गया बिहारस्य द्वितीयं महानगरम् । गयामण्डलस्य केन्द्रम् अस्ति । गया बिहारस्य राजधान्याः पाट्नायाः १०० कि मीटर्मिते दूरे विद्यते । फल्गुनद्याः (रामायणे 'निरञ्जन' इति निर्दिष्टम्) तीरे विद्यमानम् इदं नगरं हिन्दु-बौद्ध-जैनधर्मानुयायिनां पवित्रं स्थानम् । इदं नगरं परितः तिसृषु दिक्षु पर्वताः (मङ्गलगौरी, शृङ्गस्थानम्, राम्शिला, ब्रह्मयोनी) चतुर्थदिशि (पूर्वा) नदी प्रवहति । प्राकृतिकपरिसरेण, पुरातनभवनैः, निबिडमार्गैश्च युक्तम् अस्ति ।

गया


हिन्दुधर्मदृष्ट्या

सम्पादयतु

'गया'इत्येतत् नाम पौराणिकदृष्ट्या गयासुरमूलम् । गयनामकः कश्चन पवित्रः असुरः आसीत् । देवाः तस्योपरि यज्ञस्य अनुष्ठानं कर्तुं तस्य देहं गृहीतवन्तः स्म किन्तु देहस्य कम्पनकारणेन यज्ञस्यानुष्ठानं सम्भवं नासीत्। सर्वे देवाः तस्योपरि स्थिताः अभवन् किन्तु कम्पनस्य विरामं नाभवत्। तदा गदाधारी भगवान् विष्णुः स्वस्य पादं तदुपरि संस्थाप्य गयासुरम् स्थिरमकरोत् । गयासुरस्य देहस्य यः कम्पनमस्ति, तस्य तुलनम् आत्मना सह कर्तुं शक्यन्ते। कथनमस्ति यत् बाह्य सुख-दुःखेभिः आत्मा न कम्पनीयः। आधुनिक विज्ञाने अस्य रूपं इलेक्ट्रान - फोनोन अन्योन्यक्रियारूपेण द्रष्टव्यमस्ति। फोनोनाः बाह्य सुख-दुःखेभिः तुल्याः सन्ति ये इलेक्ट्रानसंज्ञकं विद्युदावेशं स्वपथात् विचलितं कुर्वन्ति। ग्रेफीन संज्ञकः नवीन पदार्थः अस्य विचलनक्रियातः मुक्तमस्ति।

गयासुरस्य विशिष्टं सामर्थ्यम् आसीत् यत् तं दृष्टवतां स्पृष्टवतां सर्वेषां पापानि सः हरति स्म । अतः एव तस्य मरणस्य अनन्तरं बहु जनाः तत्र गत्वा पूर्वजानां श्राद्धक्रियां तस्य शरीरस्य उपरि कुर्वन्ति, ततः पूर्वजाः पापमुक्ताः भवेयुः इति । देवताः प्रतिज्ञातवन्तः आसन् यत् गयासुरस्य मरणस्य अनन्तरं तदीये शरीरे ताः वासं कुर्वन्ति इति । गयायाः पर्वतप्रदेशे बहूनां देवतानां मन्दिराणि विद्यन्ते । रामशिला-मङ्गलगौरी-शृङ्गस्थानम्-ब्रह्मयोनिषु विद्यमानानां देवमन्दिराणां प्रति गमनाय सोपानानि निर्मितानि सन्ति ।

गयायां तिथ्यनुसारेण श्राद्धकरणस्य विशिष्टा पद्धतिः अस्ति, यस्य निदर्शनं अन्यत्र उपलब्धमस्ति।

 
विष्णुपादमन्दिरम्

गयायां तीर्थस्थानानि

सम्पादयतु

गयायां तीर्थस्थानानि प्राकृतिकस्थानानि सन्ति अधिकांशतः । फल्गुनद्याः तीरे घट्टाः मन्दिराणि च विद्यन्ते । अञ्जीरवृक्षाः, अक्षयवटः, अमरः वटवृक्षः च पवित्राः मन्यन्ते । मङ्गलगौरीमन्दिरे वृत्ताकारकौ उभौ शिलाखण्डौ दृश्यतः । तौ भगवतः शिवस्य प्रथमपत्न्याः सतीदेव्याः स्तनयुगलं सङ्केतयतः । अत्रत्यः अतिप्रसिद्धः देवालयः नाम विष्णुपादमन्दिरम् । फल्गुनदीतः विष्णोः पादचिह्नानि असिताश्मसु सुविद्धानि सन्ति । विष्णुः स्वस्य पादं गयासुरस्य वक्षसि संस्थाप्य तं संहृतवान् यत् तत् द्योतयति । गयावालपण्डाः इति कथ्यमानाः ब्राह्मणाः अत्र साम्प्रदायिकार्चकाः । अधुना दृश्यमानं मन्दिरम् इन्दोरस्य नायिकया देवी अहल्या बाई होळ्करवर्यया १८ शतमाने निर्मितम् । बौद्धसम्प्रदायिनः विष्णुपादमन्दिरे विद्यमानानि पदचिह्नानि बुद्धस्य पदचिह्नानि इति मन्यन्ते ।

पूर्वजेभ्यः मुक्तिप्राप्त्यर्थं पिण्डदानम् अत्र क्रियते इत्यनेन हिन्दुभिः गयाक्षेत्रं पवित्रं मन्यते । रामायणे इदम् उल्लिखितं यत् पितृपक्षे पिण्डदानाय सीतया सह रामः अत्र यदा आगतः आसीत् तदा अश्रद्धायाः प्रदर्शनाय सीतया फल्गुनदी शप्ता आसीत् इति । शापस्य कारणतः फल्गुनदी शुष्का जाता । अत्र विशालस्थले मृत्तिकावशेषमात्रं दृश्यते । तदा एव सीतया वटवृक्षः अमरत्वेन अनुगृहीतः वर्तते । अतः एव अयं वृक्षः अक्षयवटः इति प्रसिद्धः । अन्येभ्यः वटवृक्षेभ्यः वर्षे एकदा शुष्काणि पर्णानि पतन्ति, किन्तु अयं वृक्षः सर्वदा तिष्ठति हरिद्वर्णपत्रपूर्णः ।

 
महाबोधिमन्दिरम्, बोधगया

बौद्धानां कृते गया पवित्रा यतः ब्रह्मयोनिपर्वते बुद्धः सहस्रं कृषकान् उद्दिश्य अदित्तपरियायसुट्टम् (अग्निपूजनम्) अपाठयत् यस्य श्रवणावसरे एव ते सर्वे प्रबोधिताः जाताः । तस्मिन् समये अयं पर्वतः गयाशिषा इति कथ्यते स्म ।

यवनानां पवित्रस्थानानि

सम्पादयतु

गयां परितः यवनानां बहूनि पवित्रस्थानानि वर्तन्ते ।

अता हुसैन् फानि मन्दिरम्

सम्पादयतु

अता हुसैन् फानि ख्रिस्टि कश्चन ख्रिस्टिस्तरीयः सूफिसन्तः । अयं महात्मना मोहम्मदेन अत्र आगत्य इस्लाम्मतं बोधनीयम् इति आदिष्टः आसीत् । सः १९ शतकस्य मध्यभागे अत्र आगत्य स्थितवान् । अधुना अस्य स्मारकमन्दिरं गयायाः हृदयभागे रामसागरस्य खाङ्कामार्गे विद्यते । श्रद्धावन्तः सर्वे अत्र गमिष्यन्ति ।

जमायवनमन्दिरम्

सम्पादयतु

जमामन्दिरं बिहारस्य बृहत्तमं यवनमन्दिरम् । इदं गयानगरस्य हृदयभागे वर्तते । शतवर्षपुरातनं मन्दिरम् इदम् । षबिना (रम्झान्पर्वणः २७ तमस्य रात्रेः विशेषपूजा) तबिघ् इत्यादीनां विषये इदं प्रसिद्धं वर्तते ।

 
बीथो शरीफ्स्मारकम्

बीथो शरीफ्स्मारकम्

सम्पादयतु

मुख्यनगरतः १० कि मी दूरे गया-पाट्नामार्गे स्थितं बीथो शरीफ् इत्येतत् किञ्चन मुख्यं यात्रास्थलं वर्तते । ख्रिस्टिया-अष्रफिया स्तरीयः हझरत् मख्डूम् सयद् षा दुर्वेष् अश्रफ् १९ शतके अत्र आगतः । इदं स्मारकं फल्गुनद्याः तीरे स्थितमस्ति । बहुभिः यवनैः अन्यैः च अत्र गम्यते । षाबान्मासस्य (हिज्रि दिनदर्शिका) ९ -१२ दिनेषु प्रतिवर्षं हझरत् मख्डूम् दुर्वेश् अष्रफ् उत्सवः आचर्यते ।

इतिहासः

सम्पादयतु

प्राचीनेतिहासः

सम्पादयतु

प्राचीनेतिहासे अस्य क्षेत्रस्य उल्लेखः गौतमबुद्धस्य प्रबोधनदिनात् दृश्यते । गयानगरतः ११ कि मी दूरे बुद्धगया वर्तते यत्र बुद्धेन साक्षात्कारः प्राप्तः । तदारभ्य गयां परितः विद्यमानानि स्थानानि (रज्गिर्, नलन्दा, वैशाली, पाटलीपुत्रम्) प्राचीनजगतः ज्ञानकेन्द्राणि जातानि । मौर्यवंशानां पालनावसरे एतानि केन्द्राणि विशेषतया प्रवृद्धानि जातानि । तदा गया मगधस्य भागः आसीत् ।

आधुनिकेतिहासः

सम्पादयतु

क्रि श १८१० तमे वर्षे गयानगरं द्विधा विभक्तम् आसीत् । एकत्र पुरोहितानां वसतिः आसीत् । सः प्रदेशः गया इति कथ्यते स्म । वणिजः न्यायवादिनः यत्र निवसन्ति स्म सः प्रदेशः इलहाबाद् इति निर्दिश्यते स्म । अग्रे इदं साहेब्गञ्ज् इति निर्दिष्टम् । इदं प्रसिद्धस्य डा अनुग्रह नरैन् सिंहस्य जन्मस्थानम् आसीत् । अयं बिहारस्य प्रथमः उपमुख्यमन्त्री वित्तमन्त्री च आसीत् । महान् राष्ट्रवादी किशन्-आन्दोलनस्य नायकः स्वामी सहजानन्दसरस्वती गयायाः नेयमत्पुरे कञ्चन आश्रमं निर्मितवान् यच्च स्थलम् अग्रे बिहारस्य स्वातन्त्र्यान्दोलनस्य केन्द्रं जातम् । तस्य सहवर्ती आसीत् परिहासस्य वीरकेशवार्सिङ्गः । किशन्-आन्दोलनस्य नायकः पण्डितः यदुनन्दनशर्मा अस्मिन् आश्रमे निवसति स्म इत्यतः भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य प्रमुखाः नायकाः सर्वे तस्य दर्शनाय अत्र अचिराद् आगच्छन्ति स्म । शर्मा गयायाः कृषकाणाम् अविरोधनायकः आसीत् । भारतस्य स्वातन्त्र्यान्दोलनाय गयया महत् पात्रं निरूढम् । तदवसरे १९२२ तमे वर्षे अत्र सम्पन्ने अखिलभारतीयकाङ्ग्रेस्संगोष्ठ्यां महात्मा गान्धिः, डा राजेन्द्रप्रसादः, डा अनुग्रहनारायणसिंहः, सर्दार्पटेलः, मौलाना आज़ाद्, नेहरु, श्री कृष्णसिंहादयः भागम् अवहन् । अस्याः अध्यक्षः आसीत् देशबन्धुः चित्तरञ्जनदासः ।

जनसङ्ख्याशास्त्रम्

सम्पादयतु

२००१ तमस्य वर्षस्य भारतीयजनगणतेः अनुगुणं गयायाः जनसङ्ख्या ३,९४,५६० । पुरुषाः ५३%, महिलाः ४७% विद्यन्ते । अक्षरज्ञाः ६८%, अक्षरज्ञाः पुरुषाः ७४%, अक्षरज्ञाः महिलाः ६०% । गतेषु चतुर्षु वर्षेषु गयायाः अक्षरज्ञानां सङ्ख्या ७५% जाता । अस्य कारणm अधुनातनः मुख्यमन्त्री श्री नितीशकुमारः । नगरे हिन्दवाः यवनाः च आधिक्येन निवसन्ति ।

मधुराणि

सम्पादयतु

बहूनां मधुराणां मूलस्थानमस्ति गया । तिल्कुट्, केसरीपेडा, लाय्, अनार्सा च बिहार्-झार्खण्ड् इत्यादिषु प्रदेशेषु प्रसिद्धानि अत्रत्यानि मधुराणि । तिल्कुट् इत्येतत् तिलेन गुढेन च निर्मीयते । केसरीयपेडा क्षीरस्य मण्डेन केसरेण च निर्मीयते ।

बाह्यसम्पर्कतन्तवः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=गया&oldid=484913" इत्यस्माद् प्रतिप्राप्तम्