित्तु स्वयमेवोद्भाविताश्वत्यनुमीयते । संज्ञाश्च . द्विविधा लघ्वी महती च । एकवर्णात्मिका लघुसंज्ञा यथा घ-घि-धु-भ-टिप्रभृतयः ।। 'एकाधिकवर्णयुक्ता महासंज्ञा गुणतद्धिप्रभूतयः । तासु महासंज्ञास्तु आचार्येण पूर्वग्रन्थेभ्य एवं स्वीकृताः किन्तु समस्ती एव लघुलंज्ञाः, कतिचिन्महासंज्ञा अपि तेन स्वयमेवोद्भाविता अपि । यथोक्त वैदिकाभरणभाष्ये[] -

अन्वर्थत्वं महासंज्ञा व्यञ्जन्त्यर्थान्तराणि च ।

पूर्वाचार्यैरतस्तास्तु सूत्रकारेण चाश्रिताः ॥ इति ।

वृद्ध-इ-गोत्र-युव-तद्राज-कृत्यसंज्ञाश्च महासंज्ञा आचार्यकृता इत्युच्यन्ते ।। तर वृद्धिर्यस्याचामादिस्तद्वृद्धं, त्यादादीनि च' इति कृता वृद्धसंज्ञा, उपदेशेऽ. जनुनासिक इत् प्रभृतिसूत्रकृता इत्संज्ञा, अपत्यं पौत्रप्रभृति गोतं इति गोत्रसंत्रा ( पूर्वीचार्यास्तु गोत्रस्य वृद्धमिति संज्ञा' कुर्वन्ति स्म ) 'जीवति तु वंश्ये ।। • युवा' इति युवासंज्ञा, ते तद्राजाऽइति, तद्राज़संज्ञा, 'यू स्त्र्याख्यौ नदी' इति । नदीसंज्ञा च । नदीसंज्ञाविषये केचचिद्धि पाणिनिरुपहस्यते कथनेनानेन-

पाणिनेनं नदीगङ्गा यमुना वा नदी स्थली।

प्रभुः स्वातन्त्र्यमापन्नो यदिच्छति करोति तत् ।।

‘यू स्त्र्याख्यौ नदी' इति ईकारान्तमूकारान्तञ्च नित्यस्त्रीलिङ्ग नदीसंज्ञक

भवति न तु आकारान्तमंपि । तेन हि स्थली नदी भवति न तु गङ्गा वा यमुनेति । ।

अधिकारस्यानुवृतिहि पाणिनीयाष्टाध्याय्या जीवनम् । स चाधिकारस्त्रिप्रकारः कश्चिदेकदेशस्थः सर्वंशास्त्रमभिज्वलयति, यथा प्रदीपः सुज्वलितः |, संर्ववेश्माभिज्वलयति । अपरोऽधिकारो यथा रज्ज्वायसा वा बद्धं काण्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण । अपरऽधिकारप्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । प्रथमप्रकारोऽधिकारो यथा “षष्ठीस्थाने योगाः इति । द्वितीयप्रकारोऽधिकारो.यथा ‘अभिनिवशश्च' इति सूत्रे 'आधारोऽधिकरणम्' इति सूत्रादाधारग्रहणम् । एतत्प्रकारकोऽधिकारः शास्त्रे यत्र तत्र व्यवस्थितः । तृतीयप्रकारोऽधिकारोऽनिर्धारितसम्बन्धविशेषं निरूपयति । यथा ‘पूर्वत्राऽसिद्धम् इत्यत्र ।

स चाधिकारस्त्रिप्रकारेण प्रवर्तते-सिंहावलोकनन्यायेन, मण्डूकप्लुतिः न्यायेन गङ्गाप्रवाहिन्यायेन च ।

तत्र सूत्रस्याधिकारस्य अग्रतः पृष्ठतश्च प्रवर्तनं सिंहावलोकनम् । यथा ‘उपपदमतिङ’ ( २।२।१९ ) इत्यस्य 'कुगतिप्रादयः' ( २।२।१८) इत्यनानुवृत्तिः । एकत्रोक्तरूपक्रमं विहायापि अन्य ग्रहणं मण्डूकप्लुतिः । यथा--इको । यणचि ( ६।०१७७ ) इत्यत्र प्रोक्तस्य 'अचि' इत्येतस्य ‘अवङ स्फोटानस्य । ( ६१।१२३ ) इत्यत्र ग्रहणम् । गङ्गाप्रवाहन्यायंश्च क्र मेणानुवर्तनमुः। यथा ‘अत इन्’ (४१।९५.) इत्यत्र पठितस्य इञ् इत्येतस्य ‘वाह्लादिभ्यश्च ॥४॥ १॥९६ ) इति सुत्रे ग्रहणमिति । तदित्थं सम्पद्यतेऽकालकं पाणिनीयं शब्दानुशासनं पाणिनिप्रोक्तम् ।

पाणिनेर्ग्रन्थाः

सम्पादयतु

पाणिनिह भगवान् शब्दानुशासनांतिरिक्त तत्पूर्तये अन्यानपि ग्रन्थान्प्रावोचत् । ते हि धातुपाठ-गणपाठ-लिङ्गोनुशासन-फिट्सूत्र-परिभाषापाठसंज्ञकाः सन्ति । केचिद्धि उणादिसूत्राण्यपि पाणिनिप्रोक्तानि मन्यन्ते । एतदतिरिक्त शिक्षाग्रन्थोऽपि पाणिनिप्रोक्तत्वेन सम्मतः। तदतिरिक्त जाम्चवतीविजयं नाम महाकाव्यमपि पाणिनिप्रणीतत्वेन प्रसिद्धमस्ति । प्रसङ्ग ऽस्मिन्निदमवधेयं यत्साहित्यं हि पञ्चविधं दृष्टं प्रोक्त उपज्ञातं कृतं व्याख्यातञ्च । तत्र हि दृष्टं नाम प्रतिभाशक्तरा ज्ञानविषयीकृतं विद्यमानवाङ्मयम् । यथा । वेदमन्त्रा ऋषिभिदृष्टा न तु प्रणीताः । पाणिनिरपि दृष्टं साम[] इति परिभाषते । अत्र योगौ विभज्यते । तत्रं दृष्टमित्यर्थे यथाविहितप्रत्यय भवन्ति । साम इति सम्बन्धे दृष्टमित्यर्थेऽण् भवतीति । यथा वसिष्ठेन दुष्ट साम वसिष्ठम् । मधुच्छन्दसा दृष्टं माधुन्छन्दसम् । अत्र हि मण्डूकप्लूतिन्यायेंन अणोऽनुवृत्तिः ।

द्वितीयं हि शास्त्र प्रोक्तम् । प्रोक्तमित्युपदिष्टम् । पाणिनिः इदं तेन प्रोक्तम्'[१०] सूत्रेण जनयति । विद्यमानस्य शास्त्रस्य स्वभाषया प्रवचनमेव प्रोक्तमिति । प्रोक्त हि प्रवक्तुःस्ववैशिष्ट्यमपि समन्वितं भवति । तृतीयान्तेन प्रोक्तमित्यर्थे यथायथं प्रत्यया भवन्ति इति सूत्राशयः । यथा पाणिनिना प्रोक्त पाणिनीयम्, इत्युदाहणम् । . उपज्ञातमिति ग्रन्थप्रवक्त्रा स्वमनीषिकया विज्ञातम् । तच्च विद्यमानं वा प्रकल्पितमपि, पुराणोऽप्यर्थः प्रतिभावशान्नवीनत्वेन प्रकल्पितश्च । पाणिनिरेतद् उपज्ञाते (४।३।११५) सूत्रे प्रथयति । तृतीयान्तादुपज्ञात इत्यर्थे यथाविहितप्रत्यया भवन्ति इति सूत्रार्थः । यथा पाणिनिना उपज्ञातं पाणिनीयं तच्चाकालक व्याकरणमिति । एवमेव काशकृत्स्नं गुरुलाघवं आपिशलं पुष्करणम् । । कृतमिति प्रणीतं स्वप्रतिभाबाहुल्योपयोगेन । तच्च पाणिनिना ‘अधिकृत्य कृते ग्रन्थे' (४।३।८७) इति सूत्रेण निर्दिष्टम् । द्वितीयान्तादधिकृत्य कृते इत्यर्थे यथाविहितप्रत्यया भवन्ति यत्कृतं तच्चेद् ग्रन्थः स्यादिति सूत्रार्थः । शारीरक नामब्रह्मसूत्रं तदधिकृत्यकृतो ग्रन्थः शारीरकीयः, पाणिनिमधिकृत्य कृतो ग्रन्थः पाणिनीयः ।

व्याख्यातमिति मूलग्रन्थमधिकृत्य कृतं भाष्यादिकम् । तच्च पाणिनिः तस्य | व्याख्यान इति च व्याख्यातव्यन्तनाम्नः' (४।३।६६) इति व्याख्यातवान् । षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकात् व्याख्यानेऽभिधेये यथाविहितप्रत्ययो भवति तत्र भवे चार्थे । । तत्र हि पाणिनीयं शब्दानुशासनमुपज्ञातमित्युच्यते। जाम्बवतीविजयञ्च • कृतमन्ये धातुपाठादयः प्रोक्ता इति । ते हि भगवता पाणिनिना शब्दानुशासनसूत्रव्याख्यानावसरे प्रोक्ताः धातुपाठःगंणपाठः लिङ्गानुशासनं परिभाषापाठश्वः । यदि नाम फिट्सूत्राणि उणादिसूत्राणि च पाणिनीयान्येव तदा तानि तु उपज्ञातानि सम्भवन्ति तेषां शब्दानुशासनव्याख्यानावसरे प्रत्यक्षतः सम्बन्धाभावात्। शिक्षाग्रन्थश्चोपज्ञात एव तथैव । यथा च भगवती, पणिनिना स्वपूर्ववर्तीनि सर्वाण्यपि व्याकरणानिं स्वप्रतिभाविषयीकृत्य स्वयञ्च तानि निर्मथ्यं स्वीकीयवैशिष्टययुतमकालकं व्याकरणमुपज्ञातं तथैव 'प्रतिशाखे पृथग्वणतान् शिक्षा-ग्रन्थांश्च स्वमनीषाविषयीकृत्य सर्ववेदोपस्कारकः शिक्षाग्रन्थस्तेनप्रणीत इति । तस्याप्युपज्ञातत्वं सिद्धयति । एवञ्च भगवतः पाणिनेः -

उपज्ञातानि-अष्टाध्यायी, शिक्षा च उपज्ञातग्रन्थौ, कृतम्-जाम्बवतीविजयमहाकाव्यं तु कृतग्रन्थः, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्च फिटसूत्रोणादी च प्रोक्तग्रन्था इति कथ्यन्ते । अत्र वयं स्वानुभूतं किञ्चिद्रूमः पाणिनिह भगवान् स्वोपज्ञातकालक शब्दानुशासनं शिष्येभ्यो ब्याख्यातवाननिति तु पूर्वमेवोक्त प्रतिपादितञ्च प्रमाणसाहाय्येन । व्याख्यानावसरे यदा भूवादयो धातवः, अदिप्रभृतिभ्यःशपः, जुहोत्यादिभ्यः श्लुः, दिवादिभ्यः श्यन्, रुधादिन्यः श्नम्, क्रयादिभ्यः, इनो, तनादिकृभ्यः उः, तुदादिभ्यः शः, चुरादिभ्यो णिच्, स्वादिभ्यः श्नुः इति सूत्राणि व्याख्यातानि तदा शिष्यैरवश्यमेव पृष्टं भवेत्के च ते अदिप्रभृतयो दिवादयो धातव इति । तदा शिष्यप्रबोधनायाचार्येणावश्यमेव धातुपाठो निदष्टः स्याद्यश्च शिप्यैः संगृहीतः । तेन धातुपाठोऽयमाचार्यप्रोक्त एव । तथैव यदा जिंदगौरादिभ्यश्च, वह्वादिभ्यश्च, क्रौड्यादिभ्यश्च अश्वपत्यादिभ्यश्च, उत्सादिभ्योऽन् बाह्यादिभ्यश्च, नडादिभ्यः फक् इति प्रभृतिसूत्राणि व्याख्यातानि तदाऽपिःशिष्यैरवश्यमेव पृष्टं स्यात् के च ते वाह्लादयो वा शुभ्रादय इति । तदाऽऽचार्येणावश्यमेव गणपाठो ऽपि प्रोक्तः स्यात् । एवमेव यदा ‘स्थानेऽन्तरतमः इति सूत्रं व्याख्यातं तदाऽपि शिष्यैः पृष्टं भवेद्यदा अनेकविधमान्तर्यमुत्पद्यते तदा किङ्कर्तव्यमिति । तदाऽऽचार्येणोक्त स्याद्-यत्रानेकविधमान्तर्यं तदा स्थानत आन्तर्यं बलीय इति । तदेष आचार्योपदिष्टः परिभाषांपाठः शिष्यैः संगृहीतः स्यात् । तेन परिभाषापाठस्याऽपि आचार्य प्रोक्तत्वं सिध्यति ।

'एवमेव 'पुंसि संज्ञायां घः प्रायेण आङोनाऽस्त्रियाम् ‘युस्त्र्याख्यौ नदी, | ‘ह्रस्वो नपुंसके प्रातिपदिकस्य', 'स्वमोर्नपुंसकात्' इत्यादिसूत्रव्याख्यानावसरे - शिष्यैः शब्दानां पुंस्त्रीनपुंसकत्वविषये पृष्ट आचार्योऽवश्यमेव लिङ्गानुशासनमपि उपदिष्टवानिति लिङ्गानुशासनस्य पाणिनिप्रोक्तत्वं सिंध्यति । तेन शब्दानु - शासनं,, धातुपाठः, गणपाठः, परिभाषापाठः, लिङ्गानुशासनञ्चेति ग्रन्थपञ्चक पञ्चरत्नत्वेन प्रसिद्धमेव । तदाप्रभृत्येव व्याकरणं पञ्चाङ्गमिति प्रसिद्धिः ।

सम्प्रति प्रश्नोऽवशिष्यते उणादिसूत्रविषये फिट्सूत्रविषये च । केचिद्धि । उणादिसूत्राणि पणिन्युपज्ञातानि मन्यन्ते केचित्तु तानि शाकटायनप्रोक्तानि, अपुरे तु आपिशलीयान्यपि सम्प्रति पञ्चपादी दशपादी' चेति उणादिसूत्राणां द्विविधः पाठो लभ्यते तयोर्मूलत्वेन त्रिपाद्यपि स्मृतोऽस्ति । क्षीरस्वामिप्रभृतय उणादि सूत्राणां दशपादीमाद्रियन्ते अपरे तु पञ्चपादीमपि । वस्तुतस्तु उभावेव पाठौ पण्डितसमाजे कृतास्पदौ स्तः । तत्र केचन पञ्चपादीमापिशलिप्रोक्त दशपदीञ्च पाणिनिप्रोक्त वा शाकटायनप्रोक्त मन्यन्ते । युधिष्ठिरमहाभागस्तु उभंयोंरेव पाठयोः प्रवक्तारमनिर्जातं मन्यते । (सं० व्या० २१५ पृष्ठे)।

संस्कृतव्याकरणपरम्परायामापिशलं शाकटायनं पाणिनीयञ्च : व्याकरण सर्वाङ्गपूर्णं मन्यते । सर्वाङ्गपूर्णत्वं हि सूत्रैः सह सम्बद्धानां धातु-गण-परिभाषाअंशादिसूत्र-फिट्सूत्र-लिङ्गानुशासनादिपाठानां प्रबन्धनमेव । अन्यानि तु व्याकरणानि एकदेशीयान्येवं . मन्यन्ते । उणादिहि । अन्यत्रानुपलब्धव्युत्पक्तीनां शब्दानां व्युत्पादनप्रयोजनः । वैयाकरणेषु शाकटायन एवैतादृश आचार्यों यः सर्वानपि शब्दान् धातुजन् मन्यते । यथोक्त निरुक्त ऽपि यास्काचार्येण--

तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च'।[११] तथैव च महाभाष्येऽप्युक्तम् -

वैयाकरणांनां च शाकटायन आह. धातुजं नामेत[१२] तंञ्च तथाकथंने । दुर्गाचार्यः ‘अतिपाण्डित्याभिमानात् इति समालोचयत्यपि निरुक्तवृत्तौ ।

तद्विपरीतं पाणिनिस्तु द्विप्रकारं शब्दं मन्यते व्युत्पन्नमव्युत्पन्नञ्च । तत्र अव्युत्पन्नशब्दस्य तु 'अर्थवदधातुरप्रत्ययः प्रातिपादिकम्' इति सूत्रेण प्राति-:-. पदिकसंज्ञा भवति व्युत्पन्नशब्दस्य तु ‘कृत्तद्धितसमासाश्च इत्यनेन नियमसूत्रेण । तदनुसारेण तु उणादीनां प्रवक्तृत्वेन शाकटायन एकोपतिष्ठते । किन्तु युधिष्ठिरश्रीमाँसकस्य उणादयो बहुलम्' इति सूत्रस्य व्याख्यावसरे आचार्येण उणादिसूत्रानि प्रोक्तानीति मतमपि विवेचनीयमेव दृश्यते।[१३] कैयटस्य च उणादय इत्येव सूत्रमुणादीनां शास्त्रान्तरपठितानां. साधुत्वज्ञापनार्थमस्त्विति भावः[१४] इति कथनमपि आर्चार्यस्य उणादिसूत्रप्रवक्तत्वं नैव निरुपाद्धि।. सूत्रप्रणयनकाले आचार्यः ‘उणादयो बहुलम् ।' इत्येव उक्तवान् स्यात्किन्तु . तद्वयाख्याकाले कथं ते ज्ञेयाः इति शिष्यैः पृष्ट उणादिसूत्राण्यपि प्रोवाचेति कथमनाद्रियते। उणादिसूत्रैरपि. नितान्तमव्युत्पादिता अपि शब्दाः सन्त्येव । तानेवाचार्योऽव्युत्पन्नान्मन्यते स्मेति नाश्चर्यम् । यच्च श्वेतवनवासिना येयं शाकटायनादिभिः पञ्चपादी रचिता इति समुक्त तस्यायमप्याशयः सम्भवति यत्पूर्वशाकटायनेनाऽपि उणादि पञ्चपादी रचितों आसीत् । सम्प्रति पाणिनिनाऽपीति । अन्यथा तत्र आदिपदस्य कि प्रयोजनम्? तथैव ‘एवञ्च कुवापेति उणादिसूत्राणि शाकटायनस्येति सूचितम्' इति उद्योते[१५] यदुक्त तत्रापि उत्पद्यन्तेऽनेका विप्रतिपत्तयः । तथैव बालमनोरमा कारकथनेऽपि यदा स कथयति--

'तानि चेमानि सूत्राणि शाकटायनमुनिप्रणीतानि, न तु पाणिनिना प्रणीतानि । इति ।

अत्र वयं ब्रूमः। यदि हि कृवापेति उणादिसूत्राणि नैव पाणिनीयानि मन्यन्ते तदा तेषां सिद्धिः कथं क्रियते ? करोतीति कारुरित्यत्र णिति वृद्धिः वायुरित्यत्र युगागमः, द्वितीयसूत्रे, कुण' इत्यत्र त्रलोपः, जानुरित्यत्र जनिवध्योश्चेति न निषेधः अनुबन्धद्वयसामर्थ्यात्, भरुरित्यत्र गुणः कषुरित्यत्र गुणश्चे. त्यादिव्यवस्था पाणिनीया एव दृश्यते । सम्भवति शाकटायनशास्त्रेऽपि ‘आतो युक् चिण्कृतोः' जनिवध्योश्च, अचोञ्णिति, सार्वधातुकार्धधातुकयोः, पुगन्तलघुपदस्य च इत्यादिसूत्रेषु कृता युगागमबृद्धिनिषेध-वृद्धि-गुणादिव्यवस्था विहिता : स्यात्, किन्तु 'जनिवध्योश्च इति सूत्रस्य 'झुण्' इत्यत्र अनुबन्धद्वयसामर्थ्यादप्रवृत्तिर्यदुक्त तत्तु पाणिनीयमेव । तेन वृत्तिकारस्तु उणादिसूत्राणि पाणिनीयसूत्रप्रकाशेनैव : व्याख्याति । पाणिनीयसूत्रानुसारेण हि धितिण्यति. एव चजोः कुत्वं भवति तेन ‘कृके क्चः कश्वः॥६॥ इति सूत्रे । एव उप्रत्यये कविधानमस्ति यत्तस्य पाणिनीयत्वं सूचयति । तथैव नीथ इत्यत्र कुष्ठ इत्यत्र च गुणनिषेधायैव ‘क्थनू' प्रत्ययः कृतोऽस्ति किङति चेति सूत्रप्रवर्तनाय। एवञ्च पीथमित्यत्र , ‘घुमास्थागापाजहातिसां हलि, इति सूत्रप्रवर्तनायैव थक् प्रत्ययः कृतोऽस्ति । तथैव उक्थमित्यत्र थक्प्रत्ययः वचिस्वपियजादीनां किति इति सम्प्रसारणनिमित्तं प्रवर्तनायैव । एवञ्च शिरीष इत्यत्र ‘कृतृभ्यामीषन्’[१६] इति ईषन् प्रत्यये शृपृभ्यां किञ्च इति कित्वे गुणनिषेधेनं ऋत इद्धातोरित्यस्य प्रवृत्तिः एवञ्च पुरीष इत्यत्र उदोष्ठ्यपूर्वस्येत्यस्य। एवञ्च वशे कित्, कशेर्मुट् च इत्यादिप्रबन्धश्च सर्वे एव पाणिनीयो दृश्यते । तेन वयन्तु समग्रमेव उणादिप्रबन्धं पाणिनीयमेव मन्यामहे यंत्र देशपादी वृद्धपाठसम्बद्धा पञ्चपादी लघुपाठसम्बद्धा च । ये खलु औदीच्याः प्राच्याश्च ते हि दशपादीमाद्रियन्ते ये च दाक्षिणात्यास्ते हि पञ्चपादीम् । यथाहि विठ्ठलाचार्यो दशपादों क्षीरस्वामी च पञ्चपादीमेव भट्टोजिदीक्षितः समुल्लिखति । उभे अपि पाणिनीये एव तेनैव ते पाणिनीयैः समादृते स्तः । समानमेव । इदन्तुक्तमेव यदाचार्यों हि प्रथमं तु संहितायां ‘उणादयो बहुलम् । इत्येवोक्तवान्, पश्चाच्च व्याख्यावसरे शिष्यैः पृष्टो दशपदीमेव प्रोक्तवान्ः यस्याः । लघुरूपं पञ्चपादीति स्पष्टमेव । समग्रेषु उणादिसूत्रेषु पाणिनीयसंहितैव व्याप्य । स्थिताऽस्ति इति कथं तेषामपाणिनीयत्वं न सिध्यति । तेनोणादिराचार्यप्रोक्त ने तुपज्ञातम् ।

फिट्सूत्रविषये च हरदत्तस्तानि शान्तनुप्रोक्तानि मन्यते,एवमेव श्रीनिवांसश्च । अद्रोज़िदीक्षितस्तु तानि शान्तनवाचार्यप्रणीतानि मन्यते । नागेशस्तु शन्तनुमेव तत्कर्तृत्वेन समर्थयति भैरवमिश्रश्च । रामचन्द्रपण्डितस्तु फिट्सूशाण्यपि पाणिनि प्रोक्तानि मन्यते । स हि कथयति -

"वस्तुतस्तु 'फिट्सूत्राणां पाणिनीयत्वमेव पूर्वोदाहृतभाष्यस्वरसाद, पूर्वलत्वञ्च । शान्तनवाचार्यस्तु वृत्तिकारो न तु सूत्रकारः इतिं न काप्यनुपपत्तिः। इति।

यद्यपि रामचन्द्रमतं तृतीयपथत्वेन युधिष्ठिरमहाभांगेनाप्युक्षेपितं तथापि यिनपतज़लिप्रमृतिभिरेतद्गतविषयस्मरणात्तन्मतं वयं तु न' तथोपेक्षणी मन्यन्ते। सम्भवति फिट् सूत्राण्यपि पाणिनिप्रोक्तानि कामं नोपज्ञातानि आचार्य उणादिविषये व्याख्यार्थी शिष्यैः पृष्टस्तदा से देशपादीं प्रोक्तवानन्ते च शब्दशस्तस्य पाराभावात्तथापि केचन शब्दो अव्युत्पन्ना एवं शिष्यन्ते इत्यपि प्रोक्तवा्। ततश्च तादृशानामव्युत्पन्नाना शब्दानां कथं स्वरपरिज्ञानमिति पृष्टः स फिट् सूत्राण्यप्युपदिष्टवान् । विदुषां किमशोभनम् । अस्मद्विचारेऽपि वृत्तिकारान्तराभावाच्छान्तनवाचार्यो हि फिट् सूत्राणां वृत्तिकार एव सम्भवति । व्युत्पन्नशब्दानां तु स्वरज्ञानं प्रकृतिप्रत्ययविभागानुसारेण भवति किन्त्वव्युत्पन्नानां तु फिट् सूत्राद्वारेणैव ।

एतदतिरिक्तमपि धातुपाठ-गणपाठ-परिभाषापाठ-लिङ्गानुशासन-उणादिसूत्र-फिट्सूत्रातिरिक्तमपि । भगवता पाणिनिना अष्टाध्यायीसूत्रव्याख्यौनकालें शब्दानुशासनस्य वृत्तेरपि प्रोक्तेत्यनुमीयते । प्रवचनकाले हि सूत्रार्थपरिज्ञानाय वृत्तेरपि निर्देश आवश्यक एव भवति सामान्यतः । तत्रापि पाणिनीये हि अकृतव्यूहेऽनुवृत्तिसञ्चालिते शास्त्रे तु वृत्तेरावश्यकताऽपरिहार्दैव। यथा “इको गुणवृद्धी[१७] इति सूत्रे पठित ‘इक् ‘सिचिवृद्धिःपरस्मैपदेषु[१८] इति सूत्रे अनुवर्तते । तथैव ‘नेड् वशि कृति'[१९] इति सूत्रे पठित 'नेट' श्रुयुकः किति'[२०] इति सूत्रेऽनुवर्तते। नैतावन्मात्रमपितु ‘उपपदमति[२१] इति सूत्रं 'कुगतिप्रादयः' इति[२२] सूत्रं नियच्छति । तेन यत्र हि सिंहावलोकनन्यायेन मण्डूकप्लुतिन्यायेन च पदानामनुवृत्तिर्भवति तादृशे शास्त्रे 'वृत्तेरावश्यकता सर्वैरनुभूतैव । पाणिनिह भगवान् स्वीपज्ञातं, शब्दानुशासनमनेकवार शिष्येभ्यो व्याख्यातवानिति तु महाभाष्यकाशिकादि ' ' ग्रन्थेभ्यो ज्ञायत एव । तादृशे प्रवचने तेन सूत्राणां 'स्वोपज्ञा वृत्तिरपि प्रोक्ता या च शिष्यैः सङ्ग्रहीता कालेन विलुप्ता वा रूपान्तरिता वा यत्र कुत्र तुं तथैव स्थिताऽपि सम्भवति । एवमेव भगवतः पाणिनेह शिक्षाग्रन्थः द्विरूपकोशः, पूर्वपाणिनीयं, जम्बः । वतीविजयमहाकाव्यञ्च कृतित्वेन मन्यन्ते । . शब्दोच्चारणंपरिज्ञापकं साहित्यं हि शिक्षेत्युच्यते। भगवत्पाणिनिप्रोक्तत्वेन । ग्रन्थान्तरवच्छिक्षाग्रन्थोऽपि ख्यातोऽस्ति। 'कथ्यते हि तस्यं द्विविधं स्वरूपैमस्ति . प्राचीनमर्वाचीनञ्च । प्राचीनं हि स्वरूपं सूत्रात्मकमस्ति अर्वाचीनं तु श्लोकात्मकम् । प्राचीनस्य हि स्वरूपस्य (सूत्रात्मकस्य) वृद्धपाठो लघुपाठ इति दौ भेदौ स्तः । सूत्रात्मको हि पाणिनीयशिक्षाग्रन्थो दयानन्दमहाभांगेज़ मेहता ‘प्रयासेन सङ्गृह्य प्रकाशित इति ज्ञायते । श्लोकात्मकस्यापि तथैव यत्र, चन्द्रपाले आर्चः षष्टिश्लोकात्मको लधुपाठश्च यजुषः पर्चीत्रशच्छुलोकात्मकः।

सूत्रात्मके हि ग्रन्थे स्थान-करण-अन्तः प्रयत्न-वाह्य प्रयत्न-स्थान-पीडन|वृत्तिकार-प्रक्तम-नाभितलाख्यान्यष्टौ प्रकरणानि सन्ति । वृद्धपाठे सूत्राणां सूत्रां| शानाञ्चाधिक्यं वर्तते लघुपाठे हि प्रथमे २२,द्वितीये ७, तृतीये १०, चतुर्थे १०; पञ्चमे ४, षष्ठे १०, सप्तमे ९, अष्टमे १, उपोद्धाते ४ इति ७६ सूत्राणि लभ्यन्ते ।

सूत्रात्मकशिक्षायाः पाणिनिप्रणेतृत्वं च प्रमाणेतरातिरिक्तं तैत्तिरीयप्रातिशाख्यस्य भाष्यकारेण सोमयायिना स्वीये त्रिरत्नभाष्ये ‘सन्ध्यक्षराणां ह्रस्वाः न सन्ति' इति पाणिनीयेऽपि' इत्युक्तत्वादपि सिध्यति ।।

अस्य हि श्लोकात्मकपाठस्तु तच्छिष्यप्रणीत इति 'अथ शिक्षा प्रवक्ष्याभि .. पाणिनीयं मतं यथा' इति वाक्येनैव ज्ञायते । केचित्तं ( यथा शिक्षाप्रकाशटीकाकारः ) पिङ्गलाचार्यगुम्फितं मन्यन्ते । यथोक्तं शिक्षाप्रकाशटीकायां. ज्येष्ठभ्रातृर्भािवहिते व्याकरणेऽनुजस्तत्र भगवान् पिङ्गलाचार्यस्तन्मतमनुभाव्य शिक्षा वक्तुं प्रतिजानीते” इति ।। | शब्दानुशासनवत्पाणिनेः शिक्षाग्रन्थोऽपि आपिशलेन सह नितान्तं साम्यमाधत्ते । उमयोरेवाष्टौ प्रकरणानि तावत्येव सूत्रसङ्ख्या विषयश्च नितान्तसंवादी ।

शिक्षाग्रन्थस्य लघुपाठे एव शिक्षाप्रकाश-शिक्षापञ्जिकाद्याष्टीकाः समुपलभ्यन्ते ।

जाम्बवतीविजयं नाम महाकाव्यमपि पातालविजयापराभिधानं हि पाणिनेः कृतित्वेन मतम् । तस्य हि समग्रकलेवरं तु सम्प्रति नैवोपलभ्यते किन्तु यत्र तत्र विहितेम्य उद्धरणेभ्यस्तस्यावस्थित यत्किञ्चित्स्वरूपञ्च विज्ञायते । तत्रत्यं।

उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।

यथा समस्तं तिमिरांशुक तथा पुरोऽपिरागाङ्गलितंन लक्षितम् ।।

इति पद्यं ध्वनिकारेण समुद्धृतमस्ति । राजशेखरो वदति-

नमः पाणिनये तस्मै यस्मादाविरभूदिह ।

आदौ व्याकरणं काव्यमनु जाम्बवतींजयम् ।। इति ।

एवमेव श्रीधरदासश्च सदुक्तिकर्णामृते -

“सुबन्धौ भक्तिनँः क इह रघुकारे न रमते ।

धृतिदक्षीपुत्रे हरति हरिश्चन्द्रोऽपि हृदयम् ।

विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिरस्तथाऽप्यन्तर्मोद कमपिं भवभूतिवंतनुते ।”

क्षेमेन्द्रश्च सुवृत्ततिलके स्मरति-

स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ।

चमत्कार कसाराभिरुद्यानस्येव जातिभिः ।। इति ।

इदं हि न्यूनपि अष्टादशसर्गात्मकमासीदिति दुर्घटवृत्तिकारेण शरण देवेन कृतात् -

त्वया सहाजितं यच्च यच्च सख्यं पुरातनम् ।

चिराय चेतसि पुनस्तरुणीकृतमद्य मे ।। इत्यष्टादशे'।

इति उद्धरणाज्ज्ञायते । इत्थं हि युधिष्ठिरमहाभागकथनानुसारेण, अद्या• वधि एकोनत्रिंशद्ग्रन्थेषु पाणिनेर्जाम्बवतीविजयस्य समुद्धरणानि सन्ति ।

एवमेव पाणिनिप्रणेतृत्बेन स्मृतो द्विरूपकोशोस्तीति युधिष्ठिरमहाभागः । संस्कृतव्याकरणशास्त्रेतिहासे स्मरति । तदनुसारेण तस्यान्ते इति पाणिनिमुनिना कृतं द्विरूपकोशं सम्पूर्णम्' । इति लिखितमस्ति । कोशोऽयं पाणिनिकृतो वा न वेति सम्प्रत्यपि नैव निश्चितम् । एवञ्च ‘पूर्वपाणिनीयम्' इति कश्चिद्ग्रन्थः चतुर्विंशतिसूत्रात्मको र्जीवरामकालिदासराजवैद्येन सङ्गृहीतः सम्पादितः प्रकाशितश्च वर्तते । तत्रत्यानि सूत्राणि इत्थं युधिष्ठिरमहाभागेन समुधृतानि--

ओम् नमः सिद्धम् । अय शब्दानुशासनम् (१) शब्दो धर्मः (२) धर्मादर्थकामायवर्गाः ।३। शब्दार्थयोः ।४। सिद्धः ५। सम्बन्धः ।६। ज्ञानं छन्दसि १७॥ ततोऽन्यत्र ।८। सर्वभार्षम् ।९। छन्दोविरुद्धमन्यत् ॥१०॥ अदृष्टं वा ।११॥ ज्ञानाधारः ॥१२॥ सर्वःशब्दः ।१३। सर्वार्थः ।१४। नित्यः ॥१५॥ तन्त्रः ॥१६॥ आषास्वेकादशी ।१७। अनित्यः ।१८। लौकिकोऽत्र विशेषेण ।१९। व्याकरणात् ।२०। तज्ज्ञाने धर्मः ।२१। अक्षराणि वर्णाः ।२२। पदानि वर्णेभ्यः ॥२३॥ ते प्राक् ।२४।

पूर्वसूत्रविषये महाभाष्यकाशिकाप्रभृतिग्रन्थेषु यत्र तत्र स्मृतं दृश्यते । महाभाष्ये यथा -

अथवा पूर्वसूत्रे वर्णस्याक्षरमिति संज्ञा क्रियते[२३] पूर्वसूत्रे गौत्रस्य वृद्धिमिति संज्ञा क्रियते[२४] -

‘पूर्वसूत्रनिर्देशो वापिशलमधोत इति । पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः । सूत्रेप्रधानस्योपसर्जनमिति संज्ञा क्रियते[२५]

पूर्वसूत्रनिर्देशश्च । चित्त्वान् चित इति।[२६] अथवा पूर्वसूत्रनिर्देशोऽयं पूर्वसूत्रेषु च येऽनुबन्धा। न तैरहेत्कार्याणि क्रियन्ते''। निर्देशोऽयं पूर्वसूत्रेण । वा स्यात् ।[२७] पूर्वसूत्रनिर्देशश्च ।[२८] काशिकायां[२९] उक्तम्‘पूर्वपाणिनीयं शास्त्रम् ।

युधिष्ठिरमहाभागस्तु तान् पाणिनिकृतान्नैव मन्यते । स हि पूर्वपाणिनीयशब्दस्य पाणिनीयस्य पूर्व एकदेशः पूर्वपाणिनीयमिति कृत्वा ग्रन्थञ्च पाणिनीयशास्त्रस्य पूर्बभागममुमाति । किन्तु काशिकायां व्यवहृते पूर्वपाणिनीया अपरपाणिनीया इति’ पदे एतद्विपरीतमेवं सूचयन्ति । पूर्वपाणिनीया हि पूर्वपाणिनीयशास्त्राध्येतारः। तेन हि पाणिनेरेव पूर्वमपरञ्चेति द्वे शास्त्रे इति ज्ञायते । सम्भवति पाणिनिना हि भगवता प्रथमं पूवैशास्त्रत्वेन संक्षिप्तं व्याकरणमुपज्ञातं स्यात्प्रायोगिकरूपेण । विषयेऽस्मिन्नधिकमनुसन्धानमावश्यकम् ।'

अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । सर्वाः शब्दव्युत्पत्तिप्रक्रियाः प्रकृतिप्रत्ययविवेकः च समीचीनतया सूत्ररूपेण निरूपिताः । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' । अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा कृतिः अस्ति । वैदेशिकाः विद्वांसः अपि एतं ग्रन्थम् मुक्तकण्ठं प्रशंसन्ति ।

व्याख्यानानि

सम्पादयतु

पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । "अथ शब्दानुशासनम्" इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति शब्दानुशासनम्। पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् ।

सम्बगद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. १।१।१
  2. ३।४।१६
  3. अष्टाध्यायीभाष्ये १ प्रथम पृष्ठे
  4. १।१
  5. ३।२।१३
  6. ३।३।१
  7. १/१
  8. १॥२१
  9. ४/२/७
  10. ४।३।१०१
  11. १।१२
  12. ३।३।१
  13. सं० व्या इ० २०९ पृष्ठ
  14. प्रदीपे ३।३।१
  15. ३॥३॥१
  16. ४७४
  17. १।१।३
  18. ७/२।१
  19. ७/२/८
  20. ७।२।११
  21. २।२।१९
  22. १।१।१८
  23. १॥१॥२
  24. १॥१॥६८
  25. ४।१।१४
  26. ६।१।१६३
  27. ७/१/१८
  28. ८।४।७
  29. ६॥२॥१०४
"https://sa.wikipedia.org/w/index.php?title=अष्टाध्यायी&oldid=487285" इत्यस्माद् प्रतिप्राप्तम्