करणकारकम्
साधकतमं करणम्- १.४.४३ क्रियासिध्दौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् इति सूत्रार्थः । यत् स्वव्यापारसमनन्तरमेव फलोत्पादकं तत्करणमिति फलितोऽर्थः । यथा –रामः बाणेन रावणं हन्ति । हन्धातोर्थः – प्राणवियोगरुपं फलं तदनुकूलक्रिया च । हननक्रिया श्रयः रामः । अतः सः कर्ता । प्राणवियोगरुपं फलं रावणे अस्ति । फलाशयत्वात् रावणः कर्म । धनुषः मुक्तः बाणः गच्छन् रावणं विध्यति (प्रवोशति)। समनन्तरमेव प्राणवियोगः (फलम्) रावणे भवति । बाणस्य प्रवेशनव्यापारसमनन्तरमेव प्राणवियोगरुपं फलम् उत्पन्नम् । अतः बाणः स्वव्यापारसमनन्तरम् एव प्राणवियोगरूपफलोत्पादकः अस्तीति बाणः करणम् । अतः प्रकृष्टोपकारकं नाम=स्वव्यापारसमनन्तरं फलोत्पादकम् एव इति ज्ञेयम् ।
उदाहरणम्
सम्पादयतु- देवदत्तः परशुना वृक्षं छिनत्ति । छिदधातोरर्थः विदारणरुपफलं, तदनुकूलक्रिया च । क्रियाश्रयो देवदत्तः कर्ता । विदारणरुपं फलं वृक्षे अस्ति । अतः फलाश्रयत्वात् वृक्षः कर्म । देवदत्तः हस्ताभ्यां परशुम् उपरि नीत्वा अधः पातयति । अनेकशः उपरिनयनाधः पातनव्यापारसमनन्तरम् एव वृक्षे विदारणरुपं फलम् उत्पन्नम् । अतः परशुः स्वव्यापारसमनन्तरम् एव विदारणरुपफलोत्पादकः अस्ति इति परशुः करणम् ।
- बालः पादाभ्यां गृहं गच्छति । गम्धातोरर्थः –उत्तरदेशसंयोगः तदनुकूलक्रिया च । क्रियाश्रयः बालः कर्ता । संयोगरुपं फलं गृहे अस्ति । अतः फलाश्रयत्वात् गृहं कर्म । बालः पादौ उद्धृत्य निक्षिपति । अनेकशः उध्दरणनिक्षेणव्यापारसमनन्तरमेव गृहे संयोगः उत्पन्नः । अतः पादौ स्वव्यापारसमनन्तमेव संयोगरुफलोत्पादकौ स्तः इति पादौ करणम् ।