आहारः
आहारः ( ( शृणु) /ˈɑːhɑːrəhə/) (हिन्दी: आहार, आङ्ग्ल: Diet) नाम “आहर्यते गलादधो नीयत इति आहारः” [१] । आहारः जन्तूनां जीवनस्य महत्त्वपूर्णं पोषकतत्त्वं वर्तते । यः अन्ननलिकया आह्रियते, सः आहारः कथ्यते । आहारस्वास्थ्ययोः परस्परः सम्बन्धः वर्तते । आहारेण सुस्वास्थ्यं प्राप्यते । दुषिताहारेण, असन्तुलिताहारेण च स्वास्थ्ये हानिः अपि जायते । अतः आहारः एव जीवनस्य कारणम् इति । गीतायामपि लिखितम् अस्ति यत् -
“ |
|
” |
आहारः जीविनां जीवनस्य प्रधानम् अङ्गम् । “आह्रियन्ते इति आहाराः” इति वयं जानीमः एव । बाह्यं किञ्चन वस्तु शरीरस्य अन्तः प्रविश्य तत्रैव अन्तर्भूत्वा अस्माकं स्वरूपस्य निर्माणस्य कारणं भवति । अन्नस्य सूक्ष्मभागात् एव मनसः निर्मितिः भवति । अद्य वयम् एवं स्मः इत्यस्य पृष्ठभूमिकायाम् अस्माभिः सेवितः आहारः एव अस्ति इति ज्ञायते चेत् आहारस्य महत्त्वम् अवगतम् इति अर्थः । गर्भादारभ्य मरणपर्यन्तं जीवनार्थम् अस्मात् पञ्चभौतिकप्रपञ्चात् यद्यत् स्वीकुर्मः तत्सर्वम् अपि आहारः एव । न केवलम् उदरम्भरणार्थम् अवश्यभूतानि घन-द्रवरूपाणि अन्नक्षीरादीनि आहारत्वेन उच्यन्ते अपि तु जलं, वायुः, प्रकाशः, आकाशः, औष्ण्यम् इत्यादीनि अपि आहारः एव । अन्नक्षीरादीनि न सन्ति चेदपि कतिपय दिनानि जीवामः किन्तु जलमेव नास्ति चेत् कति दिनानि जीवामः ? जलं नास्ति चेदपि कथञ्चित् कतिपय दिनानि जीवामः, वायुरेव नास्ति चेत् कति निमेषान् जीवामः ? यदि आकाशेण स्वस्मिन् किञ्चिन्मात्रेण अपि अवकाशः न कल्पितः स्यात् तर्हि कुत्र अस्माकं जीवनम् ? अतः अस्माकं देहस्य धारणपोषणांशाः पृथ्वी, अप्, तेजस्, वायुः, आकाशः इत्येतैः पञ्चभूतैः निर्मिताः सन्ति । देहस्य मूलघटकाः शुक्रशोणिताः अपि एतैः पञ्चभूतैः एव बाह्यरूपं प्राप्नुवन् । भगवतः सृष्टौ असंख्याः आहारपदार्थाः सन्ति एव । तत्सर्वम् अपि मनुष्यमात्रस्य उपयोगाय इत्येव न निर्मितं भगवता । कालानुगुणं मनुष्यस्य उपयोगाय न भवेयुः इत्यपि न । अत्र काचित् व्यवस्था आवश्यकी । “अहं कः ? मम शरीरस्य सहजाः गुणाः के ? वात-पित्त-श्लेष्मेषु प्रधानधातुः कः मम शरीरे ? मम मनः कीदृशम् ? सत्त्वं,रजस्, तमस् इत्येतेषु प्राधान्यं कस्य ? देहस्य मनसः च आरोग्यकरी स्थितिः का ? अनारोग्यकरी स्थितिः का ? देहे विद्यमाना बाल्याद्यवस्था का ? मम कार्यं कीदृशम् ? कः कालः ? देशः कः ? स्त्री वा पुरुषो वा ? मम वर्णव्यवस्था का ? इत्यादीनां बहुविधानां परिस्थितीनाम् अनुगुणम् अस्माकम् आहारस्य निर्णयः भवति । तथा चेदेव सः आहारः अस्माकं शरीरं मनः च सम्यग्रूपेण पालयति ।
सृष्टेः विकासस्य अन्तिमं पदम् एव “पृथ्वी” । एतस्याम् अन्यानि सर्वाणि भूतानि (अप्, तेजस्, वायुः, आकाशः च) प्रमाणतारतम्येन निहितानि सन्ति । अतः एव सा पृथ्वी “विश्वम्भरा” इति उच्यते । स्वस्य शरीरात् जीवकोटिनां निमित्तम् आवश्यकं द्रव-द्रव्यादिकं यच्छन्ती जीवनस्य आश्रयभूता सा “अवनिः” इत्यपि उच्यते । सा न केवलं शरीरस्य पालनं करोति अपि तु देहस्य धारणपोषणकार्ये जीवस्य सारथिरूपेण स्थित्वा देहरथं नयमानं मनः अपि निरूपयति । एवं पृथिव्याः पात्रं सुमहत् अस्ति । अतः एव सा मातृरूपिणी इति उक्तम् अस्माकं पूर्वजैः । “माता भूमिः पुत्रोहं पृथिव्याः” इत्यत्र भूमिः अथवा पृथ्वी माता, अहं तस्याः पुत्रः इति निर्दिष्टम् । भूमातुः उपकारः महान् । तम् उपकारं वर्णयितुं पदानि एव अपर्याप्तानि स्युः अस्माकं पदसङ्ग्रहे । अनन्तसंख्याकानां जीविनां निमित्तं तेषां देहस्य, इन्द्रियाणां, मनसः च स्वरूपस्य स्वभावस्य च अनुगुणम् असंख्यविधान् घन-द्रवरूपान् आहारपदार्थान् सृजति सा । तस्याः भूमातुः अनुग्रहादेव सर्वेपि जीविनः मनसः शरीरस्य पोषणाय वर्धनाय च निरन्तरम् आहारं प्राप्नुवन्ति । जीवः रसरूपस्य परमात्मनः किञ्चित् स्फुलिङ्गम् । प्रत्येकः अपि जीवः रसरूपस्य परमात्मनः अनुभवस्य प्राप्त्यर्थम् आवश्यकीं स्थितिं प्राप्नोति इत्यत्र भूमातुः योगदानं वर्णनातीतम् । सृष्टौ शिखरसदृशाय मानवाय तु रसरूपस्य परमात्मनः परंज्योतिरूपस्य अनुभवस्य प्राप्त्यर्थम् अनुकूलकराणां देहेन्द्रियाणां मनोवृत्तीनां च पालनपोषणाय अनेकान् रसमयान् पदार्थान् यच्छन्ती सा “रसा” इति एव निर्दिष्टा ।
भूमौ प्राप्यमाणेषु आहारपदार्थेषु मधुरः, आम्लः, लवणः, कटुः, कषायः, तिक्तः इति षड् विधेषु रसेषु कश्चन रसः तु भवति एव । तण्डुलाः, गोधूमाः, मुद्गाः, माषाः, शाकानि, फलानि, मूलानि, पुष्पाणि, धान्यानि एवं सस्यजन्याः आहाराः ये सन्ति तेषु सर्वेषु एते षड्रसाः विभिन्नप्रमाणेन सन्ति । तेषां पदार्थानां विभिन्नप्रमाणेन योजनेन बहुविधाः आहाराः सिद्धाः भवन्ति । ते सर्वे अपि अस्माकं शरीरं मनः च पोषयन्ति । ते एव आहाराः देहस्य घटकाणां रसं, रक्तं, मांसं, मज्जा, मेदः, शुक्रम्, अस्थि इत्याख्यान् सप्तधातून् वर्धयन्तः मनसः आरोग्यं पोषयन्तः, हृदये अपि रसं पूरयन्तः सन्ति । विभिन्नेन प्रमाणेन रसानां योजनेन यथा आहारस्य नूतनानि रूपाणि सृष्टानि सन्ति तथैव पदार्थानां संयोगेन अपि आहारस्य नवरूपाणि सृष्टानि सन्ति । एवं रसानां सम्यग्रूपस्य संयोगेन सज्जीकृतः आहारः मनः देहेन्द्रियाणि च सन्तर्पयति ।
आहारस्य महत्त्वम्
सम्पादयतुअस्माकं शरीरं पृथ्व्यप्तेजोवाय्वाकाशाख्यैः पञ्चमहाभूतैः निर्मितम् अस्ति । एतेभ्यः पञ्चमहाभूतेभ्यः एव दोषाः उत्पद्यन्ते । वाय्वाकाशाभ्यां वातस्य, तेजसः पित्तस्य, पृथ्वीजलाभ्यां कफस्य च उत्पत्तिर्भवति[२] । अतः वातपित्तवासैः शरीरं स्थिरं भवति । किन्तु एतेषां विकृतस्थित्या शरीरे बहवः विकाराः अपि उत्पद्यन्ते । आहारनिद्राब्रह्मचर्यैः शरीराय आरोग्यं प्राप्यते । अतः एते उपस्तम्भाः कथ्यन्ते । तेषु आहारः प्रमुखः वर्तते [३]। प्राणिषु अन्नम् एव प्राणः वर्तते । अन्नाय एव सर्वे जनाः कार्यरताः सन्ति ।
वैज्ञानिकैः अपि आहारस्य ए, बी, सी, डी, ई इति विटामिन् रूपेण विभागः कृतः । शरीरे रोगाणाम् उत्त्पत्तौ सत्यां कस्य विटामिन् इत्यस्य आवश्यकता वर्तते इति चिकित्सकाः उपदिशन्ति । अतः शास्त्रे एका उक्तिः अस्ति यत् – “धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम्” इति [४]। अर्थात् धर्मः, अर्थः, कामः, मोक्षः इत्येतेषां पुरुषार्थाणां प्राप्त्यर्थं शरीरं निरोगी भवेत् इति आवश्यकम् ।
अन्नेन जीवानाम् उत्पत्तिः भवति । अतः तैत्तिरीयोपनिषदि अपि लिखितम् अस्ति यत् -
“ |
|
” |
उपर्युक्ते श्लोके अपि अन्नस्य महत्वं प्रतिपादितम् अस्ति । तेषां जीवानां वृद्धिः अपि तेन अन्नेन एव भवति । चरकाचार्येण अपि उक्तं यत् – “अन्नं वै प्राणाः” अर्थात् अन्नं प्राणात्मकं वर्तते इति [५]। योग्यकाले जीर्णाजीर्णस्य विचारानुसारेण योग्यप्रमाणेन एव आहारः ग्राह्यः । तेजः, आयुः उत्साहः, स्मृतिः ओजः इत्यादयः आहारेण एव प्राप्यन्ते ।
यथा यज्ञकर्मणि योग्यहुतिर्द्रव्याणाम् आहुतिभिः यज्ञाग्निः सौख्यदः भवति, तथैव योग्याहारेण अस्माकं जठराग्निः अपि सौख्यकरः भवति [६]। योग्याहारेण मानवः शतायुः भवति । यः मनुष्यः सर्वदा नियमितरूपेण आहारं स्वीकरोति सः रोगरहितः भवति ।
भारते ६४ कलासु पाकशास्त्रम् अपि एकम् । “सा विद्या या विमुक्तये” इति उक्त्यनुसारम् आहारः अपि मुक्तिप्रदायकः । अतः एव पाकशास्त्रम् अपि विद्यासु अन्तर्गतम् । तस्मात् एव उच्यते –
- “आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
- स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥“इति ।
एवम् आहारस्य व्याप्तिः उदरतृप्तितः मोक्षप्राप्तिपर्यन्तम् अपि विस्तृता अस्ति । मोक्षस्य विषयः परित्यक्तः चेत् अपि इदानीम् अस्माभिः सेव्यमानः आहारः अस्माकम् आरोग्यस्य रक्षणे अपि असमर्थः अस्ति इति वयम् अपि जानीमः एव । पाकशास्त्रम् अपि तदा एव विद्या भवति यदा पदार्थाः धर्ममार्गेण प्राप्यन्ते । अथवा न्यायमार्गेण अर्जितेन धनेन स्वीकृताः स्युः । ते अपि पदार्थाः सहजस्वभावयुक्ताः भवेयुः । तादृशानां पदार्थानां सम्यक् योजनस्य ज्ञानम् अपि पाचकस्य स्यात् । “ऋषिरेव विजानाति द्रव्यसंयोगजं फलम्” इति उक्तिः एव अस्ति । द्वयोः पदार्थयोः योजनेन अमृतसदृशः आहारः सिद्धः भवेत्, कदाचित् विरुद्धं परिणामं जनयत् विषम् अपि सिद्धं भवेत् । विषम् इति उक्तौ तदा एव मूर्छां वा मरणं प्राप्यते इति न । धातुवैषम्येन अहितं परिणामं जनयति चेत् तदपि विषम् इत्येव उच्यते । उदाहरणार्थम् – मधु-घृतयोः समप्रमाणेन योजनं विषरूपं प्राप्नोति । पायसं नाम पयसा निर्मितः मधुररसप्रधानः द्रवपदार्थः । किन्तु तदेव पायसं मुद्गक्षीरयोः मिश्रणेन निर्मितं चेत् विषतुल्यम् एव । एवं पदार्थानां घटकस्वभावादपि भिन्नः हितकरः वा अहितकरः वा परिणामः सम्भवति तेषां योजनेन । तदर्थम् एव अस्माकं पूर्वजाः ऋषयः योगदृष्ट्या परिशील्य योगस्य भोगस्य च अनुगुणम् एव आहारनिर्माणस्य क्रमं सृष्टवन्तः । तं क्रमम् अपूर्वविद्यायाः रूपेण वर्धितवन्तः च । पुराणेषु इतिहासेषु च अपूर्वां पाकविद्यां जानन्तः बहवः दृश्यन्ते । तेषु नलः, भीमः च प्रख्यातौ । दौर्भाग्यं नाम अद्य तादृशी प्राचीना पाकविद्या विस्म्रियमाणा अस्ति । सर्वे अपि इच्छानुसारं पदार्थान् योजयित्वा नूतनान् आहारान् सृजन्तः सन्ति तस्य परिणामम् अजानन्तः एव ।
आहारस्य प्रकाराः
सम्पादयतुआहारभक्षणेन शरीरस्य सर्वाणि अङ्गानि पुष्टानि भवन्ति । अन्नेन शरीरस्य शक्तिः अपि वर्धते । तादृशस्य आहारस्य प्रकारद्वयं वर्तते[७] । सम्यगाहारः, असम्यगाहारः च ।
सम्यक् आहारः
सम्पादयतुयः आहारः प्रमाणयुक्तः, विधिपूर्वकः गृह्यते, सः सम्यगाहारः कथ्यते । एकैकस्य जीवस्य जठराग्निबलं भिन्नं वर्तते [८]। अतः सर्वेषां जीवानां जठराग्नेः बलानुसारम् आहारस्य प्रमाणं चिन्तनीयम् ।
विधिपूर्वकाहारे तु भक्ष्यपदार्थानां भोक्तुं सम्यक्तया विचारः कर्त्तव्यः । आहारस्य विधौ विशेषप्रकारकं ज्ञानम् आवश्यकं भवति । आहारे द्वादश-अशनप्रकारकं ज्ञानम् अपि आवश्यकं भवति । तदनुसारमेव आहारः ग्राह्यः । सः एव विधिपूर्वकः आहारः, सम्यगाहारश्च कथ्यते[९] ।
अस्माकं शरीरस्य आवश्यकतानुसारं शारीरिकवृद्ध्यर्थं, सुस्वास्थ्यार्थं च पोषकतत्त्वानि गृहीतानि भवन्ति । कानिचिदपि पोषकतत्त्वानि आवश्यकतायाः अधिकानि न्यूनानि वा न भवेयुः इति । अस्माकम् आहारे पर्याप्तमात्रायां रुक्षांशः, जलं च भवितव्यम् । एतादृशः आहारः संतुलितः आहारः कथ्यते[१०] ।
सम्यक् आहारः एव अस्माकं शरीरस्य अवयवान् पुष्णाति, संरक्षति च । अवयवेषु याः क्षतयः भवेयुः, ताः क्षतीः पूरयति । शरीरस्य शक्तिं वर्धयति, जीवयति च । तथापि अष्टप्रकारकाणां विशेषायतनानां भोजने विचारः कर्त्तव्यः[११] ।
- प्रकृतिः – आहारद्रव्याणां स्वाभाविकः गुणः ‘प्रकृतिः’ कथ्यते । स्वभावः अपि अपरं नाम ।
- करणम् – स्वाभाविकानां द्रव्याणां अभिसंस्कारः ‘करणम्’ इति कथ्यते ।
- संयोगः – द्वयोः बहूनां वा द्रव्याणां एकीकरणं ‘संयोगः’ कथ्यते ।
- राशिः – सर्वग्रहाणां, परिग्रहाणां, मात्रामात्रफलस्य निश्चयः ‘राशिः’ इति कथ्यते ।
- देशः – द्रव्याणाम् उत्पत्तिस्थानस्य विचारः कर्त्तव्यः । स्थानं शुद्धम् अशुद्धं वा स्यात् इति चिन्तनीयं भवति । तेभ्यः शुद्धद्रव्येभ्यः शरीरे रोगाः न उत्पद्यन्ते ।
- कालः – यः कालः येषां द्रव्याणां निर्धारितः स्यात्, तस्मिन् काले एव तानि द्रव्याणि भक्ष्याणि भवन्ति । तेन कारणेन स्वास्थ्यविकाराः न जायन्ते ।
- उपयोगसंस्था – अर्थात् द्रव्याणाम् उपयोगस्य नियमाः ज्ञातव्याः, द्रव्याणि जीर्णानि भवेयुः इति विचारः कर्त्तव्यः । अजीर्णानां द्रव्याणां भक्षणे आन्तरिकरोगाः उत्पद्यन्ते[१२] ।
- उपयोक्ता – यः जनः आहारस्य उपयोगं करोति सः उपयोक्ता कथ्यते ।
१ शीताहारः, २ उष्णाहारः, ३ स्निग्धाहारः, ४ रुक्षाहारः, ५ द्रवाहारः, ६ शुष्काहारः, ७ एककालाहारः, ८ समाग्न्याहारः, ९ औषधद्वैष्याहारः, १० मन्दाग्न्याहारः, ११ यथर्तुदत्ताहारः, १२ वृत्त्यर्थाहारः
असम्यक् आहारः
सम्पादयतुयः मात्रारहितः, अविधिपूर्वकः आहारः भवति, सः असम्यगाहारः कथ्यते । मात्रारहितः अर्थात् मात्रायाः अल्पत्वम् अधिकत्वं वा इति । अविधिपूर्वकम् अर्थात् यस्मिन् आहारे सामान्यनियमानां पालनं न भवति सः इति । यस्मिन् आहारे आत्मनः हिताहितं अपि न विचार्यते सः अविधिपूर्वकः आहारः कथ्यते[१४] ।
भगवता श्रीकृष्णेन तु श्रीमद्भगवद्गीतायाः पञ्चदशे अध्याये कथितं यत् –
“ |
|
” |
“पचाम्यन्नं चतुर्विधम्” इत्यनुसारं भक्ष्यं, भोज्यं, लेह्यं, चोष्यम् च चतुर्विधम् अन्नम् वर्तते । एतादृशम् आहारज्ञानं क्षेमकरं भवति ।
आहारः स्वास्थ्यनाशाय स्वास्थ्यरक्षणाय च भवति । यदि सम्यगाहारः स्यात्, तर्हि स्वास्थ्यरक्षणं भविष्यति । किन्तु यदि असम्यगाहारः क्रियते तर्हि स्वास्थ्यस्य नाशः भवितुं शक्यते [१५]।
आहारस्य विभिन्नविधाः
सम्पादयतुआहारः प्रधानतया द्विधा विभज्यते । शाकाहारः मांसाहारः च इति । सामान्यतया सस्यजन्यः आहारः शाकाहारः, प्राणिजन्यः आहारः मांसाहारः इति उच्यते ।
एतं भेदं विहाय अपि आहारः त्रिविधः भवति इति उक्तम् अस्ति । सात्विकः आहारः, राजसिकः आहारः, तामसिकः आहारः च इति । भगवद्गीतायां तेषां त्रयाणाम् अपि आहाराणां विवरणं कृतम् अस्ति भगवता श्रीकृष्णेन ।
- “कट्वाम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्षविदाहिनः ।
- आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥“
कटुप्रधानः, आम्लप्रधानः, लवणप्रधानः, अत्युष्णः, तीक्ष्णः, रूक्षः वा आहारः राजसिकः । सः शोकं मोहं च जनयति इति ।
- “यातयामं गतरसं पूतिपर्युषितं च यत् ।
- उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।“
निर्माणानन्तरं यामः अतीतः, रसहीनः, दुर्गन्धयुक्तः, पर्युषितः, उच्छिष्टः, अमेध्यः वा आहारः तामसिकः इति ।
- “आयुस्सत्व-बलारोग्य-सुख-प्रीति-विवर्धनाः ।
- रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विकप्रियाः ॥“
आयुः, सत्त्वं, मनोबलं, देहबलम्, आरोग्यं, सुखं, प्रीतिं वा जनयन् घृतमिश्रितः, हृदयस्य हितकरः वा आहारः सात्त्विकः इति ।
तथैव आहारे औषधगुणः अस्ति इति यं कमपि आहारं सेवन्ते इदानीन्तनाः जनाः । तथा न करणीयम् । यत् सेवनीयं तदेव सेवनीयं, नान्यत् । किञ्चन सुभाषितम् औषधगुणयुक्तम् इति शुनकस्य मांसं कोपि विचक्षणः न सेवते इति वदति ।
- "रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके ।
- कथिता इति तत् किं स्यात् भक्षणीयं विचक्षणैः ॥"
अतः औषधीयगुणयुक्ताः अपि राजसिकः वा तामसिकः वा आहाराः न सेवनीयाः एव । सात्त्विकस्य आहारस्य सेवनेन गुणस्वभावाः अपि सात्त्विकाः भवन्ति । राजसिकस्य तामसिकस्य वा आहारस्य वा सेवनेन गुणस्वभावाः अपि तद्वत् एव भवन्ति । तेन गृहं सङ्घर्षस्य क्षेत्रं भवति । तदपेक्षया राजसिकस्य वा तामसिकस्य वा आहारस्य स्थाने तदौषधीयगुणयुक्तः सात्त्विकः अन्यः कोपि आहारः सेवनीयः बुद्धिमता ।
आहारद्रव्याणि
सम्पादयतुद्वादशप्रकारकाणि आहारद्रव्याणि भवन्ति । आचार्यचरकेण चरकसंहितायां द्वादशप्रकाराः वर्णिताः सन्ति यथा –
“ |
|
” |
१ शूकधान्यं, २ शमीधान्यं, ३ मांसवर्गः, ४ शाकवर्गः, ५ फलवर्गः, ६ मद्यवर्गः, ७ जलवर्गः, ८ गोरसवर्गः, ९ हरितवर्गः, १० इक्षुविकारवर्गः, ११ स्नेहवर्गः एते आहारस्य प्रकाराः सन्ति [१६]। एतेषु वर्गेषु शाकाहारः मांसाहारः इत्येतौ द्वौ प्रकारौ स्तः । मांसवर्गं विहाय सर्वे वर्गाः शाकाहारस्य वर्गाः सन्ति । केवल मांसवर्गः एव मांसाहारे ज्ञातव्यः ।
शूकधान्यम् (Cereals)
सम्पादयतुअस्मिन् वर्गे गोधूमः, अक्षताः, यवः इत्यादीनि प्रमुखानि धान्यानि सन्ति । तानि शरीरबलप्राप्तये मुख्यानि धान्यानि सन्ति । तैः धान्यैः ७० तः ८० प्रतिशतं बलं प्राप्तुं शक्यते । कार्बोहाइड्रेट्-तत्त्वं शूकधान्येषु मुख्यत्वेन प्राप्यते । प्रोटीन्-तत्त्वं ६७ तः ७२ प्रतिशतं प्राप्यते । क्षार-तत्त्वं तु अल्पमात्रायाम् एव प्राप्यते । शूकधान्येषु “विटामीन्-सी” इत्येतत् तत्त्वं स्वल्पमात्रायां स्थितं भवति । किन्तु “विटामीन्-बी” एतत्तत्त्वं नैवोपलभ्यते[१७] ।
शीतः, स्निग्धः, स्वादुः, त्रिदोषघ्नः, स्थिरात्मकः च तेषां धान्यानां गुणाः सन्ति ।
शमीधान्यम् (Pulse-or Di-cotyledons)
सम्पादयतुप्रायः द्विदलधान्यानि शामीधान्यवर्गे गण्यन्ते । मुद्गाः, माषाः, तिलानि इत्यादीनि द्विदलधान्यानि सन्ति । शमीधान्येषु प्रोटीन्-तत्त्वस्य आधिक्यं भवति[१८] । तेभ्यः धान्येभ्यः “विटामिन्-सी” इति एतत्तत्त्वं प्राप्यते ।
कषायः, मधुरः, रुक्षः, लघुः, विपाके कटुः, विशदः, कफपित्तनाशकः, वॄष्यः, वातहरः च शमीधान्यानां गुणाः सन्ति [१९]।
मांसवर्गः (Non-vegetable)
सम्पादयतुमांसवर्गे अष्टप्रकारकाः मांसजीवाः सन्ति ते-
- प्रसहपशुपक्षीगणः - ये जीवाः आहारं दृष्ट्वा बलाद् अपहृत्य खादन्ति, ते प्रसहपशुपक्षीगणस्य जीवाः कथ्यन्ते ।
- भूमिशयजीवाः – ये जीवाः बिलाश्रिताः भवन्ति, ते भूमिशयजीवाः कथ्यन्ते ।
- आनूपजीवाः – अनूपप्रदेशाश्रयिणः ये जीवाः सन्ति ते आनूपजीवाः कथ्यन्ते ।
- जलचरजीवाः – ये जीवाः जलाश्रयिणः सन्ति, ते जलचरजीवाः कथ्यन्ते ।
- वन्यजीवाः – ये जीवाः अरण्ये निवसन्ति, ते वन्यजीवाः कथ्यन्ते ।
- विष्किरजीवाः – ये जीवाः चञ्चुपादाभ्याम् आहारम् गवेष्यमाणाः सन्ति ते जीवाः विष्किरजीवाः कथ्यन्ते ।
- पशुपक्षिणः – ये जीवाः चञ्चुपादाभ्यां पुनः पुनः आधानं कृत्वा भक्षयन्ति ते ।
- वारिजाः - ये जीवाः नित्यं जले एव निवसन्ति, ते वारिजाः कथ्यन्ते[२०] ।
एते जीवाः भक्ष्यमाणाः भवन्ति । किन्तु तेषां भक्षणे बहवः विषयाः विचारणीयाः भवन्ति । “सद्योहतं वयस्थं च, शुद्धं सुरभि शस्यते” एतादृशं मांसं भक्षणयोग्यं भवति[२१] ।
“ |
|
” |
एतादृशं मांसं कदाऽपि नैव भक्ष्यम् । मांसस्य परीक्षणं कृत्वा एव भक्ष्यम् । चरः, शरीरावयवाः, स्वभावः, धातवः, क्रियाः, लिङ्गं, प्रमाणं, संस्कारः, मात्रा इत्यादीनि नवविधानि परीक्षणानि सन्ति । यदि परिक्षणं न क्रियते, तर्हि रोगाः भवितुं शक्नुवन्ति[२२] ।
पञ्चप्रकारैः मांसस्य सञ्चयः भवति यथा - १ शुष्कीकरणे (Drying of Dehydration), धूमने (smoking), शितलीकरणे (cold), उष्णीकरणे (heat), रासायणिकप्रक्रियया (chemical) च[२३] । किन्तु “न हिन्स्यात्सर्वजीवाः” इति न्यायेन मांसभक्षणं नैव कर्त्तव्यम् ।
शाकवर्गः (Vegetables)
सम्पादयतुशाकः (व्यञ्जनं), हरितशाकः (पर्णयुक्तव्यञ्जनम्) इत्येतौ शाकवर्गस्य द्वौ प्रकारौ स्तः । पटोलः, धामागर्वः, तुम्बी, सुकन्दकः, पलाण्डुः, पुष्पवरं, बिम्बिका, कुष्माण्डः, कर्कोट, सुषती, कारवेल्लं, कर्कटी इत्यादयः शाकवर्गे विद्यन्ते[२४] ।
फलवर्गः (Fruits)
सम्पादयतुनारङ्गः, नारिकेलः, पनसः, दाडिमः, द्राक्षा, मधुरा, राजादनः, शिंचितिका, सीताफलम्, आमलकः, आम्रं, कदलीफलं, दन्तशठफलं, चिर्भिटं, तोयफला इत्यादीनि सर्वाणि फलानि फलवर्गे भवन्ति । फलवर्गस्य सर्वेभ्यः फलेभ्यः विटामिन्-तत्त्वानि प्राप्यन्ते[२५] । अतः शास्त्रनियमानुसारं फलानां भक्षणं कर्त्तव्यम् ।
“ |
|
” |
उपर्युक्ते श्लोके फलस्य परीक्षणानि प्रदत्तानि सन्ति । अतः अपक्वफलानि न खादितव्यानि इति । फलवर्गे शुष्कफलानि अपि भवन्ति यथा – अङ्कोलः, एला, मागघी, गोक्षुरकः, चन्द्रशूरः, चित्रकोटः, जातिः, चोचं, प्रियालं, मिश्रेया, महौषधम् च[२७] ।
मद्यवर्गः (Alcoholic Drinks)
सम्पादयतुयवासवः, मध्वासवः, द्राक्षासवः च मद्यवर्गे विद्यते ।
“ |
|
” |
औषधालये निर्मितानाम् आसवानां परीक्षणं कृत्वा एव उपयोगः कर्त्तव्यः[२८] ।
जलवर्गः
सम्पादयतुजलं षड्गुणयुक्तं भवति यथा – शीतं, शुचिः, शिवं, निर्मलम् च । मधुरता, बलदता, कफहरता, वातहरता, वृष्यं, स्निग्धता इत्यादयः अपि जलस्य सामान्यगुणाः भवन्ति । उष्णजलं, शीतजलं, समोष्णजलं, नारिकेलोदकं, नद्युदकम् इत्यादयः जलस्य प्रकाराः सन्ति[२९] ।
गोरसवर्गः
सम्पादयतुगोभ्यः प्राप्ताः रसाः गोरसाः उच्यन्ते । यथा – दुग्धं, दधि, तक्रं, घृतम् इत्यादयः गोरसवर्गे सन्ति । गव्यत्वेन एतेषां रसानां समावेशः भवन्ति[३०] ।
हरितवर्गः
सम्पादयतुदलमालिनी, पालङ्की, मारीषः इत्यादीनि पर्णयुक्तव्यञ्जनानि भवन्ति । तानि हरितशाकानि इति कथ्यन्ते । सर्वाणि व्यञ्जनानि स्निग्धलवणमरिचादिभिः पच्यानि भवन्ति [३१]।
इक्षुविकारवर्गः
सम्पादयतुइक्षुदण्डेभ्यः रसः प्राप्यते । तेन रसेन शर्करा, गुडः इत्यादयः पदार्थाः निर्मीयन्ते । मधुरोर्जायाः उत्पादने इक्षुदण्डः प्रयुज्यते[३२] ।
स्निग्धवर्गः (Oil and Fats)
सम्पादयतुनवनीतं, घृतं, वनस्पतिघृतं (Hydrogenated oil), वानस्पतितैलम् (Vegetable oils), तिलेभ्यः, कार्पासात्, सूर्यमुखिनः प्राप्तानि तैलानि स्निग्धवर्गे समाविष्टानि भवन्ति । एतेषां तैलानां भक्षणेन A.D.I. नामकं विटामिन्-तत्त्वं प्राप्यते[३३] ।
आहारपदार्थाः
सम्पादयतुपाकशालायां कार्यं कुर्वद्भिः सर्वैः अपि तत्र विद्यमानानां नित्योपयोगीनां पदार्थानां सर्वेषाम् अपि गुणस्य, धर्मस्य च ज्ञानं भवेत् । भारते तु पूर्वं गृहिण्यः सर्वाः तादृशं ज्ञानं श्रवणद्वारा एव प्राप्नुवन्ति स्म । स्मृतिद्वारा एव अग्रिमान् पाठयन्ति स्म च । अयं पदार्थः उष्णप्रधानः, अयं च वायुकारकः, अयम् अजीर्णकारी, अयं हितकारकः इति पदार्थानां गुणं धर्मं च जानन्त्यः स्मरन्त्यः एव योग्यप्रमाणेन आवश्यकतानुसारं तेषाम् उपयोगं कुर्वन्ति स्म ताः । कस्मिंश्चित् अपि विश्वविद्यालये दीर्घकालीनं शिक्षणं न प्राप्तवत्यः आसन् ताः पाकशास्त्रविषये । तथापि गृहे विद्यमानानां सर्वेषाम् आरोग्यरक्षणं कुर्वन्ति स्म ताः । यतः ताः विवेकमतयः आसन्, सम्यक् पाकविद्यां च जानन्ति स्म । सामान्यतया जायमानस्य ज्वरस्य, पीनसस्य, अजीर्णस्य, वमनस्य, शरीरवेदनायाः, शिरोवेदनायाः वा औषधं गृहे विद्यमानं शुण्ठीं, मरीचं, हरिद्रां, मधु, घृतं वा आहारपदार्थम् एव उपयुज्य निर्मान्ति स्म पूर्वम् । इदानीं तत्सर्वम् अपि विपरीतं जातम् अस्ति । लघु लघु विषयार्थम् अपि वैद्यान् एव पश्यन्ति, गुलिकाः द्रवरूपम् औषधं वा सेवन्ते । एतत् किमपि शुभलक्षणं न । “भारतस्य आहारसम्पत्तिः विशिष्टा” इति ज्ञानं सर्वेषां भवेत् अस्माकम् । तदर्थम् एव नित्योपयोगीनां प्रमुखाणां सात्त्विकानाम् आहारपदार्थानां काञ्चित् आवलीं वयम् एवं सज्जीकर्तुं शाक्नुमः ।
राष्ट्रनायकस्य गृहं परितः सुभद्रा रक्षणव्यवस्था भवति, अन्ये अन्तः न प्रविशेयुः इति । तथैव अस्माकं शरीरनामकस्य राष्ट्रस्य नायकः आत्मा । आत्मनः हानिकारकाणि वस्तूनि आहाररूपेण अपि अन्तः न प्रविशेयुः । तदर्थम् आत्मरक्षणस्य व्यवस्था अपि अस्माभिः कल्पनीया । जिह्वायाः चापल्यस्य वशीभूत्वा आत्मनः हानिकारकाः अपि आहाराः रुचिकराः इति यदा चिन्त्यते तदा एव अनर्थपरम्परा आरप्स्यते । भारतीयपरम्परायाम् आदर्शभूतः आहारक्रमः आत्मना इन्द्रियैः च सम्मतः आहारक्रमः एव । अस्माकं जीवने मुख्यं पात्रं वहतः आहारस्य विषये अस्माभिः दीयमानं महत्त्वम् अपर्याप्तम् एव । जिह्वायाः चापल्यस्य वशीभूताः वयं सर्वोत्कृष्टं भारतीयम् आहारज्ञानं परित्यज्य राजसं तामसं वा आहारं सेवमानाः दैवत्वात् दानवतायाः दिशि गच्छन्तः स्मः । भारते जन्म प्राप्य अपि वयं भारताः न जाताः एव । अस्माकं पितृपितामहैः अनुसृतः प्रशस्तः आहारमार्गः अस्माभिः अपि अनुसरणीयः । तदा एव वयमपि ते इव महान्तः भवामः । विभिन्नेषु प्रदेशेषु विभिन्नाः आहारपदार्थाः वर्धन्ते । वातावरणम् अपि विभिन्नेषु प्रदेशेषु विभिन्नम् एव भवति । अतः तत्तत् वातावरणानुगुणं तत्र तत्र ये अहारपदार्थाः वर्धन्ते तेषाम् उपयोगः क्रियते । अतः एतानि विहाय इतोऽपि आहारपदार्थाः सन्ति एव । एषा आवली न परिपूर्णा ।
षड्रसयुक्तः आहारः
सम्पादयतुआहारे रसाः षड्प्रकारकाः भवन्ति । भोजने यथाप्रमाणं रसानां ग्रहणं करणीयम् भवति । यथा – मधुरः, अम्लः, लवणः, कटुः, तिक्तः, कषायः च षड्रसाः सन्ति ।
मधुररसः
सम्पादयतुशुक्राभिवर्धनं, आयुष्यम्, षडिन्द्रियप्रसादनम्, बलवर्णकरः, पित्तविषमारुत्तघ्नः, त्वच्यः, केश्यः, कण्ठ्यः, बल्यः, प्रीणनः, जीवनः, तर्पणः, बृंहणः, स्थैर्यकरः, क्षीणक्षतसन्धानकरः, घ्राणमुखकण्ठौष्ठजिह्मप्रह्लादनः, दाहमूर्च्छाप्रशमनः, पिपीलिकानांज् इष्टतमः स्निग्धः गुरुः शीतः इत्यादयः गुणाः मधुररसाहारे भवन्ति[३४] ।
अम्लरसः
सम्पादयतुअम्लरसः देहं बृंहयति, अग्निं दीपयति, भुक्तं रोचयति, मनः बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातम् अनुलोमयति, हृदयं तर्पयति, आस्यम् आस्रावयति, भुक्तं अपकर्षयति च । स्निग्धः, लघुः, उष्णः च अम्लरसस्य गुणाः सन्ति[३५] ।
लवणरसः
सम्पादयतुलवणरसः क्लेदनः, वातहरः, आस्यम् आस्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, शरीरावयवान् मृदूकरोति, आहारं रोचयति च [३६]।
कटुरसः
सम्पादयतुकटुरसः अग्निं दीपयति, भुक्तं शोषयति, घ्राणम् आस्रावयति, चक्षुः विरेचयति, इन्द्रियाणि स्फुटीकरोति, अशनं रोचयति, कण्डुः विनाशयति, व्रणान् अवसादयति, क्रिमीन् हिनस्ति, श्लेष्माणं शमयति च । लघुः उष्णः रुक्षः च कटुरस्य गुणाः सन्ति [३७]।
तिक्तरसः
सम्पादयतुविषघ्नः, कृमिघ्नः, ज्वरघ्नः, दीपनः, मांसयोः स्थिरीकरणम्, पाचनम्, स्तन्यशोधनम्, लेखनम्, रुक्षः शीतः लघुः इत्यादयः तिक्तरसस्य गुणाः सन्ति [३८]।
कषायरसः
सम्पादयतुसंशमनः, पीडनोरोपणः, शोषणः, स्तम्भनः, श्लेष्मरक्तपित्तप्रशमनः, शरीरक्लेदस्योपयोक्ता, रुक्षः, शीतः, गुरुः इत्यादयः कषायरस्य गुणाः सन्ति [३९]।
एतेषु षड्रसेषु “गुरुः, लघुः, शीतः उष्णः, स्निग्धः, रुक्षः, मन्दः, तीक्ष्णः, स्थिरः, सरः, मृदुः, कठिनः, विशदः, पिच्छलः, श्लक्ष्णः, स्वरः, सूक्ष्मः, स्थूलः, सान्द्रः, द्रवः एते विंशतिः गुणाः भवन्ति[४०] । सर्वे रसाः पाञ्चभौतिकाः भवन्ति । अर्थात् षड्रसानां प्रकृतिः पृथ्वीजलवाय्वाकाशाग्निभिः निर्मिता भवति ।
आहारः षड्रसैः युक्तः भवेत् इति शास्त्रे निहितम् अस्ति । तेन स्वास्थ्ये लाभः भवति । भोजनस्य प्रारम्भे नित्यं लवणार्द्रकः भक्ष्यः । तदनन्तरं भोजने सर्वप्रथमं द्रवरूपं ग्राह्यं, मध्ये कठोररूपं, अन्ते च पुनः द्रवरूपं ग्राह्यम् । पूर्वं मधुररसीयाः पदार्थाः ग्राह्याः, मध्ये अम्ललवणयुताः पदार्थाः, अन्ते च कटुतिक्तकषायाः पदार्थाः ग्राह्याः इति शास्त्रे नियमः[४१] ।
- मधुररसः – पृथ्वीजलयोः संसर्गेण मधुररसः उत्पद्यते ।
- अम्लरसः – पञ्चमहाभूतेषु अग्निपृथ्व्योः संसर्गेण अम्लरसः भवति ।
- लवणरसः – पञ्चमहाभूतेषु अग्निजले लवणरसे निहिते भवतः ।
- कटुरसः – अग्निवाय्वाख्ये तत्त्वे कटुरसे प्राप्येते ।
- तिक्तरसः – वाय्वाकाशतत्त्वे तिक्तरसे प्राप्येते ।
- कषायरसः – कषायरसः पृथ्वीवायुतत्त्वयुतः भवति ।
सामान्याहारे विभिन्नतत्त्वानां प्रमाणम्
सम्पादयतुप्रोभूजनं, कार्बोजः, वसा, खानिजलवणं, जलं, जीवनीयतत्त्वानि एतानि तत्त्वानि आहारेषु सप्रमाणं भवेयुः । तदर्थं तेषां तत्त्वानां प्रमाणमपि ज्ञातव्यं भवति [४३]।
- शरीरस्य सञ्चालनाय शक्तेः, उष्मायाः आवश्यकता वर्तते । अतः कार्बोजेन, वसया, प्रोभूजेन च शक्तिः, उष्मा च प्राप्यते ।
- प्रोभूजनेन, खानिजतत्त्वेन, जलेन च शरीरस्य स्नायूनां वृद्धिः, क्षतिपूर्तिः च भवति ।
- जीवनीयतत्त्वैः, खानिजतत्त्वेन, जलेन च शरीरे शक्तिसञ्चारः भवति[४४] ।
क्रमांक | तत्त्वम् | प्रमाणम् |
---|---|---|
१ | प्रोभूजनम् | ७५.१०० ग्राम् |
२ | कार्बोजः | ४००.५०० ग्राम् |
३ | वसा | ७५.१०० ग्राम् |
४ | लवणम् | ७५.१०० ग्राम् |
फास्फोरस् | १.५ ग्राम् | |
जीवनीयतत्त्वम् | १.५ ग्राम् | |
लोहतत्त्वम् | १.५ मि. ग्राम् | |
आयोडीनतत्त्वम् | १५० मि. ग्राम् | |
ताम्रांशतत्त्वम् | १०५ मि. ग्राम् | |
५ | जीवनीयतत्त्वानि | |
ए (A) | ५००० | |
डी (D) | १००० | |
बी -१ (B-1) | १.२ मि. ग्राम् | |
बी -२ (B-2) | २.० मि. ग्राम् | |
निकोटिक् एसिड् | १.२ मि. ग्राम् | |
सी (C) | ५०० मि. ग्राम् | |
६ | जलम् | २.४ प्रतिशतं परिमितम् |
आहारस्य लाभः
सम्पादयतुयदि आहारः विचारपूर्वकः क्रियते तर्हि सः सर्वदा लाभकरः, आनन्दकरः, सुखदः, मनः प्रसन्नताधायकः, वीर्यदः, बलदः, पुष्टिदः, सन्तोषप्रदः, हर्षदः, संस्कारदः, वातहरः, अस्थिसन्धानकरः, श्लेष्मरक्तपित्तप्रशमनः, विषघ्नः, कृमिघ्नः, अग्निप्रदीपकः, शरीरावयवान् मृदुकरः च भवति[४५] ।
अतः उक्तं च – “देहः आहारसम्भवः” इति । आहारः बलकारकः अपि अस्ति । आहारेण आयुः, तेजः, उत्साहः, स्मृतिः, ओजः, अग्निः च विवर्धते ।
“ |
|
” |
अपरम् अपि उक्तं च - “यच्चाप्रियमपथ्यं च नियतं तन्न भक्षयेत्” अर्थात् यः आहारः अप्रियः, अनित्यः भवेत् सः आहारः न भक्ष्यः । अतः हितभुक्, मितभुक्, ऋतभुक् इत्यनेन नियमेन एव आहारः भक्ष्यः । तदैव मानवः लाभान्वितः भवति । अजीर्णे भोजनं वर्ज्यम् अस्ति । सः अहिताहारः अपि कथ्यते । अहिताहारः भक्षणे हानिकारकः भवति[४६] ।
आहारस्य नियमाः
सम्पादयतुमानवजीवनैः आहारस्य आवश्यकता सर्वदा भवति । आहारेण शरीरस्य विकासः, मानसिकविकासः च शक्यः भवति । आहारेण एव जठराग्निः अपि प्रदीप्तः भवति[४७] ।
आहारभक्षणे बहवः नियमाः भवन्ति । तेषु केचित् नियमाः अत्र प्रदत्ताः सन्ति ।
करौ पादौ च प्रक्षाल्य एव भोजनं करणीयम् इति सर्वप्रथमः नियमः । कारणं करपादप्रक्षालनेन स्वच्छता भवति । तेन आयुष्यवृद्धिः अपि जायते [४८]। तदनन्तरं कस्मिन् पात्रे भोजनं कर्त्तव्यम् इति अपि चिन्तनीयम् । अतः सुवर्णपात्रे, पलाशपत्रे, पद्मपत्रे च आहारः स्वीकर्त्तव्यः । किन्तु मृत्तिकायाः पात्रे, लोहपात्रे, ताम्रपात्रे च भोजनं न करणीयं । एतानि पात्राणि शास्त्रे निषिद्धानि सन्ति [४९]। एतेषु वर्ज्यपात्रेषु भोजनेन मनुष्यः नरकं प्राप्नोति ।
भोजनसमये दिग्विचारः अपि करणीयः । पूर्वाभिमुखम्, उत्तराभिमुखं वा उपविश्य एव भोजनं करणीयम् । पात्रे भोजनं कथं कुत्र वा परिवेषणीयम् इत्यपि विचारणीयं भवति । यथा पात्रस्य मध्ये घृतयुक्तम् अन्नं, पात्रस्य वामतः भक्ष्यं भोज्यं चाहारः, पात्रस्य दक्षिणे पायसं, पात्रस्य पुरतः शाकानि च परिवेषणीयानि भवन्ति[५०] ।
यत् भोजनं केशैः, नखैः वा दूषितं भवेत् , तत् भोजनं न स्वीकर्त्तव्यम् । “अति सर्वत्र वर्जयेत्” इति नियमानुसारम् अति भोजनम् अपि न कर्त्तव्यम्[५१] । लवणादीनि व्यञ्जनानि हस्तदत्तानि न भक्षयेत् इति नियमः अपि अनुसरणीयः । जलं वामहस्र्ते धृत्वा दक्षिणमणिबन्धे निधाय पिबेत् ।
बुभुक्षायां सत्याम् एव भोजनं ग्राह्यम् । बुभुक्षायाः तृप्तिपर्यन्तम् एव भक्ष्यम् । एकाग्रचित्तेन, शान्त्या च भोजनं कुर्यात् । भोजने खाद्यपदार्थानां मात्रा अधिका मा भवेत् इति चिन्तनीयम्[५२] । सामान्यभोजनं, अल्पाहारः च स्वीकर्त्तव्यः । भोजनसमये जलं न पिबेत् । भोजनस्य ३० निमिषेभ्यः पूर्वं, ५० निमिषेभ्यः पश्चात् वा जलं पिबेत् ।
अपच्यं भोजनम् अपि न कुर्यात् । भक्ष्यपदार्थाः प्रक्षाल्यैव उपयुज्याः । मौनेन एव भोजनं करणीयम् । अत्युष्णं, अतिशीतलं वा भोजनं न ग्राह्यम् । तेन भोजनेन जठराग्निः प्रभावितः भवति [५३]। पाचने अपि दुष्करं भवति । भोजनसमये चलचित्रं, दूरदर्शनं वा मा पश्येत् ।
उष्णं भोजनं स्वादिष्टं भवति । उष्णभोजनेन पाचने सहाय्यं भवति । आहारे ७०% कठोरं, ३०% द्रवं च भोजनं भवेत् । भोजनानन्तरं होरात्रयानन्तरम् एव शयनं करणीयम्[५४] । तेन पाचने सारल्यं भवति । अन्यथा अजीर्णता भवितुं शक्यते ।
अस्माकं शरीरस्य पाचनशक्तिः निर्धारिता भवति । मनुष्यजीवने मांसाहारः वर्ज्यः अस्ति । अतः मांसाहारः न भक्ष्यः । शाकाहारेण शरीरस्य बलं वर्धते । तण्डुलाः, मुद्गाः इत्यादयः उपाहारः कथ्यन्ते [५५]। उपाहारः अधिकमात्रायां स्वीकर्त्तव्यः ।
- उष्णाहारः स्वीकर्त्तव्यः । उष्णाहारेण जठराग्निः अधिकः प्रदीप्तः भवति । तेन शीघ्रतया भोजनं पचति ।
- स्निग्धाहारः ग्राह्यः । स्निग्धाहारः शरीरं पोषयति, इन्द्रियाणि दृढीकरोति च ।
- मात्रापूर्वकः आहारः ग्राह्यः । शरीरस्य पाचनशक्तेः अनुकूलः आहारः स्वीकर्त्तव्यः । उचितमात्रायाम् आहारेण स्वास्थ्यसंरक्षणं भवति ।
- पाचनानन्तरम् एव भोजनं स्वीकरणीयम् ।
- अविरुद्धवीर्ययुतः आहारः ग्राह्यः । परस्परविरुद्धवीर्याहारेण रोगाः उत्पद्यन्ते ।
- अनुकूलस्थाने आहारः ग्राह्यः । यत्स्थानं प्रियं भवेत्, तत्रैव भोक्तव्यम् । यदाहारः प्रियः भवेत्, तदाहारः एव भक्ष्यः ।
- शीघ्रतया न भक्ष्यम् । शीघ्रभक्षणेन पाचने विलम्बः भवति ।
- मन्दगत्या न भक्ष्यम् । मन्दभक्षणेन भोजने तृप्तिः न भवति । तेन कारणेन आहारः शीतलः, पाकः विषमश्च भवति ।
- एकाग्रचित्तेन आहारः ग्राह्यः । एकाग्रचित्तेन भोजनस्य पाचने सारल्यं भवति ।
- आत्मशक्तेः अनुसारम् आहारः स्वीकर्त्तव्यः । आहारः लाभकरः, हानिकरः वा अस्ति इति चिन्तनीयम् । तदनन्तरं शक्तेः अनुसारम् आहारः ग्राह्यः । तादृशः आहारः हितकरः भवति ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये आहारः सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
सम्पादयतु- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०.
- ↑ वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ७. ISBN 8170780098.
- ↑ वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ७. ISBN 8170780098.
- ↑ वैद्य सुरेश चतुर्वेदी. आहार चिकित्सा. सुबोध पब्लिकेशन्स्. p. ८. ISBN 8170780098.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६०.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१.
- ↑ राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. १४. ISBN 8174505261.
- ↑ राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. ६५. ISBN 8174505261.
- ↑ राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद् (2010). विज्ञान (कक्षा ६). राष्ट्रीय शैक्षिक अनुसन्धान और प्रशिक्षण परिषद्. p. ६६. ISBN 8174505261.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६१.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६२.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ "sushruta sutra sthan". peterffreund.com. आह्रियत २० जनवरी २०१५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६३.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६४.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६५.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६६.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६७.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६९.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ६९.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७०.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७१.
- ↑ आयुर्वेदः (मध्यमा १) 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. ७१.
- ↑ "a premier health wikipedia भोजन करने के आवश्यक नियम (Necessary rule of taking FOOD)". maintainbodyfitness.blogspot.in. आह्रियत २९ जनवरी २०१५.
- ↑ "a premier health wikipedia भोजन करने के आवश्यक नियम (Necessary rule of taking FOOD)". maintainbodyfitness.blogspot.in. आह्रियत २९ जनवरी २०१५.
- ↑ "Health for all Dr. Vyas – भोजन के नियम, जिन्हे अपना कर सौ वर्ष जियें". healthforalldrvyas.blogspot.in. आह्रियत २९ जनवरी २०१५.
- ↑ "Health for all Dr. Vyas – भोजन के नियम, जिन्हे अपना कर सौ वर्ष जियें". healthforalldrvyas.blogspot.in. आह्रियत २९ जनवरी २०१५.
- ↑ "चरक सहिंता से उद्धृत भोजन करने के दस अनमोल नियम (अखिल विश्व गायत्री परिवार)". hindi.awgp.org. आह्रियत २९ जनवरी २०१५.
योजनीया]]