जी पी राजरत्नम्

(जी. पी.राजरत्नम् इत्यस्मात् पुनर्निर्दिष्टम्)

जी.पी. राजरत्नमहोदयः(G P Rajaratna) कर्णाटकस्य बालसाहित्यकारेषु अत्यन्तं प्रसिद्धः। बहुभाषाज्ञः एषः विविधाः भाषाः अधीत्य तत्रत्यकृतीनां च अध्ययनं कृत्वा तत्रज्ञानेन कन्नडसाहित्यस्य पोषणं कृतवान्। सहृदयः एषः अनेकेषां लेखाकानां निर्माणे महत् पात्रम् आवहत्। भावजीविनः एतस्य कृतीषु भावनानां विशेषप्राधान्यं भवति।

जीवनम् सम्पादयतु

१९०८ तमे वर्षे तदानीन्तनबेङ्गलूरुतः प्रायशः५० कि।मी दूरे रामनगरे राजरत्नस्य जननम् अभवत् । कलाविषये स्नातकोत्तरपदविं प्राप्तवान् सः सुवर्णपदकमपि अलभत्। शिशुमन्दिरे, प्राथमिकशालायां, माध्यमिकशालायां च अध्यापकः आसीत् । अन्ते बेङ्गलूरुनगरे सेन्ट्र्लमहाविद्यालये उपन्यासकः भूत्वा १९६४ तमे वर्षे निवृत्तिं प्राप्तवान् ।

बालप्रीतिः सम्पादयतु

बालानां विषये राजरत्नस्य महती प्रीतिः। अतः एव एषः बालसाहित्यम् अधिकतया लिखितवान् । शिशुमन्दिरस्य पाठनकालस्य स्मरणार्थं तुत्तुरी(बालानां प्रियं वाद्यम्), कडलेपुरी(भृष्टतण्डुलः-बालानां प्रियं खाद्यम्), गुलगञ्जी(गुञ्जाबीजानि-बालस्य कृष्णस्य प्रियं क्रीडावस्तु) इति कवितासङ्ग्रहान् लिखितवान् । बालान् मनसि निधाय ७० कृतीः रचितवान् । पञ्जेमहोदयः कन्नडभाषया शिशुसाहित्यस्य आरम्भं कृतवान् आसीत्। एषः तस्य पोषणं वर्धनं च कृतवान्।

सहित्यरचना सम्पादयतु

राजरत्नः भावनात्मकतया लिखति स्म । कन्नडेन सह आङ्गल-संस्कृत-पालि-प्राकृत-हिन्दि-तमिलु-तेलुगुभाषाः च जानाति स्म । तत्रत्यं ज्ञानम् अपि स्वीकृत्य कन्नडभाषायां तस्य प्रसरणं कृतवान् । 'रत्नन पदगलु(रत्नस्य पद्यानि)’ तस्य श्रेष्ठा जनप्रिया कृतिः । अत्र 'रत्न' नामकस्य पात्रस्य द्वारा आनन्दः, दुःखं, शोषणं प्रति आक्रोशः, हास्यप्रज्ञा, अर्थिकी असमानता इत्येतादृशाः विषयाः निरूपिताः सन्ति। एतस्य भाषायाः काचित् विशिष्टा शक्तिः अस्ति । 'नागन पदगलु(नागस्य पद्यानि)’ अपि एतस्य एतादृशी एव कृतिः। नञ्जः, मुनीशः इत्येतादृशानि पात्राणि राजरत्नमहोदयः केवलं स्रष्टुं शक्नोति। 'गण्डुगोडली नामकं नाटकमपि एतस्य प्रमुखा कृतिः । अत्र अन्यायस्य अधर्मस्य विरुद्धं परशुरामस्य कोपः, अन्ते शान्ततया तस्य कोपस्य उपसंहारः च चित्रितः अस्ति। पुरुषसरस्वती इति एषा एका तस्य विडम्बनात्मिका कृतिः। अत्र राजरत्नस्य गाम्भीर्यता, विद्वत्ता च दृश्यते । राजरत्नं कश्चित् अत्युत्तमः भाषणकारः अपि च हास्यकारः। तस्य वैविध्यविडम्बनलेखनानि 'निर्भयोग्रफि’ नाम्ना प्रकाशितानि सन्ति । बौद्धधर्मसाहित्यस्य प्रसाराय पालिभाषाध्ययनं कृत्वा 'चीनाद-बौद्धयात्रिकरु’ 'धर्मदानी बुद्ध', बुद्धन जातककथेगळु’ इत्यादीनां कृतिनां रचनां कृतवान् । जैनशास्त्राध्ययनं कृत्वा 'महावीरन मातुकते’ 'गोम्मटेश्वर भगवान्, 'पार्श्वनाथजैन' 'अरवत्तमूरु' इत्यादीनां कृतीनां रचनां कृतवान् । राजरत्नं स्वयं लेखनस्य अपेक्षया अन्येषां द्वारा लेखनं कारयति स्म। स्वस्व वर्धनापेक्षया इतरेषां वर्धनम् इच्छति स्म। एषः अंशः तस्य सहृदयतां दर्शयति। आत्मानं 'साहित्यसेवकम्’ इति सः भावतयति स्म । बि.एम श्री, पञ्जे, मास्ति, कैलासम् इत्येतेषां कृतीनां परिययं प्रकटीकृतवान् । स्वविद्यर्थिनां लेखनप्रवृत्तेः विषये प्रोत्साहनं कृतवान् । गान्धितत्त्वेन प्रभावितः सन् गान्धिबिचारान् अपि लिखितवान् । एतैः कारणैः एव राजरत्नमहोदयस्य नाम कन्नडसाहित्ये विशिष्टस्थानम् आवहति।

प्रशस्तयः सम्पादयतु

एतस्य गौरवप्रस्शस्तयः -राज्यसाहित्य-अकाडेमि- प्रशास्तिः (१९६९), राज्येत्सवप्रशस्तिः (१९७०), धर्मस्थलसाहित्यसम्मेलने बालानां साहित्यसम्मेलनस्य अध्यक्षस्थानम् (१९६९) च। सामान्यतः ३० कृतीः प्रकटीकृत्य सेन्ट्रलमहाविद्यालये कर्नाटकसङ्घस्य गौरवं वर्धितवान् । १९७९ तमे वर्षे मरणं प्राप्तवान् ।

"https://sa.wikipedia.org/w/index.php?title=जी_पी_राजरत्नम्&oldid=404194" इत्यस्माद् प्रतिप्राप्तम्