प्रमुखा विकल्पसूचिः उद्घाट्यताम्

महावीरः ( /ˈməhɑːvrəhə/) (हिन्दी: महावीर,आङ्ग्ल: Mahavir) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अन्तिमः तीर्थङ्करः अस्ति । भगवतः महावीरस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सिंहः इत्यस्ति ।

महावीरः
चतुर्विंशतितमः जैनतीर्थङ्करः
Mahavir.jpg
महावीरस्य प्रतिमा
विवरणम्
अन्यनाम वर्धमानः, श्रमणः, ज्ञातपुत्रः
परिवारः
पिता सिद्धार्थः
माता त्रिशला
वंशः इक्ष्वाकुः
स्थानम्
जन्म क्षत्रियकुण्ड-ग्रामः
निर्वाणम् पावापुरी
लक्षणम्
वर्णः सुवर्णः
चिन्हम् सिंहः
औन्नत्यम् सप्त (७) हस्तमात्रात्मकम्
आयु: ७२ वर्षाणि
शासकदेवः
यक्षः मातङ्गः
यक्षिणी सिद्धायिका
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कौमारावस्थायां महावीरस्य शरीरस्य औन्नत्यं सप्त (७) हस्तमात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “मातङ्ग” इत्याख्यः यक्षः, “सिद्धयिका” इत्याख्या यक्षिणी च आसीत् । भगवान् महावीरः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

अन्तर्विषयाः

जन्म, परिवारश्चसम्पाद्यताम्

देवायुष्यं समाप्य भगवतः जीवः भरतक्षेत्रस्य क्षत्रियकुण्ड-नामके ग्रामे अवातरत् । तस्मिन् ग्रामे चैत्र-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ उत्तराषाढा-नक्षत्रे मध्यरात्रौ भगवतः महावीरस्य जन्म अभवत् [२]। महावीरस्य पिता सिद्धार्थः, माता च त्रिशला आसीत् ।

गर्भपरिवर्तनम्सम्पाद्यताम्

ऋषभदत्तः नामकः ब्राह्मणकुण्ड-ग्रामस्य कश्चन नायकः आसीत् । ब्राह्मणकुण्डग्रामे ब्राह्मणाः एव निवसन्ति स्म । ऋषभदत्तः कोडालगोत्रीयः, देवानन्दा जालन्धरगोत्रीया च आसीत् । एकदा आषाढ-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ उत्तराफाल्गुनी-नक्षत्रे रात्रौ देवानन्दा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव देवानन्दा ऋषभदत्ताय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः महावीरस्य जीवः देवानन्दायाः गर्भं प्राविशत् [३]

आगामि-दिवसे ऋषभदत्तः स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रं स्वप्नानां फलादेशाय वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा देवानन्दा चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशं कृतं यत् – “देवानन्दायाः गर्भे एकः श्रेष्ठः बालकः अस्ति । सः बालकः अन्तिमः तीर्थङ्करः भविष्यति” इति । स्वप्नशास्त्रिणां वचांसि श्रुत्वा ऋषभदत्तः, देवानन्दा च प्रसन्नौ अभवताम् । देवानन्दा गर्भस्य विशिष्टतया पालनं कुर्वती आसीत् ।

एकदा शकेन्द्रः अवधिज्ञानेन ऋषभदत्तस्य गृहे देवानन्दायाः गर्भे प्रभोः विकासशीलं शरीरं दृष्टवान् । इन्द्रेण विचारितं यत् – “तीर्थङ्करस्य, चक्रवर्तिनः, बलदेवस्य, वासुदेवस्य, प्रतिवासुदेवस्य च जन्म केवलं क्षत्रियगृहे एव् भवति । अयं तु महदाश्चर्यः वर्तते यत् – “भगवतः अवतरणं ब्राह्मणवंशे अभवत्” । तीर्थङ्करस्य जन्म सदैव प्रभावशालिनि कुले एव भवति । वर्तमाने काले क्षत्रियवंशस्य अत्यधिकः प्रभावः वर्तते । अतः भगवतः शरीरस्य गर्भपरिवर्तनं करणीयम्” इति ।

इन्द्रेण हरिणगमेशी इत्याख्यः देवः आहूतः । शकेन्द्रेण हरिणगमेशी उक्तः यत् – “अन्तिमः तीर्थङ्करः देवानन्दायाः गर्भे अस्ति । अतः तस्य शरीरं क्षत्रियकुण्ड-ग्रामस्य राज्ञः सिद्धार्थस्य पत्न्याः त्रिशलायाः गर्भे स्थापयतु । त्रिशलायाः गर्भे यः जीवः वर्तते, तज्जीवं देवानन्दायाः गर्भे स्थापयतु” ।

इन्द्रस्य आज्ञानुसारं हरिणगमेशी गर्भपरिवर्तनाय प्रस्थितवान् । देवानन्दा रात्रौ निन्द्राधीना आसीत् । तस्मिन् दिने गर्भकालस्य त्र्यशीतितमा रात्रिः आसीत् । हरिणगमेशी गर्भपरिवर्तनाय भगवतः प्रार्थनां चकार, आज्ञां च स्वीकृतवान् । अनन्तरं हरिणगमेशी देवानन्दात्रिशलायोः गर्भपरिवर्तनं कृतवान् ।

गर्भपरिवर्तनस्य कार्यं भाद्रपदमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अभवत् । तस्यां रात्रौ देवानन्दा, त्रिशला च चतुर्दशस्वप्नान् दृष्टवती । राज्ञ्या त्रिशलया चतुर्दशस्वप्नाः सिद्धार्थाय श्राविताः । आगामिदिवसे राज्ञा सिद्धार्थेन स्वप्नशास्त्रिणः आहूताः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः कृतः । तैः उक्तः यत् – “महाराज्ञ्याः गर्भे अन्तिमतीर्थङ्करस्य जीवः अस्ति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्ञा स्वप्नशास्त्रिभ्यः दक्षिणाः प्रदत्ताः ।

यदा त्रिशलायाः गर्भं भगवतः जीवः प्राविशत्, तावत् राज्ञः सिद्धार्थस्य राज्यम् अन्नैः, सम्पत्त्या च परिपूर्णम् अभवत् । देवसाहाय्येन तस्य राज्यम् अर्थसम्पन्नम् अभवत् ।

गर्भे प्रतिज्ञासम्पाद्यताम्

गर्भे भगवतः जीवः सप्तमासात्मकः अभवत् । तदा भगवान् विचारितवान् यत् – मया हस्तपादचालनेन मात्रे पीडा भविष्यति । अतः भगवता हस्तपादचालनम् अवरुद्धम् । गर्भस्पन्दने अवरुद्धे सति माता त्रिशला चिन्ताग्रस्ता अभवत् । अनन्तरं सा रुदन्ती आसीत् । सर्वे जनाः अपि चिन्ताग्रस्ताः अभवन् । भगवान् अवधिज्ञानेन बहिर्दृश्यम् अपश्यत् । तद्दृश्यं हृदयविदारकम् आसीत् । तदृष्ट्वा भगवता तत्कालमेव हस्तपादचालनम् आरब्धम् । तदा सर्वे जनाः निश्चिन्ताः जाताः । मातृपित्रोः स्नेहं दृष्ट्वा भगवता गर्भे एव प्रतिज्ञा कृता यत् – “मातृपित्रोः स्वर्गवासानन्तरम् एव अहं दीक्षां स्वीकरिष्यामि, तत्पूर्वं न” इति ।

गर्भकालस्य नवमासानन्तरं भगवतः महावीरस्य जन्म अभवत् । षड्पञ्चाशत् दिक्कुमारीभिः प्रसुतिकर्म कारितम् । पीडारहितः प्रसवः जातः । प्रसवसमये इन्द्रः समागतवान् । इन्द्रः शिशोः प्रतिरूपं मातुः समीपे स्थापयित्वा भगवतः शरीरं पुण्डरीकवनं नीतवान् । तत्र एकस्यां शिलायां पूर्वाभिमुखमुपविश्य इन्द्रः शिशुं हस्तयोः अस्थापयत् । तस्मिन् समये अन्ये त्रिषष्टिः इन्द्राः, देवाः चापि समुपस्थिताः आसन् । देवाः जलं नीत्वा आगतवन्तः । सर्वैः भगवतः महावीरस्य अभिषेकः कृतः । अभिषेकान्ते पुनः शिशुं मातुः क्रोडे अस्थापयत् ।

राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं प्रदत्तवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् जन्मोत्सवः आचरितः । लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च भगवतः महावीरस्य जन्मोत्सवे समुपस्थिताः आसन् । लोकान्तिकदेवानां, इन्द्राणां च उपस्थितिः आवश्यकी वर्तते स्म । ये बन्दिनः आसन्, तेभ्यः राज्ञा मुक्तिः अदीयत [४]

पूर्वजन्मसम्पाद्यताम्

भगवान् महावीरः सप्तविंशतिभवानां यात्रां कृतवान् आसीत् । मनुष्यः स्वकर्मणा एव स्वर्गं नरकं वा गच्छति । अनेन प्रकारेण महावीरस्य आत्मना अपि स्वकर्मानुसारं सुखं, दुःखं च भुक्तम् । महावीरस्य आत्मना बहूनां भवानां यात्रा कृता अस्ति । किन्तु यावत् महावीरस्य आत्मना सम्यक्त्वं प्राप्तं, तावदेव भवानां गणना कृता अस्ति । अतः महावीरस्य षड्विंशतिभवानां विवरणम् अधः लिखितम् अस्ति [५]

प्रथमः, द्वितीयः च भवःसम्पाद्यताम्

जम्बूद्वीपस्य पश्चिममहाविदेहे महाविप्र-नामके विजये जयन्ती-नामिका नगरी आसीत् । तस्याः नगर्याः राजा शत्रुमर्दनः आसीत् । तस्य राज्ये पृथ्वीप्रतिष्ठा-नामकः ग्रामः आसीत् । तस्य ग्रामस्य अधिकारी नयसारः आसीत् ।

एकदा राज्ञः आज्ञानुसारं नयसारः काष्ठानि आनेतुम् अनेकैः जनैः सह वनं गतवान् आसीत् । मध्याह्ने एकस्य वृक्षस्य अधः सर्वे भोजनं कुर्वन्तः आसन् । तदा नयसारेण वने केचन मुनयः दृष्टाः । नयसारः उत्थाय मुनीनां वन्दनां चकार । ते मुनयः पिपासवः, बुभुक्षिताः च आसन् । नयसारेण मुनिभिः जलपानं भोजनं च प्रदत्तम् । अनन्तरं मुनिभिः नयसाराय उपदेशः प्रदत्तः । तस्य नयसारस्य मनसि प्रभावः अभवत् । अतः तस्मिन् भवे एव नयसारः सम्यक्त्वं प्राप्तवान् । नयसारः दीक्षाम् अङ्गीकृत्य साधनां चकार । मृत्योः अनन्तरं द्वितीये भवे सौधर्म-नामके देवलोके पल्योपम-देवः अभवत् ।

तृतीयः, चतुर्थः च भवःसम्पाद्यताम्

देवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः चक्रवर्तिनः भरतस्य पुत्रस्वरूपेण अवतीर्णः । तस्य नाम मरीचिः आसीत् । एकदा ऋषभदेवः अयोध्यानगरीं प्राप्तवान् । भगवतः ऋषभदेवस्य प्रवचनं श्रुत्वा राजकुमारः मरीचिः विरक्तो जातः । अतः तेन भगवतः ऋषभदेवात् दीक्षा स्वीकृता । सः एकादशाङ्गानाम् अध्ययनं कृतवान् ।

एकदा चक्रवर्ती भरतः भगवन्तम् ऋषभदेवं पृष्टवान् यत् – “भवतः सभायां कोऽपि जीवः अस्याम् अवसर्पिण्यां भवत्सदृशः तीर्थङ्करः भवेत् ? तदा भगवान् ऋषभदेवः उक्तवान् यत् – अस्यां सभायां तादृशः कोऽपि नास्ति किन्तु बहिः ते पुत्रः मरीचिः अस्ति । सः अस्मिन् भरतक्षेत्रे अन्तिमः तीर्थङ्करः, महाविदेहक्षेत्रस्य मूका-नगर्यां प्रियमित्र-नामकः चक्रवर्ती च भविष्यति ।

भरतेन अयं शुभसमाचारः मरीचये श्रावितः । शुभसमाचारं श्रुत्वा मरीचिः प्रसन्नः जातः । सः उक्तवान् यत् –


आद्योहं वासुदेवानां, पिता मे चक्रवर्तिनाम् ।
पितामहो जिनेन्द्राणाम्, ममाहो उत्तमं कुलम् ॥

“मे कुलं कीदृशम् उन्नतम् अस्ति ? मम पिता प्रथमः चक्रवर्ती, मे पितामहः प्रथमः तीर्थङ्करः च अस्ति । अहमपि तीर्थङ्करः, प्रथमः वासुदेवः, चक्रवर्ती च भविष्यामि” इति सः वदन् आसीत् । स्वस्य कुलस्य अभिमानेन मरीचिना नीचगोत्रस्य बन्धनं कृतम् ।

एकदा मरिचिः रोगग्रस्तः आसीत् । तदा केऽपि तस्य सेवायाम् उपस्थिताः नासन् । तस्मिन् दिवसे मरिचिना निर्णयः कृतः यत् – “एकः शिष्यः अपेक्षितः” । यदा मरिचिः स्वस्थः अभवत्, तदा तेन पूर्ववत् जनेभ्यः उपदेशः प्रदत्तः । कपिल-नामकः राजकुमारः मरीचेः शिष्यः भवितुम् आगतः । मरीचिना कपिलः शिष्यत्वेन स्वीकृतः आसीत् । अनन्तरं त्रिदण्डीसन्यासी इव मरीचिना अवशिष्टं जीवनं यापितम् ।

अन्ते मरीचिः मृत्योः अनन्तरं ब्रह्म-नामके पञ्चमे देवलोके देवः अभवत् ।

पञ्चमः भवःसम्पाद्यताम्

ब्रह्मलोकस्य आयुष्यं समाप्य महावीरस्य जीवः कोल्लाकसन्निवेषे कौशिक-नामकस्य ब्राह्मणस्य स्वरूपेण अवतीर्णः । अशीतिलक्षं पूर्ववर्षाणां तस्य आयुष्यम् आसीत् । अस्य भवस्य अनन्तरं महावीरस्य जीवेन बहूनां लघुनां भवानां यात्रा कृता आसीत् । किन्तु सप्तविंशतिभवेषु तेषां गणना न कृता ।

षष्ठः, सप्तमः च भवःसम्पाद्यताम्

षष्ठे भवे भगवतः महावीरस्य जीवः पुनः मनुष्ययोनौ अवतीर्णः । थुना-नगर्यां पुष्यमित्र-नामकस्य ब्राह्मणस्वरूपे महावीरस्य जन्म अभवत् । सः गृहस्थाश्रमे परिव्राजकपदं प्रापत् । अनन्तरं सप्तमे भवे महावीरस्य जीवः सौधर्मनामके प्रथमे देवलोके देवः अभवत् ।

अष्टमः, नवमः च भवःसम्पाद्यताम्

देवायुष्यं समाप्य तस्य जीवः चैत्यसन्निवेषे अग्निहोत्रब्राह्मणस्य स्वरूपेण अवातरत् । अन्ते अग्निहोत्रब्राह्मणः परिव्राजकपदं प्राप्तवान् । तस्य सम्पूर्णम् आयुष्यं चतुषष्टिलक्षपूर्ववर्षाणाम् आसीत् । नवमे भवे ईशान-नामके द्वितीये देवलोके देवः अभवत् ।

दशमः, एकादशः च भवःसम्पाद्यताम्

दशमे भवे तस्य जीवस्य जन्म मन्दिरसन्निवेषे अग्निभूतिनामकस्य ब्राह्मणस्वरूपे अभवत् । अन्ते तेन परिव्राजकदीक्षा स्वीकृता । तस्य सम्पूर्णम् आयुष्यं षड्पञ्चाशल्लक्षं पूर्ववर्षाणाम् आसीत् । अनन्तरम् एकादशे भवे सः सनत्कुमार-नामके तृतीये देवलोके देवः अभवत् ।

द्वादशः, त्रयोदशः च भवःसम्पाद्यताम्

देवायुष्यं समाप्य पुनः महावीरस्य जीवः द्वादशे भवे श्वेताम्बिका-नामिकायां नगर्यां भारद्वाज-नामकस्य ब्राह्मणस्य स्वरूपेण अवतीर्णवान् । भारद्वाजेन अपि परिव्राजकदीक्षा अङ्गीकृता आसीत् । तस्य सम्पूर्णम् आयुष्यं चतुश्चत्वारिंशल्लक्षपूर्ववर्षाणाम् आसीत् । मृत्योः अनन्तरं त्रयोदशे भवे माहेन्द्र-नामके चतुर्थे देवलोके देवः अभवत् । तदनन्तरम् अपि तस्य जीवनस्य बहूषु लघुभवेषु जन्म अभवत् ।

चतुर्दशः, पञ्चदशः च भवःसम्पाद्यताम्

पुनः भगवतः महावीरस्य जन्म राजगृहनगरे स्थावर-नामकस्य ब्राह्मणत्वेन अभवत् । सः अपि परिव्राजकपदं प्रापत् । तस्यायुष्यं चतुस्त्रिंशल्लक्षपूर्ववर्षाणाम् आसीत् । अनन्तरं पञ्चदशे भवे सः ब्रह्म-नामके पञ्चमे देवलोके देवः अभूत् ।

षोडशः, सप्तदशः च भवःसम्पाद्यताम्

विश्वनन्दी राजगृह-नगरस्य राजा आसीत् । विश्वनन्दिनः विशाखभूतिः नामकः भ्राता आसीत् । सः राजकुमारः आसीत् । विश्वनन्दिनः पुत्रस्य नाम विशाखनन्दी आसीत् । राजकुमारस्य विशाखभूतेः धारिणी इत्याख्या पत्नी आसीत् । धारिण्याः गर्भे नयसारस्य जीवः समतिष्ठत् । तस्य नाम विश्वभूतिः इति कृतम् ।

यदा विश्वभूतिः यौवनं प्राविशत्, तदा राज्ञा विशाखभूतिना अनेकाभिः राजकन्याभिः सह तस्य विवाहः कारितः । एकदा विश्वभूतिः स्वराजकन्याभिः सह जलक्रीडां कर्तुं गतवान् आसीत् । किञ्चित्क्षणानन्तरं विशाकनन्दी अपि स्वराजकन्याभिः सह अटितुम् उद्यानं प्राप्तवान् । “विश्वभूतिः तत्र जलक्रीडां कुर्वन् अस्ति” इति ज्ञात्वा विशाखनन्दी निराशः अभवत् । विशाकनन्दिनः माता प्रियङ्गुः आसीत् । इमां घटनां श्रुत्वा प्रियङ्गुः क्रुद्धा जाता । अनन्तरं सा कोपभवनं गतवती । राजा अपि चिन्ताग्रस्तः अभवत् ।

राज्ञा विश्वनन्दिना विश्वभूतिं दूरं प्रेषितुम् एका युक्तिः विचारिता । समीपस्थेन राज्येन सह युद्धस्य घोषणा कृता । तस्य राज्यस्य राजा पुरुषसिंहः आसीत् । विश्वनन्दिना उक्तं यत् – “पुरुषसिंहः अस्माकं विद्रोही अभवत् । अतः तेन सह युद्धं कर्तुम् अहं गच्छन् अस्मि” । अयं समाचारः विश्वभूतिना अपि श्रुतः । सः त्वरितमेव राजाप्रासादं प्राप्तवान् । विश्वभूतिना विश्वनन्दिने निवेदनं कृतं यत् – “अहं पुरुषसिंहेन सह युद्धं कर्तुं गमिष्यामि । अतः मह्यम् आज्ञां यच्छतु” इति । ततः परं विश्वभूतिः सेनया सह प्रस्थितवान् ।

विश्वभूतेः गमनानन्तरं विशाखनन्दी जलक्रीडायै गतवान् । विश्वभूतिः यदा पुरुषसिंहस्य राज्यं प्राप्तवान्, तदा पुरुषसिंहेन विश्वभूतेः स्वागतं कृतम् । तत्र गत्वा विश्वभूतिना सत्यं ज्ञातम् । सः प्रत्यागच्छन् आसीत् । प्रत्यागमने उद्यानरक्षकेण सः समाचारं प्राप्तवान् यत् – “विशाकनन्दी उद्याने जलक्रीडां कुर्वन् अस्ति” ।

विश्वभूतिः सर्वं सत्यं ज्ञातवान् यत् – “राज्ञा विश्वनन्दिना एव स्वस्य पुत्रस्य सुखाय एव पुरुषसिंहस्य विद्रोहस्य षड्यन्त्रं रचितम् आसीत् । सर्वं ज्ञात्वा विश्वभूतिः क्रुद्धः जातः । किन्तु क्रोधे शान्ते सति विश्वभूतेः मनसि संवेगस्य भावः उद्भूतः । अतः सः दीक्षाम् अङ्गीकर्तुं विचारितवान् । अतः ततः एव सः आर्यसंभूत-नामकस्य मुनेः समीपं गत्वा चारित्रम् अङ्गीकृतवान् ।

विश्वभूतिः मुनिः अभवत् इति सन्देशं प्राप्य राजा विश्वनन्दी परिवारेण सह अपराधस्य क्षमां याचितुं तत्र गतवान् । “मुनिधर्मं त्यक्त्वा राजशासनं चालयतु” इति राज्ञा निवेदनं कृतम् । किन्तु विश्वभूतिना तस्य निवेदनम् अस्वीकृतम् । स्वस्य गुरोः सेवायाम् एव सः तपः कुर्वन् आसीत् । गुर्वाज्ञया सः एकाकी विहारमपि कुर्वन् आसीत् । तस्मिन् जन्मनि तस्य आयुष्यं कोटिवर्षाणाम् आसीत् ।

सप्तदशे भवे नयसारस्य जीवः महाशुक्रनामके सप्तमे देवलोके देवः अभवत् ।

अष्टादशः, एकोनविंशतितमः च भवःसम्पाद्यताम्

महाशुक्रदेवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः पोतनपुर-नगरे त्रिपृष्ठनामकस्य राजकुमारस्य स्वरूपेण अवतीर्णः ।

पोतनपुर-नगरस्य राजा प्रजापतिः आसीत् । तस्याः द्वे पत्न्यौ आस्ताम् । भद्रा, मृगावती च । भद्रा अचल-नामकं राजकुमारम् अजीजनत् । त्रिपृष्ठस्य जन्म मृगवत्याः कुक्ष्याः अभवत् । द्वौ भ्रातरौ सर्वविद्यानां ज्ञातारौ आस्ताम् । तस्याम् अवसर्पिण्यां तौ प्रथमः बलदेवः, वासुदेवश्च अभवताम् ।

तस्मिन् काले अश्वग्रीवः इत्याख्यः प्रतिवासुदेवः आसीत् । सः त्रिखण्डानां श्रेष्ठः, प्रभावशाली, प्रतापी च अधिपतिः आसीत् । रत्नपुर-नगरी तस्य राजधानी आसीत् । एकदा सः विचारितवान् यत् – “त्रिषु खण्डेषु मत्सदृशः न कोऽपि बलवान् । यदि कोऽपि स्यात् तर्हि मया तस्य परिचयः ज्ञातव्यः” इति ।

अश्वग्रीवेण अस्मिन् विषये एकः ज्योतिषाचार्यः पृष्टः । तदा ज्योतिषाचार्यः उक्तः यत् – “यः राजकुमारः भवतः राजदूतं चण्डवेगम् अपमानितं पराजितं वा करिष्यति, शालिक्षेत्रे सिंहात् रक्षणाय प्रेषितेषु राजकुमारेषु यः सिंहस्य वधं करिष्यति, सः राजकुमारः एव भवतः हत्यां करिष्यति ।

ज्योतिषाचार्यस्य भविष्यवाणीं श्रुत्वा अश्वग्रीवः भयभीतः जातः । तस्य राजदूतः चण्डवेगः सर्वासु राजधानीसु प्रतिवासुदेवस्य कार्यं कुर्वन् पोतनपुर-नगरं प्राप्तवान् । सः पोतनपुर-नगरस्य राज्यसभां गतवान् । राज्यसभायां सङ्गीतकार्यक्रमः प्रचलन् आसीत् । राज्यसभायां राजा प्रजापतिः, राजकुमारः अचलः, त्रिपृष्ठः च आसीत् । राजदूतस्य सहसा आगमनेन राजा चकितः जातः । राज्ञा राजदूताय योग्यासनम् अदीयत । किन्तु त्रिपृष्ठः खिन्नः जातः । यतः कार्यक्रमे राजदूतेन आनन्दभङ्गः कृतः आसीत् । राज्ञा प्रजापतिना राजदूतस्य सत्कारः कृतः । किन्तु यदा राजदूतः गच्छन् आसीत्, तदा खिन्नेन त्रिपृष्ठेन मार्गे राजदूतस्य अपमानः कृतः । राजदूतस्य अपमानस्य समाचारं प्राप्य अश्वग्रीवः चिन्ताग्रस्तः जातः । यतः एकं कार्यं तु ज्योतिषाचार्यस्य कथनानुसारम् एव अभवत् ।

तदा तस्मिन् समये अश्वग्रीवस्य राज्ये कश्चन सिंहः आतङ्कं कुर्वन् आसीत् । तेन जनाः भयभीताः आसन् । सिंहः जनान् भक्षयति स्म । अश्वग्रीवेण सिंहं हन्तुं बहवः प्रयासाः कृताः । किन्तु सर्वे प्रयासाः व्यर्थाः अभवन् । अतः क्षेत्राणां सुरक्षायै अश्वग्रीवेण प्रतिक्षेत्रे एकस्य राज्ञः नियुक्तिः कृता । तेषु राजसु प्रजापतिः राजा अपि अन्यतमः आसीत् । प्रजापतिः शालिक्षेत्रं गन्तुं सज्जः अभवत् । किन्तु त्रिपृष्ठेन आग्रहपूर्वकं प्रजापतिः अवरुद्धः ।

त्रिपृष्ठः अचलेन सह शालिक्षेत्रं प्रापत् । त्रिपृष्ठः विचारितवान् यत् – “यदा सिंहस्य वधं करिष्यामि, तदैव जनाः सुखिनः भविष्यन्ति । अतः सिंहस्य नाशः आवश्यकः वर्तते । जनेभ्यः सिंहविषयिकीं समस्यां ज्ञात्वा द्वौ भ्रातरौ सिंहं हन्तुं सिंहस्य गुहां प्रति प्रस्थितवन्तौ । तत्र गत्वा ताभ्याम् उग्रस्वरेण सिंहः आहूतः । उग्रस्वरं श्रुत्वा सिंहः क्रुद्धः जातः । सिंहः गुहायाः बहिरागतः । सिंहं दृष्ट्वा त्रिपृष्ठेन विचारितं यत् - “सिंहः शस्त्रहीनः, रथहीनः च अस्ति । मया अपि शस्त्रस्य रथस्य च उपयोगः न करणीयः” इति । अतः सः शस्त्रहीनः, रथहीनः च युद्धं कर्तुं सज्जः अभवत् । सिंहेन त्रिपृष्ठस्योपरि आक्रमणं कृतम् । त्रिपृष्ठेन अपि विद्युद्वेगेन सिंहस्योपरि आक्रमणं कृतम् आसीत् । त्रिपृष्ठेन हस्ताभ्यां सिंहः हतः ।

सिंहस्य हत्यायाः सन्देशं प्राप्य अश्वग्रीवः भीतः जातः । “त्रिपृष्ठः एव मे मृत्योः कारणं भविष्यति” इति अश्वग्रीवेण विचारितम् । अतः तेन प्रजापतये सन्देशः प्रेषितः यत् – “भवतः राजकुमारौ वीरौ स्तः । अतः कृतस्य पराक्रमस्य निमित्तं ताभ्यां राजकुमाराभ्यां पुरस्कारं दातुम् इच्छामि । तेन कारणेन तौ अत्र प्रेषयतु” ।

त्रिपृष्ठेन प्रत्युत्तरं प्रदत्तं यत् – “यः सिंहम् अपि हन्तुम् असमर्थः अस्ति, तस्य कमपि पुरस्कारम् आवां न स्वीकरिष्यावः । अनेन प्रत्युत्तरेण प्रतिवासुदेवः अश्वग्रीवः क्रुद्धः अभवत् । सः युद्धं कर्तुं निर्गतः । त्रिपृष्ठाश्वग्रीवयोः भयङ्करं युद्धम् अभवत् । युद्धे त्रिपृष्ठेन सुदर्शनचक्रेण अश्वग्रीवः हतः । तदैव त्रिपृष्ठः प्रथमः वासुदेवः, अचलः प्रथमः बलदेवः अभवत् ।

समयान्तरे द्वौ भ्रातरौ भगवद्भक्तौ अभवताम् । वासुदेवः क्रूरः शासकः आसीत् । सः क्रूरतया शासनं करोति स्म । शासनविरुद्धं कार्यं तस्मै न रोचते स्म । तेन तस्मिन् जन्मनि बहूनि हिंसकानि कार्याणि कृतानि आसन् । अतः सः सप्तमं नरकं गतवान् ।

त्रिपृष्ठस्य सम्पूर्णम् आयुष्यं चतुरशीतिलक्षवर्षाणाम् आसीत् । तेषु वर्षेषु तेन पञ्चविंशतिसहस्रं वर्षाणि बाल्यावस्थायां, पञ्चविंशतिसहस्रं वर्षाणि माण्डलिकराजास्वरूपेण, एकसहस्रं वर्षाणि दिग्विजयाय च भुक्तानि आसन् । अवशिष्टानि एकोनपञ्चाशदधिकत्र्याशीतिलक्षं वर्षाणि वासुदेवस्वरूपेण व्यतीतानि आसन् । वासुदेवत्रिपृष्ठस्य मृत्योः अनन्तरं बलदेवेन अचलेन भगवतः दीक्षा स्वीकृता । अन्ते सः सिद्धत्वं प्राप्तवान् ।

एकोनविंशतितमे भवे नयसारस्य जीवः सप्तमे नरके अप्रतिष्ठाननरकावासे अवतीर्णः । तस्मिन् जन्मनि सः त्रयस्त्रिंशत् सागरमात्रात्मकम् आयुष्यं प्रापत् ।

विंशतितमः, एकविंशतितमः च भवःसम्पाद्यताम्

विंशतितमे भवे नयसारस्य जीवः सिंहयोनौ अवतीर्णः । अनन्तरम् एकविंशतितमे भवे चतुर्थे नरके नैरयिकः अभवत् । नरकस्य आयुष्यं समाप्य तस्य जीवेन बहुषु क्षुद्रभवेषु परिभ्रमणं कृतम् आसीत् । ते भवाः सप्तविंशतिभवेषु न गण्यन्ते ।

द्वाविंशतितमः भवःसम्पाद्यताम्

रथनपुरनगरे प्रियमित्रः नामकः राजा आसीत् । तस्य विमला-नामिका राज्ञी आसीत् । विमलायाः गर्भं नयसारस्य जीवः प्राविशत् । नवमासानन्तरं तस्य जन्म अभवत् । तस्य राजकुमारस्य नाम विमलः इति कृतम् । यदा विमलः यौवनावस्थां प्राविशत्, तदा श्रेष्ठकन्यया सह तस्य विवाहं कारितवान् । प्रियमित्रराज्ञा विमलस्य राज्याभिषेकं कृत्वा, विमलाय राज्यस्य दायित्वं प्रदत्तम् आसीत् ।

राजा विमलः नीतिज्ञः आसीत् । एकदा सः अटितुं वनं गतवान् आसीत् । वने सः दृष्टवान् यत् – “केनचित् व्याधेन बहवः मृगाः बद्धाः” । अतः विमलेन व्याधः अवबोधितः । व्याधः सर्वेभ्यः मृगेभ्यः मुक्तिम् अददात् । अनेन प्रसङ्गेन विमलः चारित्रग्रहणं कृतवान् । राज्ञः विमलस्य कार्यैः त्रयोविंशतितमे भवे अपि मनुष्यजन्म अभवत् ।

त्रयोविंशतितमः, चतुर्विंशतितमः च भवःसम्पाद्यताम्

पश्चिममहाविदेहक्षेत्रे मूका-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनञ्जयः आसीत् । धारिणीदेवी-नामिकायाः तस्य पत्नी आसीत् । एकदा धारिणीदेव्या रात्रौ चतुर्दशस्वप्नाः दृष्टाः । तस्यां रात्रौ धारिणीदेव्याः गर्भे नयसारस्य जीवः स्थितः । तस्य नाम प्रियमित्रः आसीत् । यदा प्रियमित्रः यौवनं प्रापत्, तदा धनञ्जयेन प्रियमित्रस्य राज्याभिषेकः कृतः । अनन्तरं तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् ।

एकदा राज्यस्य आयुधशालायाम् एकं चक्ररत्नं समुद्भूतम् । तेन चक्ररत्नेन प्रियमित्रेण षट्खण्डाः जिताः । तेन सः चक्रवर्ती राजा अभवत् । दीर्घकालानन्तरं प्रियमित्रः पोट्टिलाचार्यात् दीक्षाम् अङ्गीकृतवान् । प्रियमित्रस्य सम्पूर्णम् आयुष्यं चतुरशीतिलक्षपूर्ववर्षाणाम् आसीत् । मृत्योः अनन्तरं तस्य जीवः महाशुक्र-नामके सप्तमे देवलोके सर्वार्थनामके विमाने महर्द्धिकदेवः अभवत् । तस्य आयुष्यं सप्ततिसागरमात्रात्मकम् आसीत् ।

पञ्चविंशतितमः, षड्विंशतितमः च भवःसम्पाद्यताम्

सप्तमदेवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः जम्बूद्वीपस्य भरतक्षेत्रस्य छत्रा-नामिकायां नगर्याम् अवतीर्णः । तस्याः नगर्याः राजा जितशत्रुः आसीत् । भद्रा-नामिका जितशत्रोः पत्नी आसीत् । भद्रा नन्दन-नामकम् एकं पुत्रम् अजीजनत् । यदा नन्दनः यौवनावस्थां सम्प्रापत्, तदा जितशत्रुणा राज्यस्य दायित्वं नन्दनाय प्रदत्तम् आसीत् । अनन्तरं जितशत्रुः दीक्षाम् अङ्गीकृतवान् ।

पञ्चविंशतिलक्षवर्षाणां नन्दनस्य आयुष्यम् आसीत् । तेषु चतुर्विंशतिलक्षवर्षाणि गृहस्थावस्थायां व्यतीतानि । ततः परं नन्दनः पोट्टिलाचार्यात् दीक्षां प्रापत् । दीक्षानन्तरं नन्दनः एकलक्षं वर्षाणाम् आयुष्यं भुक्तवान् । नन्दनः एकादशाङ्गानाम् अध्ययनं कृत्वा कठोरतपस्वी अभवत् । अन्ते नन्दनेन एकमासस्य अनशनं कृत्वा समाधिः कृतः ।

षड्विंशतितमे भवे नयसारस्य जीवः प्राणत-नामके दशमे देवलोकस्य पुष्पोत्तरविमाने देवः अभवत् । तत्र सः विंशतिसागरमात्रात्मकम् आयुष्यं भुक्तवान् ।

अनेन प्रकारेण भगवान् सप्तविंशतिभवानां यात्रां चकार । अन्तिमे सप्तविंशतितमे भवे नयसारस्य जीवः महावीरस्य स्वरूपेण अवतीर्णवान् ।

नामकरणम्सम्पाद्यताम्

बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः महावीरस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव ।

राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकः नामकरणस्य चर्चा जाता । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । किन्तु देवैः गर्भकाले घटितानां घटनानाम् उल्लेखं कर्तुं राजा उक्तः । अतः राज्ञा गर्भकालस्य घटना श्राविता यत् – “यावत् अयं बालकः गर्भे आगतवान् आसीत्, तावत् अस्माकं राज्ये धनधान्यवृद्धिः अभवत्” । अतः अस्य बालकस्य नाम वर्धमानः इति करणीयम्” [६]। सर्वे जनाः समर्थनं प्रदत्तवन्तः ।

अनन्तरम् अन्यानि अपि नामानि अभवन् यथा – महावीरः, श्रमनः, ज्ञातपुत्रः इत्यादयः । तेषु महावीरः इति अत्यधिकं प्रचलितं नाम अस्ति ।

विद्यालयप्रसङ्गःसम्पाद्यताम्

यदा वर्धमानः अष्टवर्षीयः अभवत्, तदा सिद्धार्थः तं पाठयितुम् अनयत् । शकेन्द्रः सर्वं दृष्ट्वा चकितः अभवत् । “वर्धमानः त्रिकालज्ञः अस्ति तथापि सिद्धार्थः वर्धमानं पाठयितुं नीतवान् । कलाचार्यः वर्धमानं किं पाठयिष्यति ?” इति शकेन्द्रेण विचारितम् ।

“वर्धमानः त्रिकालज्ञः अस्ति” इति जनाः न जानन्ति स्म । अतः शक्रः स्वयमेव आगतवान् । यदा उपाध्यायः अध्ययनारम्भं कुर्वन् अस्ति, तदैव शकेन्द्रः वृद्धब्राह्मणस्वरूपेण विद्यालयं प्राप्तवान् । उपाध्यायस्य समीपं गत्वा इन्द्रेण व्याकरणविषयकाः प्रश्नाः पृष्टाः । उपाध्यायः प्रश्नानाम् उत्तराणि दातुम् असमर्थः अभवत् । ते एव प्रश्नाः शक्रेण वर्धमानं प्रति पृष्टाः । तदा वर्धमानः सर्वेषां प्रश्नानाम् उत्तराणि प्रदत्तवान् । उपाध्यायः स्तब्धः जातः । उपाध्यायः विचारितवान् यत् – “इमं बालकम् अहं किं पाठयिष्यामि ? अयं तु स्वयं दक्षः ।

अनन्तरम् इन्द्रः वास्तविकं स्वरूपं धृत्वा वर्धमानस्य परिचयं प्रदत्तवान् । सर्वे जनाः प्रफुल्लिताः अभवन् । ततः परम् उपाध्यायेन वर्धमानः राजप्रासादं प्रति आनीतः । तदा वर्धमानस्य (महावीर) मुखात् यानि वचांसि निर्गतानि, तानि एव “ऐन्द्रव्याकरणम्” इति नाम्ना प्रसिद्धाः जाताः इति अनुमानम् [७]

विवाहःसम्पाद्यताम्

समयान्तरे वर्धमानः तारुण्यं प्रापत् । राज्ञा सिद्धार्थेन वर्धमानस्य विवाहस्य विचारः कृतः । सिद्धार्थः वर्धमानस्य मित्रेभ्यः वर्धमानस्य विवाहस्य दायित्वम् अददात् । एकदा वर्धमानः मित्रैः सह वार्तालापं कुर्वन् आसीत् । तस्मिन् दिवसे चर्चायाः विषयः आसीत् – “विवाहः” । विवाहस्य विरोधस्य चर्चा अभवत् । तत्क्षणम् एव माता त्रिशला उक्तवती यत् – “यदि भवतः विवाहस्य इच्छा नास्ति, तथापि मे इच्छा अस्ति इति विचार्य त्वया विवाहः अवश्यं करणीयः भविष्यति” ।

वर्धमानः किमपि वक्तुम् असमर्थः आसीत् । अतः सः मौनम् अभजत् । “वर्धमानस्य विवाहः भविष्यति” इति त्रिशलया सम्पूर्णे राज्ये घोषणा कारिता । बसन्तपुर-नगरस्य राजा समरवीरः आसीत् । तस्य पत्नी पद्मावती आसीत् । यशोदा-नामिका राज्ञः पुत्री आसीत् । तया सह वर्धमानस्य विवाहः अभवत् । विवाहानन्तरं तौ अनासक्तत्वेन जीवनं यापयतः स्म ।

समयान्तरे यशोदा एकां पुत्रीम् अजीजनत् । “प्रियदर्शना” इति तस्याः नामकरणं कृतम् । तस्याः जमालि-नामकेन राजकुमारेण सह तस्याः विवाहः अभवत् । दिगम्बरसम्प्रदाये वर्धमानस्य विवाहस्य वर्णनम् एव न लभ्यते । दिगम्बरसम्प्रदाये वर्धमानः बालब्रह्मचारी मन्यते [८]

दीक्षासम्पाद्यताम्

महावीरस्य (वर्धमान) पिता, माता च भगवतः पार्श्वनाथस्य परम्परायाः श्रमणोपासकः आसीत् । महावीरः आरम्भादेव विरक्तः आसीत् । किन्तु मातृपित्रोः स्नेहवशात् सः दीक्षाविषयिकीं चर्चां न करोति स्म । तेन गर्भे एव प्रतिज्ञा कृता आसीत् यत् – “यावत् पर्यन्तं मे पितरौ जीविष्यतः, तावत्पर्यन्तम् अहं दीक्षां न स्वीकरिष्ये” ।

यदा महावीरः अष्टाविंशतिवर्षीयः आसीत्, तदा तस्य पितृभ्यां (सिद्धार्थः, त्रिशला च) दीक्षा स्वीकृता । अनन्तरं ताभ्याम् अनशनं कृतम् । समाध्यन्ते तौ अच्युतनामके द्वादशे देवलोके महर्द्धिकदेवौ अभवताम् । पित्रोः मृत्योः अनन्तरं महावीरेण नन्दीवर्धनः इत्याख्यः ज्येष्ठभ्राता पृष्टः यत् – “मह्यं दीक्षायै आज्ञां ददातु” इति । किन्तु नन्दीवर्धनेन उक्तं यत् – “इदानीं पित्रोः दुःखं वर्तते, तथापि भवान् दीक्षायाः चर्चां कुर्वन् अस्ति । यावत् मे मनः स्वस्थं मा भवेत्, तावत् दीक्षायाः चर्चां मा करोतु” इति । अतः नन्दीवर्धनेन महावीराय वर्षद्वयस्यावधिः प्रदत्तः ।

यदा वर्षद्वयं व्यतीतं जातं, तदा लोकान्तिकदेवाः, इन्द्राः च महावीरं दीक्षायै अवबोधयितुम् आगताः । महावीरः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता महावीरेण वार्षिकीदानम् आरब्धम् । सः प्रतिदिनम् एकप्रहरपर्यन्तम् अष्टलक्षाधिकैककोटिसुवर्णमुद्रिकाणां दानं करोति स्म । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । एकवर्षे सः अशीतिलक्षोत्तराष्टाशीतिकोट्युत्तरत्र्यर्बुदं सुवर्णमुद्रिकाणां जनेभ्यः दानम् अददात् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा कार्त्तिक-मासस्य कृष्णपक्षस्य दशम्यां तिथौ उत्तराषाढा-नक्षत्रे भगवान् महावीरः सहस्रजनैः सह क्षत्रियकुण्ड-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता महावीरेण दीक्षा स्वीकृता [९]। भगवान् महावीरः विचरन् कुमरि-ग्रामं प्रापत् । तत्र भगवान् ध्यानावस्थितः अभूत् । दीक्षानन्तरं महावीरस्य जीवने बहवः उपसर्गाः आगताः ।

साधनायाम् उपसर्गाःसम्पाद्यताम्

भगवता महावीरेण दीक्षानन्तरं साधनायां स्वस्य जीवनं यापितम् आसीत् । प्रथमतः त्रयोविंशतीर्थङ्करं यावत् सर्वैः तीर्थङ्करैः साधना कृता । किन्तु महावीरेण सर्वेभ्यः तीर्थङ्करेभ्यः सर्वाधिकसाधना कृता आसीत् । महावीरस्य कर्माणि अपि अत्यधिकानि आसन् । तेन कारणेन जीवने उपसर्गाः अपि अत्यधिकाः अभवन् [१०]

उपसर्गाःसम्पाद्यताम्

भगवान् महावीरः विचरन् कुमरि-नामकं ग्रामं प्रापत् । तत्र सः ध्यानावस्थायाम् आसीत् । तदा केचन गोपालकाः तत्र समागतवन्तः । गोपालकाः तेषां वृषभान् तत्र एव त्यक्त्वा ग्रामं गतवन्तः । यदा गोपालकाः पुनः आगतवन्तः, तदा गोपालकैः वृषभाः न दृष्टाः । अतः गोपालकाः क्रुद्धाः अभवन् । गोपाकलैः महावीरः पृष्टः यत् – “अस्माकं वृषभाः कुत्र सन्ति” । किन्तु महावीरेण किमपि न उक्तम्, सः मौनम् अभजत् च । गोपालकाः वृषभान् अन्वेष्टुं प्रस्थितवन्तः । किन्तु कुत्रापि वृषभाः न प्राप्ताः । वृषभाः चरन्तः पुनः महावीरस्य समीपम् आगतवन्तः आसीत् । यदा गोपालकाः सर्वत्र वृषभान् अन्विष्य स्वगृहं गच्छन्तः स्म, तदा ते महावीरस्य समीपे वृषभान् दृष्टवन्तः । गोपालकाः क्रुद्धाः आसन् । अतः ते महावीरस्य तिरस्कारं कृत्वा महावीरं ताडितवन्तः ।

इन्द्रः अवधिज्ञानेन अयं प्रसङ्गः दृष्टवान् । सः त्वरितमेव तत्स्थलं प्राप्तवान् । तेन गोपालकाः अवबोधिताः । अनन्तरं गोपालकाः ततः निर्गताः । इन्द्रेण भगवान् महावीरः उक्तः यत् – “ प्रभो ! भवतः नैकानि कर्माणि सन्ति । अतः उपसर्गाः अपि बहवः भविष्यन्ति । यदि भवान् आज्ञापयेत्, चेत् अहं भवतः सेवां करिष्यामि” । तदा भगवान् उक्तवान् यत् – “इन्द्र ! तीर्थङ्कराः आश्रिताः न भवन्ति । ते स्वसामर्थ्येण एव साधनां कुर्वन्ति । अतः मह्यं कस्यापि जनस्य साहाय्यस्यावश्यकता नास्ति ।

आगामिदिने भगवान् तस्मात् स्थानात् कोल्लागसन्निवेशं प्राप्तवान् । तत्र सः कस्यचित् ब्राह्मणस्य गृहे क्षीरान्नं भुक्तवान् ।

भगवतः महावीरस्य रहस्यकाले बहवः उपसर्गाः उद्भूताः । भगवतः रहस्यकालः कष्टमयः आसीत् । आचाराङ्गसूत्रे, कल्पसूत्रे च भगवतः महावीरस्य उत्तमसाधनायाः वर्णनं लभ्यते । दीक्षानन्तरम् इन्द्रेण भगवते एकं वस्त्रं प्रदत्तम् आसीत् । तद्वस्त्रं त्रयोदशमासान् यावत् भगवतः स्कन्धे स्थितम् आसीत् । अनन्तरं तद्वस्त्रं कुत्रचिद् निपतितम् । तावदेव भगवान् महावीरः निर्वस्त्रम् एव भ्रमणं करोति स्म ।

दीक्षासमये भगवतः शरीरे देवैः सुगन्धितद्रव्यैः लेपनं कृतम् आसीत् । तेन भगवतः शरीरं सुगन्धमयं जातम् । यत्र यत्र भगवान् साधनायै गच्छति स्म, तत्र तत्र वने ये भ्रमराः आसन्, ते सुगन्धेन आकृष्टाः भ्रमराः, कीटकाः, युवकाः, युवत्यः च भगवतः समीपम् आगच्छन्ति स्म । तेषु कीटकाः, भ्रमराः च भगवतः रक्तं पिबन्ति स्म, मांसं खादन्ति स्म च । तथापि महावीरः मेरुपर्वतः इव तिष्ठति स्म । युवकाः सुगन्धितद्रव्यं प्राप्तुम् उत्सुकाः आसन् । अतः ते भगवन्तं प्रार्थितवन्तः यत् – “अस्मभ्यम् अपि एतत् सुगन्धितद्रव्यं ददातु” इति । किन्तु मौनकारणात् भगवान् महावीरः किमपि न वदति स्म । तेन खिन्नाः युवकाः महावीराय कष्टं ददति स्म । इतः परं वनस्थाः युवत्यः अपि महावीरस्य सौन्दर्येण, बलवच्छरीरेण च आकृष्टाः भवन्ति स्म । किन्तु भगवतः काऽपि प्रतिक्रिया नासीत् । अतः ताः अपि महावीराय कष्टं ददति स्म । तथापि महावीरस्य साधनायाः भङ्गः न भवति स्म ।

साधनायाः प्रथमवर्षम्सम्पाद्यताम्

समयान्तरे भगवान् कोल्लाग-सन्निवेशतः मोराक-सन्निवेशम् आगतवान् । तत्र एकः आश्रमः आसीत् । तस्य कुलपतिः राज्ञः सिद्धार्थस्य मित्रम् आसीत् । महावीरं दृष्ट्वा आश्रमस्य कुलपतिः स्वागतं चकार । कुलपतिना चातुर्मास्यपर्यन्तम् आश्रमे एव निवसितुं महावीरः प्रार्थितः । महावीरः कुलपतेः प्रार्थनां स्वीकृतवान् । आश्रमे बहवः तपस्विनः आसन् । वर्षाकाले वृष्टेः अभावात् सर्वे जनाः, प्राणिनः च क्षुधाग्रस्ताः आसन् । अतः प्राणिनः पर्णकुटीराणां पर्णानि खादन्ति स्म । भगवान् महावीरः ध्यानस्थः आसीत् । अतः सः पर्णकुटीरस्य रक्षणं न करोति स्म । तेन अन्ये तपस्विनः महावीरात् खिन्नाः भवन्ति स्म । तपस्विनां दुर्व्यवहारं दृष्ट्वा महावीरः आश्रमं त्यक्तवान् ।

यक्षोपद्रवःसम्पाद्यताम्

भगवान् मोराक-सन्निवेशतः अस्थिग्रामं प्राप्तवान् । तस्मिन् ग्रामे शूलपाणियक्षस्य एकं मन्दिरम् आसीत् । तस्मिन् मन्दिरे भगवान् निवासं कर्तुम् इच्छति स्म । यक्षस्य स्वभावः क्रूरः आसीत् । सः रात्रौ उत्पातं करोति स्म । तस्यां रात्रौ भगवान् ध्यानस्थः आसीत् । तदा यक्षः आगत्य महावीराय विविधप्रकारकाणि कष्टानि अददात् । तथापि महावीरः विचलितः न अभवत् । महावीरस्य प्रभावात् यक्षः भयभीतः जातः । अन्ते भगवन्तं नमस्कृत्य यक्षः ततः निर्गतवान् । ततः परं सम्पूर्णा रात्रिः उपसर्गरहीता व्यतीता ।

साधनायाः द्वितीयवर्षम्सम्पाद्यताम्

अस्थिग्रामतः भगवान् वाचाला-क्षेत्रं प्राप्तवान् । वाचालाक्षेत्रस्य सन्निवेशद्वयम् आसीत् । उत्तरवाचाला, दक्षिणवाचाला च । द्वयोः सन्निवेशयोः मध्ये द्वे नद्यौ वहतः स्म । इन्द्रेण महावीराय प्रदत्तं वस्त्रं तस्मिन् मार्गे एव निपतितम् आसीत् ।

भगवान् उत्तरवाचाला-सन्निवेशं प्रति गच्छन् आसीत् । मार्गे बहवः अवरोधाः आगताः । मार्गे चण्डकौशिक-नामकः एकः सर्पः निवसन् आसीत् । सः सर्पः भयानकः आसीत् । स्वस्य दृष्टिपातेन एव जनं भस्मीकरोति स्म । अतः जनाः तस्मिन् मार्गे न गच्छन्ति स्म । किन्तु महावीरः तस्मिन् मार्गे एव गच्छन् आसीत् । मार्गे चण्डकौशिकसर्पस्य निवासक्षेत्रे भगवान् ध्यानारूढः अभवत् । सांयकाले यदा चण्डकौशिकः सर्पः भ्रमणं कृत्वा पुनः स्वस्थानं प्रापत्, तदा तेन एकः ऋषिः दृष्टः । ऋषिं दृष्ट्वा चण्डकौशिकः क्रुद्धः जातः । सर्पेण महावीराय विषदृष्ट्या कष्टम् अदीयत । किन्तु भगवति सर्पस्य विषदृष्ट्याः प्रभावः एव न अभवत् । अनन्तरं तेन भगवान् दंशितः । तथापि भगवतः ध्यानावस्थायाम् एव आसीत् । यदा सर्पः पादे दंशितवान्, तदा पादात् श्वेतरक्तधारा प्रस्फुटिता । रक्ते दुग्धस्य आस्वादनेन चण्डकौशिकसर्पः आश्चर्यचकितः जातः । महावीरेण प्रभावितः चण्डकौशिकः सर्पः महावीरस्य पूजां कृतवान् । चण्डकौशिकः ततः निर्गतवान् । स्वस्य अपराधान् स्मृत्वा चण्डकौशिकः पाश्चात्तापं कृतवान् ।

साधनायाः तृतीयचतुर्थवर्षेसम्पाद्यताम्

चातुर्मास्यस्य समाप्त्यनन्तरं भगवान् महावीरः कोल्लाग-सन्निवेशं प्राप्तवान् । किञ्चित्समयं यावत् सः तत्र तपस्यां चकार । अनन्तरं ततः चम्पानगरं गतवान् । तत्र तृतीयः चतुर्थश्च चातुर्मास्यस्य व्यतीतः जातः ।

साधनायाः पञ्चमवर्षम्सम्पाद्यताम्

भगवान् चम्पा-नगरतः क्यङ्गलानगरीं, श्रावस्तीनगरीं च प्राप्तवान् । श्रावस्ती-नगर्याः वने कस्यचिद् हलिदुग-नामकस्य वृक्षस्याधः भगवान् ध्यानावस्थः अभवत् । वने अग्निः दह्यमाना आसीत् । तेन अग्निना हलिदुगवृक्षः अपि दह्यमानः आसीत् । अग्निना भगवतः पादौ अपि दग्धौ जातौ । अतः भगवान् तत्स्थानं त्यक्तवान् । अनन्तरं भगवान् कलम्बुआ-सन्निवेशं प्राप्तवान् । तत्र मेघः, कालहस्ती च नामकौ अधिकारिणौ आस्ताम् । तौ भूमिपती आस्ताम्, तथापि जनान् लुण्ठयतः स्म । यदा भगवान् महावीरः कलम्बुआ प्राप्तवान् आसीत्, तदा तौ अधिकारिणौ जनान् लुण्ठयन्तौ आस्ताम् । कालहस्ती महावीरं दृष्ट्वा तस्मै प्रश्नाः पृष्टवान् । महावीरेण किमपि उत्तरं न प्रदत्तम् । तेन क्रुद्धः कालहस्ती महावीरं ताडितवान् । तथापि महावीरः किमपि न उक्तवान् । यदा महावीरस्य मेलनं मेघेन सह अभवत्, तदा मेघः स्मृतवान् यत् – ’अयं तपस्वी अस्ति” इति । मेघः महावीरस्य सत्कारं चकार, क्षमां ययाच च ।

भगवान् महावीरः विचारितवान् यत् – “मया बहूनां कर्मणां नाशः कर्त्तव्यः अस्ति” अत्र परिचिताः जनाः मिलन्ति । अतः मया अज्ञातप्रदेशः गन्तव्यः । तदा सः लाढ-देशं प्रति प्रस्थितवान् । लाढ-देशस्य भागद्वयम् आसीत् । व्रजभूमिः, शुभभूमिः च । लाढ-देशे भगवतः साधनायां बहवः उपसर्गाः समुद्भूताः । यथा –

  • भगवते निवासार्थं सानुकूलः आवासः न प्राप्तः । अतः भगवता वने एव निवासः कृतः । तेन तत्रैव साधना कृता आसीत् ।
  • आहारार्थम् अपि भगवते भोजनं न लभ्यते स्म । शुष्कान्नमपि न प्राप्यते स्म ।
  • यदा कदापि सः ग्रामं गच्छति स्म, तदा जनाः तं ताडयन्ति स्म, मार्गम् अवरोधयन्ति स्म च ।

एतादृशाः उपसर्गाः तस्मिन् देशे समुद्भूताः आसन् । तेन भगवता महती कर्मनिर्जरा कृता । यदा महावीरः आर्यप्रदेशं प्रति गच्छन् आसीत्, तदा सः पूर्णकलश-नामिकाम् आर्यरहितां नगरीं प्राप्तवान् । मार्गे गमने सति चौराः मिलितवन्तः । यदा महावीरं दृष्ट्वा चौराः शस्त्रैः ताडयितुं प्रयासं कृतवन्तः, तदा इन्द्रेण आगत्य चौराः अवरोधिताः । अनन्तरं भगवान् महावीरः आर्यदेशस्य मलय-क्षेत्रस्य भद्दिला-नामिकां नगरीं प्रापत् । तत्र महावीरेण चातुर्मास्यम् अनुष्ठितम् ।

साधनायाः षष्ठवर्षम्सम्पाद्यताम्

भद्दिला-नगरीतः भगवान् महावीरः तम्बाय-सन्निवेशं प्राप्तवान् । अनन्तरं ततः सः कूपिय-सन्निवेशं सम्प्रापत् । महावीरेण सह कश्चन गोशालकः अपि विचरन् आसीत् । यदा तौ कूपिय-सन्निवेशं प्राप्तवन्तौ, तदा सर्वे जनाः तौ गुप्तचरौ ज्ञात्वा ताडितवन्तः । कूपिय-सन्निवेशे पार्श्वनाथस्य परम्परा प्रचलन्ती आसीत् । तस्याः परम्परायाः विजया, प्रगल्भा इति नामिके परिव्राजके आगत्य सर्वान् बोधितवत्यौ । ताभ्यां महावीरस्य परिचयः प्रदत्तः । तदा सर्वे जनाः महावीराय मुक्तिम् अददुः ।

अनन्तरं गोशालकेन महावीरः त्यक्तः । यतो हि महावीरः सर्वदा मौनम् एव भजति स्म । महावीरः मौनवशात् गोशालकस्य रक्षणम् अपि कर्तुं न शक्नोति स्म । अतः गोशालकः महावीरं त्यक्त्वा राजगृह-नगरं प्रति प्रस्थितवान् । भगवान् महावीरः वैशाली-नगरं गतवान् । वैशाली-नगरे कस्यचित् लोहकारस्य कार्यशाला आसीत् । भगवान् महावीरः तस्य लोहकारस्य अनुमतिं प्राप्य कार्यशालां प्राविशत् । कार्यशालायां महावीरः ध्यानावस्थां प्रापत् । तस्याः कार्यशालायाः एकः लोहकारः रुग्णः आसीत् । अतः तस्मिन् स्वस्थे सति यदा कार्यशालां गतवान्, तदा सः महावीरं दृष्ट्वा क्रुद्धः अभवत् । तेन मुद्गरेण महावीरं हन्तुं प्रयासः कृतः । किन्तु सहसा एव तस्य लोहकारस्य हस्तौ स्थिरौ अभवताम् । तेन तस्य प्रहारः निष्फलः जातः । भगवान् महावीरः वैशाली-नगरम् अत्यजत् ।

महावीरः वैशाली-नगरानन्तरं ग्रामक-सन्निवेशं, शालिशीर्ष-ग्रामस्योद्यानं, भद्दिया-नगरीं च गतवान् । भद्दिया-नगर्यां भगवता चातुर्मास्यतपः अनुष्ठितम् । गोशालकः अपि पुनः महावीरेण सह सम्मिलितवान् ।

साधनायाः सप्तमवर्षम्सम्पाद्यताम्

भद्दिया-नगरीतः महावीरः मगध-देशं यावत् विचरितवान् । अनन्तरम् आलम्भिया नगरे तेन चातुर्मास्यतपः कृतम् । साधनायाः सप्तमं वर्षम् उपसर्गरहितम् आसीत् ।

साधनायाः अष्टमवर्षम्सम्पाद्यताम्

अष्टमे वर्षे भगवान् महावीरः लोहार्गल-सन्निवेशं प्राप्तवान् । जितशत्रुः तत्रत्यः राजा आसीत् । “महावीरः शत्रुः अस्ति” इति विचिन्त्य सैनिकैः महावीरः बद्धः । तत्र अस्थिग्रामस्य ज्योतिषाचार्यः अपि आसीत् । तेन आचार्ये महावीरः ज्ञातः । अनन्तरं ज्योतिषाचार्यः महावीरस्य परिचयम् अददात् । ततः भगवान् राजगृह-नगरं गतवान् । राजगृह-नगरे महावीरेण चातुर्मास्यं तपः कृतम् ।

साधनायाः नवमवर्षम्सम्पाद्यताम्

नवमे वर्षे भगवान् पुनः आर्यरहितेषु प्रदेशेषु साधनां कर्तुं प्रस्थितवान् । अनार्यप्रदेशं प्राप्य तत्र तेन साधना आरब्धा । तत्रत्याः जनाः भगवते बहूनि कष्टानि ददति स्म । भगवता विचारितं यत् – “एतत् स्थानं चातुर्मास्यं कर्तुं योग्यं नास्ति” इति । अतः तेन चलन् एव चातुर्मास्यस्य तपः पूर्णं कृतम् ।

साधनायाः दशमवर्षम्सम्पाद्यताम्

दशमे वर्षे भगवान् पुनः आर्यप्रदेशं प्राप्तवान् । गोशालकः अपि महावीरेण सह एव आसीत् । तत्र कूर्म-नामकः ग्रामः आसीत् । तस्मिन् ग्रामे वैशम्पायनः – इत्याख्यः तपस्वी आसीत् । गोशालकं दृष्ट्वा तपस्वी क्रुद्धः अभवत् । वैशम्पायनेन गोशालकं ताडयितुं तेजोलेश्यायाः प्रयोगः कृतः । किन्तु महावीरेण शीतललेश्यया तेजोलेश्या पराजिता । तद्दृष्ट्वा वैशम्पायनः चकितः अभवत् । अन्ते वैशम्पायनः भगवतः शक्तिम् अवगतवान् । वैशम्पायनः भगवते क्षमां ययाच । ततः परं भगवान् श्रावस्ती-नगरीं प्राप्तवन् । तत्र महावीरेण चातुर्मास्यस्य तपः कृतम् ।

साधनायाः एकादशवर्षम्सम्पाद्यताम्

भगवतः एकादशवर्षं सानुलठ्ठीय-सन्निवेशे व्यतीतम् । तत्र भगवता नैकेषु स्वरूपेषु साधना कृता । “आनन्द गाथापति” इत्याख्यस्य सेविका उच्छिष्टम्, अवशिष्टम् च अन्नं क्षिप्तवती । तत्क्षिप्तेन अन्नेन भगवता भोजनं कृतम् ।

एकदा देवलोके इन्द्रः भगवतः महावीरस्य अचलतपस्यायाः प्रशंसां कुर्वन् आसीत् । सर्वे देवाः इन्द्राय समर्थनं प्रदत्तवन्तः । किन्तु संयम-नामकेन देवेन विरोधः कृतः । संयमः महावीरस्य तपस्यां विचालयितुं विचारितवान् । संयमेन साधनां विचालयितुं षण्मासात्मकः समयः याचितः । अनन्तरं सः मृत्युलोकं प्रापत् । षण्मासान् यावत् संयमेन महावीराय बहूनि असहनीयानि कष्टानि प्रदत्तानि । तथापि भगवतः साधना विचलिता न अभवत् । षण्मासानाम् अन्ते इन्द्रः मृत्युलोकं प्राप्तवान् । इन्द्रः संयमात् क्रुद्धः आसीत् । यतः संयमेन महावीराय बहूनि कष्टानि प्रदत्तानि । अतः इन्द्रेण देवलोकात् संयमः निष्कासितः ।

तेषाम् उपसर्गाणाम् अन्ते भगवान् महावीरः वज्र-नामके ग्रामे क्षीरान्नं भुक्तवान् । अनन्तरं सः पुनः वैशाली-नगरं प्राप्तवान् । तत्र तेन चातुर्मास्यं तपः कृतम् ।

साधनायाः द्वादशवर्षम्सम्पाद्यताम्

वैशाली-नगरे चातुर्मासान् समाप्य भगवान् सुंसुमार-नगरं प्रापत् । तत्र अशोकवृक्षस्याधः महावीरः ध्यानावस्थां प्राविशत् । किञ्चित्समयान्तरे भगवान् महावीरः सुंसुमार-नगरतः कौशाम्बी-नगरीं प्राप्तवान् । कौशाम्बी-नगर्याम् एव चन्दना-नामिका भगवतः महावीरस्य प्रथमा शिष्या आसीत् । चन्दना कौशाम्बी-नगर्याः कस्यचित् धनिकस्य पत्नी आसीत् । चन्दनां सम्मिल्य भगवतः महावीरस्य अभिग्रहः पूर्णः अभवत् ।

साधनायाः त्रयोदशवर्षम्सम्पाद्यताम्

इदं भगवतः साधनायाः अन्तिमं वर्षम् एव आसीत् । किन्तु त्रयोदशे वर्षे भीषणोपसर्गं प्राप्तवान् महावीरः । त्रयोदशवर्षे भगवान् महावीरः छम्माणी-ग्रामं प्राप्तवान् । किन्तु ग्रामस्य बहिः एव ध्यानावस्थां प्राविशत् । यत्र भगवान् ध्यानावस्थायाम् आसीत्, तत्र कश्चन गोपालकः आगत्य स्वस्य वृषभान् तत्रैव त्यक्त्वा ग्रामं गतवान् । यदा सः गोपालकः पुनरागतवान्, तदा तेन वृषभाः न दृष्टाः । तेन वृषभाणां विषये भगवान् पृष्टः । किन्तु महावीरः मौनम् एव अतिष्ठत् । तेन गोपालकः क्रुद्धः जातः । क्रुद्धे सति गोपालकेन काष्ठकीलाः भगवतः कर्णयोः अवपातिताः । मन्यते यत् – “अष्टादशे भवे त्रिपृष्ठनामकः वासुदेवः आसीत् । त्रिपृष्ठः महावीरस्य एव जीवः आसीत् । त्रिपृष्ठेन यस्य जनस्य कर्णयोः सीसं (Lead Metal) विस्थापितम् आसीत्, सः एव अस्मिन् जन्मनि गोपालकस्य स्वरूपेण आसीत् ।

छम्माणी-ग्रामात् भगवान् मध्यमा-ग्रामं गतवान् । तस्मिन् ग्रामे सः सिद्धार्थ-नामकस्य वणिजः गृहं प्राप्तवान् । तदा सिद्धार्थः स्वमित्रेण खरकेण सह वार्तालापं कुर्वन् आसीत् । भगवन्तं दृष्ट्वा सिद्धार्थः नमस्कृतवान् । सिद्धार्थस्य मित्रं खरकः वैद्यः आसीत् । अतः खरकेण भगवतः उपचारः कृतः । यदा खरकेण भगवतः कर्णाभ्यां काष्ठकीलाः निष्कासिताः, तदा महावीरः उच्चस्वरेण परिगर्जितवान् । तेन गर्जनेन उद्यानम् अपि अनुगर्जितम् । अयं महावीरस्य अन्तिमः उपसर्गः आसीत् । अनन्तरं भगवता कैवल्यज्ञानं सम्प्राप्तम् ।

केवलज्ञानम्सम्पाद्यताम्

भगवता महावीरेण त्रयोदशवर्षाणि यावत् साधना कृता । त्रयोदशेषु वर्षेषु महावीरः बहूनाम् उपसर्गानां कष्टम् अन्वभवत् । त्रयोदशवर्षाण्यन्तरं भगवान् महावीरः विचरन् जम्भिय-ग्रामं प्राप्तवान् । तस्य ग्रामस्य समीपम् ऋजुबालुका-नदी आसीत् । तस्यां नद्यां घोषे एकं क्षेत्रम् (Farm) आसीत् । श्यामक-नामकः कश्चन गाथापतिः तस्य क्षेत्रस्य स्वामी आसीत् । तस्मिन् क्षेत्रे शालवृक्षस्याधः एव भगवान् ध्यानावस्थां गतः ।

वैशाख-मासस्य शुक्लपक्षस्य दशम्यां तिथौ उत्तराफाल्गुनी-नक्षत्रे महावीरः कैवल्यज्ञानं प्रापत् । भगवतः रहस्यकालस्य अवधिः द्वादशवर्षाणि षण्मासानि पञ्चदशदिवसानि च आसन् । तस्मिन् दिवसे चतुष्षष्टिः इन्द्राः, लोकान्तिकदेवाः चापि समुपस्थिताः आसन् । सर्वे मिलित्वा भगवतः महावीरस्य कैवल्यमहोत्सवम् आचरितवन्तः । अनन्तरं देवैः समवसरणं रचितम् । देवैः भगवतः प्रवचनस्य प्रशंसा अपि कृता ।

कैवल्यज्ञानस्य प्राप्त्यनन्तरम् ऋजुबालुका-नद्याः तटे भगवान् महावीरः प्रथमं प्रवचनं चकार । किन्तु प्रवचनं वने आसीत्, अतः जनाः गन्तुम् असमर्थाः आसन् । यद्यपि कैवल्यज्ञानानन्तरं प्रथमप्रवचने एव चतुर्विधसङ्घस्य स्थापना भवति स्म, किन्तु महावीरस्य प्रथमे प्रवचने जनाः एव नासन् । तेन सङ्घस्य स्थापना एव न जाता । इदमेकम् आश्चर्यं मन्यते । बहवः आचार्याः मन्यन्ते यत् – “प्रथमे प्रवचने जनाः आगतवन्तः आसन्, किन्तु केनचिदपि व्रतं न स्वीकृतम् [११]

गणधराणां दीक्षासम्पाद्यताम्

जम्भिय-ग्रामात् भगवान् महावीरः मध्यमपावा-नामकं ग्रामं प्राप्तवान् । तस्मिन् ग्रामे कश्चन सोमिल-नामकः ब्राह्मणः निवसति स्म । सोमिलेन विशालयज्ञस्य आयोजनं कृतम् आसीत् । तस्मिन् यज्ञे बहवः विद्वांसः समागताः आसन् । तत्रापि एकादशपण्डिताः शिष्यपरिवारेण सह आगतवन्तः आसन् । तस्मिन् दिवसे देवैः अपि मध्यमपावा-ग्रामे महावीरस्य समवसरणं रचितम् । तत्र बहवः नगरजनाः, देवाः, इन्द्राः च समुपस्थिताः आसन् । यत्र सोमिलस्य यज्ञः जायमानः आसीत्, ततः एव देवाः, इन्द्राः च आकाशमार्गेण आगतवन्तः आसन् । विशालयज्ञस्य एकादशाचार्येषु प्रथमः इन्द्रभूतिः गौतमः आसीत् । “महावीरः पाषण्डी अस्ति” इति मत्वा इन्द्रभूतिः गौतमः महावीरस्य समवसरणं प्रापत्[१२]

इन्द्रभूतिः मन्यते स्म यत् - “मम समकक्षः कोऽपि विद्वान् नास्ति” । किन्तु यदा सः समवसरणं प्राप्य महावीरास्य समीपं गतवान्, तदा महावीरेण इन्द्रभूतिः नाम्ना सम्बोधितः । इन्द्रभूतिः अहङ्कारेन परिपूर्णः आसीत् । यदा महावीरेण इन्द्रभूतेः मनसः शङ्का उक्ता, तदा इन्द्रभूतिः आश्चर्यचकितः अभवत् । यतः महावीरः इन्द्रभूतेः मनसः इच्छां ज्ञातवान् । “आत्मनः अस्तित्त्वम्” इति इन्द्रभूतेः शङ्का आसीत् । महावीरः तस्याः शङ्कायाः निदानं कृतवान् । महावीरस्य प्रभावेण इन्द्रभूतिः स्वस्य पञ्चशतेन शिष्यैः सह महावीरात् दीक्षाम् अङ्गीकृतवान्, महावीरस्य शिष्यत्वं स्वीकृतवान् च । अन्यैः दशभिः आचार्यैः अपि महावीरस्य शिष्यत्वं प्राप्तम् । ते एकादश आचार्याः एव महावीरस्य इन्द्रभूत्यादयः एकादश गणधराः अभवन् ।

महावीरस्य मुख्यसिद्धान्ताःसम्पाद्यताम्

भगवान् महावीरः सर्वज्ञः आसीत् । सः सर्वं जानाति स्म । तथापि सः तत्कालीनस्य प्रचलितानां कुप्रथानां विरोधं करोति स्म । तेन बहव्यः कुप्रथाः अवरोधिताः । सः सिद्धान्तवादी आसीत् । तस्य जीवने बहवः सिद्धान्ताः आसन् । तेषु केचन सिद्धान्ताः अधः निरूपिताः सन्ति [१३]

जातिवादविरोधःसम्पाद्यताम्

यद्यपि महावीरः धनाढ्यवंशेन सह सम्पर्कः अस्ति, तथापि सः जातिवादस्य विरोधं कुर्वन् आसीत् । “जातिवादः तत्वहीनः विषयः अस्ति” इति महावीरः कथयति स्म । महावीरस्य वैचारिकी क्षमता उच्चस्तरीया आसीत् । सः कथयति स्म यत् – “मनुष्यः जन्मनः कदापि उच्चः नीचः वा न भवति । कर्ममात्रेण एव मनुष्यः श्रेष्ठत्वं प्राप्नोति ।

स्वस्य तीर्थेषु अपि महावीरः शूद्रान् अपि सम्मेलयति स्म । जनाः तद्दृष्ट्वा विचारग्रस्ताः अभवन् । किन्तु महावीरेण उक्तं यत् – “कोऽपि जनः जन्मनः नीचः न भवति, अतः ये जनाः नीचः इति मन्यन्ते, ते हिंसां कुर्वन्ति” इति । भगवता प्रदत्तेन सन्देशेन लक्षाधिकाः पीडिताः, दलिताः, शूद्राः च आशान्विताः जाताः । भगवतः समवसरणे सर्वे जनाः भेदभावं विना एव प्रवचनं श्रोतुं गच्छन्ति स्म ।

धर्माधिकारःसम्पाद्यताम्

एकदा कैश्चित् जनैः भगवान् महावीरः पृष्टः यत् – “भवता यस्य धर्मस्य स्थापना कृता, तस्य धर्मस्याधिकारः कस्मै अस्ति ? कः तस्य धर्मस्य स्वीकारं कर्तुं शक्नोति ?” तदा भगवता उक्तं यत् – “मया यस्य धर्मस्य स्थापना कृता अस्ति, तद्धर्मं कोऽपि जनः स्वीकर्तुं शक्नोति । धर्मस्य स्वीकरणे काऽपि बाधा नास्ति । धर्मस्य स्वीकरणे केवलं हृदयस्य शुद्धत्वम् आवश्यकं वर्तते । अशुद्धहृदयेन धर्मपालनं न क्रियते । धर्मस्य स्थायित्वाय पवित्रता आवश्यकी भवति” ।

अनेन प्रकारेण महावीरेण स्थापिते धर्मे सर्वेषां वर्गाणां जनाः सम्मिलिताः आसन् । यतो हि सः जातिभेदं न मन्यते स्म । अतः शूद्राः अपि तस्य धर्मस्य पालनं कुर्वन्ति स्म ।

पशुबलिविरोधःसम्पाद्यताम्

अस्माकं भारतीयसंस्कृतिः प्राचीनयुगाधारिता वर्तते । ऋषिमुनिभिः यज्ञादिक्रियाणां मार्गाः उपदिष्टाः आसन् । किन्तु जनाः धर्मस्य दुरूपयोगं कुर्वन्तः आसन् । यज्ञादिकर्मसु पशूनां बलिः दीयते स्म । एतानि हिन्सात्मकानि कर्माणि न भवेयुः । अतः महावीरः यज्ञादिषु कर्मसु पशुबलेः विरोधं कृतवान् । महावीरः उक्तवान् यत् – “हिंसात्मकं कर्म पापम् इव भवति । हिंसया विना एव धर्मस्य पालनं कर्तुं शक्यते” इति ।

स्त्रीसमानतासम्पाद्यताम्

महावीरः स्त्रीपुरुषयोः भेदं न करोति स्म । सः स्त्रीपुरुषौ समानदृष्ट्या एव पश्यति स्म । तस्मिन् समये जनाः स्त्रीभ्यः महत्त्वं न ददति स्म । अतः महावीरः स्त्रीभ्यः सर्वान् अधिकारान् अयच्छत् । महावीरः कथयति स्म यत् – “केवलं लिङ्गमात्रेण एव स्त्रीपुरुषयोः भेदः वर्तते । आत्मविकासे तु स्त्रीपुरुषौ समानौ एव स्तः । स्त्री मातृशक्तिः अस्ति । अतः अस्माकं धर्मे तस्य स्थानम् उच्चतमं वर्तते” इति ।

लोकभाषाप्रयोगःसम्पाद्यताम्

भगवान् महावीरस्य लोकभाषा “अर्धमागधी” इति आसीत् । अतः तेन तस्य लोकभाषायामेव सर्वत्र प्रवचनं कृतम् आसीत् । मगधक्षेत्रस्य, मगधसमीपस्थक्षेत्राणां च जनाः अर्धमागधी-भाषायाः प्रयोगं कुर्वन्ति स्म । महावीरः व्यवहारे अपि अर्धमागधी-भाषायाम् एव वदति स्म । अतः जैनधर्मस्य मूलागमेषु अपि अर्धमागधी-भाषा एव प्राप्यते ।

दासप्रथाविरोधःसम्पाद्यताम्

महावीरेण सामान्यव्यक्तये अपि स्वतन्त्रतायाः अधिकारः प्रदत्तः आसीत् । सः दासप्रथायाः विरोधी आसीत् । सः दासप्रथां धर्मविरुद्धं गणयति स्म । तस्मिन् काले धनिकाः स्वकार्येभ्यः निर्धनानां क्रयणं कुर्वन्ति स्म । यस्य क्रयणं भवति सः दासः कथ्यते स्म । दासः धनिकानां सर्वाणि कार्याणि करोति स्म । दासः धनिकस्य आधीन्ये भवति स्म । इदं हिंसात्मकं कर्म अस्ति । अतः महावीरः अस्य विरोधं करोति स्म । महावीरेण उक्तं यत् – “अस्माकं सङ्घे सर्वे समानाः सन्ति । कोऽपि दासः नास्ति । सर्वैः जनैः निस्वार्थभावेन परस्परं कार्याणि करणीयानि सन्ति ।

अपरिग्रहःसम्पाद्यताम्

“अपरिग्रहः” इति महावीरस्य महदुपदेशः आसीत् । सः धनम् अनर्थस्य मूलम् इति कथयति स्म । अर्थः धार्मिकप्रगतौ बाधकोऽस्ति । अतः “मुनिचर्यायाम् अर्थस्य त्यागः करणीयः” इति महवीरः उपदेशं ददाति स्म । श्रावकधर्मे अपि तस्य नियन्त्रणम् आवश्यकम् अस्ति ।

भगवता महावीरेण अपि बहुमात्रायां परिग्रहस्य त्यागः कृतः आसीत् । श्रावकैः आवश्यकतानुसारम् एव परिग्रहस्य सङ्ग्रहः करणीयः । शेषपरिग्रहस्य दानं त्यागः वा करणीयः भवति । सः कथयति स्म यत् – “धनसङ्ग्रहेण समस्याः उद्भवन्ति । परिग्रहस्य मोहवशात् धार्मिकजनः अध्यात्मिकः भवितुं न शक्नोति । अध्यात्मिकः भवितुं परिग्रहस्य त्यागः आवश्यकं भवति ।

महावीरस्य प्रभावःसम्पाद्यताम्

भगवतः महावीरस्य विहारक्षेत्रं मर्यादितम् आसीत् । अङ्ग, मगध, काशी, कौशल, सावत्थी, वत्स इत्यादिषु जनपदेषु सः विचरन् आसीत् । भगवतः महावीरस्य दीर्घतमः विहारः सिन्धुदेशात् तः सौवीरदेशपर्यन्तम् आसीत् ।

महावीरस्य काले बहवः धर्मप्रवर्तकाः आसन् । सर्वे प्रवर्तकाः साधनाज्ञानमाध्यमेन जनेषु स्वस्य प्रभावं स्थापयितुं प्रयासान् कुर्वन्तः आसन् । तदा अन्ये षडाचार्याः आसन्, ये तीर्थङ्कराः कथ्यन्ते स्म । तथापि तेषु आचार्येषु महावीरस्य प्रभावः विशिष्टः आसीत् [१४]

वैशाली-राज्यस्य गणपतिः चेटकः, मगधसम्राट् श्रेणिकः, अङ्गसम्राट् कोणिकः, सिन्धुनरेशः उदाई, उज्जयिनीनरेशः चन्द्रप्रद्योतनः इत्यादयः गणनायकाः, राजानः च भगवतः महावीरस्य उपासकाः आसन् ।

तस्मिन् काले आनन्दः, कामदेवः, शकडालः, महाशतकः इत्यादयः धनाढ्याः, समाजसेवकाः च आसन् । ते अपि आगार, अणगार च धर्मस्य पालनं कुर्वन्ति स्म । आर्यजनपदे अपि भगवतः महावीरस्य अत्यधिकः प्रभावः आसीत् । यतः तेन सामजिककुप्रथानां विरोधं कृत्वा तासां कुप्रथानां निवारणं कृतम् आसीत् । अतः सर्वत्र भगवतः प्रभावः दृश्यते स्म ।

तीर्थस्थापनासम्पाद्यताम्

भगवतः समवसरणे एकादशगणधरैः सह ४४११ ब्राह्मणैः अपि मुनिदीक्षा स्वीकृता आसीत् । भगवता एकादशगणधराय त्रिपद्याः ज्ञानं प्रदत्तम् आसीत् । अनेन त्रिपद्याः ज्ञानेन तेभ्यः गणधरेभ्यः चतुर्दशपूर्वेण सह द्वादशाङ्ग्याः ज्ञानम् अभवत् । अतः ते गणधराः कथ्यन्ते [१५]

बहवः जनाः श्रावकाश्राविकयोः धर्मं स्वीकृतवन्तः । बहुभिः जनैः साध्वीसाध्वोः धर्मः चापि स्वीकृतः । अनेन प्रकारेण वैशाख-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ महावीरः चतुर्विधतीर्थस्य स्थापनां चकार । तेन सः “तीर्थङ्करः” इति पदं प्रापत् । अनन्तरं भगवान् राजगृह-नगरं प्राप्तवान् । तस्मिन् वर्षे सः राजगृह-नगरे एव चातुर्मास्यव्रतं चकार ।

यदा भगवान् महावीरः राजगृह-नगरं प्राप्तवान्, तदा तत्रत्यः राजा श्रेणिकः परिवारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । तस्मिन् चातुर्मासे राजकुमारेण मेघेन, राज्ञा नन्दीषेणेन च दीक्षा अङ्गीकृता आसीत् ।

द्वितीयवर्षम्सम्पाद्यताम्

राजगृहनगरात् भगवान् ब्राह्मणकुण्ड-ग्रामं गतवान् । ऋषभदत्तः इत्याख्यः ब्राह्मणकुण्ड-ग्रामस्य प्रमुखः वर्तते स्म । तस्य पत्नी देवानन्दा आसीत् । द्वावेव श्रावकौ आस्ताम् । तौ द्वौ भगवतः महावीरस्य दर्शनार्थं गतवन्तौ । महावीरं दृष्ट्वा देवानन्दा प्रसन्ना अभवत् । तस्याः हृदयं मातृवात्सल्येन परिपूर्णं जातम् । देवानन्दायाः स्तनाभ्यां दुग्धधारा वहन्ती आसीत् । एतत्सर्वं दृष्ट्वा इन्द्रभूतिना महावीरः पृष्टः यत् – “किमस्य कारणम्” ?

महावीरः उक्तवान् यत् - “सा मम माता अस्ति । पुत्रस्नेहकारणात् एतत्सर्वं भवदस्ति । अनन्तरं भगवान् महावीरः प्रवचनं कृतवान् । प्रवचनानन्तरम् ऋषभदेवेन, देवानन्दया च साधुत्वं स्वीकृतम् । ब्राह्मणकुण्ड-नगरस्य पश्चिमे क्षत्रियकुण्ड-नगरम् आसीत् । तत्र अपि भगवान् प्रवचनं प्रदत्तवान् । तेन प्रवचनेन बहुभिः जनाः साधुत्वं प्राप्तवन्तः । अनन्तरं भगवान् ततः वैशाली-नगरं प्राप्तवान् । तस्मिन् नगरे भगवान् महावीरः चातुर्मास्यं कृतवान् [१६]

तृतीयवर्षम्सम्पाद्यताम्

चातुर्मास्यं समाप्य भगवान् महावीरः वत्सभूमि-नगरं गतवान् । ततः कौशाम्बी-नगरं प्राप्तवान् । उदयन-नामकः तत्रत्यः राजा आसीत् । भगवतः आगमनसन्देशं प्राप्य उदयनः परिवारेण सह महावीरस्य दर्शनार्थं गतवान् । प्रवचने जनैः प्रश्नाः पृष्टाः । महावीरेण सर्वेषां प्रश्नानां सन्तोषकारकाणि उत्तराणि प्रदत्तानि आसन् । तत्रापि बहवः जनाः दीक्षां स्वीकृतवन्तः । अन्ते तेषां जनानां निर्वाणम् अभवत् । ततः महावीरः वाणिज्य-ग्रामं गतवान् । भगवता तत्रैव चातुर्मास्यं कृतम् ।

चतुर्थवर्षम्सम्पाद्यताम्

वाणिज्यग्रामात् विचरन् भगवान् महावीरः राजगृहं प्राप्तवान् । श्रेणिकः तत्रत्यः राजा आसीत् । श्रेणिकः भगवतः महावीरस्य दर्शनार्थं गतवान् । राजगृह-नगरे धन्ना, शालीभद्रः इत्याख्यौ धनिकौ आस्ताम् । तौ अपि महावीरात् दीक्षां प्राप्तवन्तौ । दीक्षानन्तरं धन्ना इत्याख्यस्य धनिकस्य निर्वाणम् अभवत् । अपरः धनिकः शालीभद्रः सिद्धविमाने देवः अभवत् । भगवता महावीरेण राजगृह-नगरे एव चातुर्मास्यं कृतम् ।

पञ्चमवर्षम्सम्पाद्यताम्

कैवल्यज्ञानान्तरं पञ्चमे वर्षे भगवान् महावीरः राजगृहात् चम्पा-नगरीं प्राप्तवान् । चम्पानगर्याः राजा दत्तः आसीत् । राज्ञः दत्तस्य पुत्रः महचन्दः अपि महावीरात् दीक्षां प्रापत् । भगवान् महावीरः चम्पा-नगरीं त्यक्त्वा वीतभय-नगरीं गतवान् । इयं भगवतः दीर्घतमा यात्रा आसीत् । अस्यां यात्रायां बहवः साधवः जलान्नाभावेन दिवङ्गताः । वीतभय-नगर्याः राजा उदाई इत्याख्यः आसीत् । उदाई इत्याख्यः भगवन्तं दृष्ट्वा प्रसन्नः जातः । उदाई इत्याख्येन स्वस्य केशीकुमार इत्याख्याय भागिनेयाय राज्यस्य दायित्वं प्रदत्तम् । स्वयम् उदाई इत्याख्यः दीक्षां स्वीकृतवान् । किञ्चित् समयानन्तरं भगवान् महावीरः मगध-देशस्य वाणिज्य-ग्रामं गतवान् आसीत् । तत्र तेन चातुर्मास्यं कृतम् ।

षष्ठवर्षम्सम्पाद्यताम्

वाणिज्य-ग्रामे चातुर्मास्यं समाप्य भगवान् वाराणसी-नगरीं गतवान् । तत्र तेन प्रवचनं कृतम् आसीत् । ततः सः आलम्भिया-नगरं गतवान् । आलम्भिया-नगरस्य राजा जितशत्रुः आसीत् । सः भगवतः दर्शनार्थं गतवान् । तस्मिन् नगरे कश्चन युद्गल इत्याख्यः परिव्राजकः निवसति स्म । तेन परिव्राजकेण घोरतपस्या कृता । अतः सः अवधिज्ञानं प्रापत् । तेन एका घोषणा कृता यत् – “देवानां जघन्यायुष्यं दशसहस्रं वर्षाणि, उत्कृष्टायुष्यं दशसागरमात्रात्मकं च अस्ति । महावीरस्य प्रथमः गणधरः इन्द्रभूतिः अपि तस्मिन् ग्रामे एव आसीत् । युद्गलस्य घोषणा यदा इन्द्रभूतिना श्रुता, तदा सः महावीरस्य समीपं गतवान् । इन्द्रभूतेः मनसि शङ्का उद्भूता । अतः इन्द्रभूतिना महावीरस्य समक्षे सा शङ्का उपस्थापिता । तदा महावीरः उक्तवान् यत् - “देवानाम् उत्कृष्टायुष्यं त्रयस्त्रिंशत्सागरमात्रात्मकं भवति । इन्द्रभूतिमहावीरयोः संवादं युद्गलः प्राप्तवान् । तदा सः महावीरस्य प्रवचनं श्रुतवान् । अनन्तरं युद्गलेन महावीरात् दीक्षा सम्प्राप्ता । दीक्षायाः परं युद्गलः एकादशाङ्गानि अधीतवान् । किञ्चित् समयान्तरे तस्य निर्वाणम् अभवत् । महावीरः आलम्भिया-नगरतः राजगृह-नगरं गतवान् । तत्र महावीरेण चातुर्मास्यं कृतम् ।

सप्तमवर्षम्सम्पाद्यताम्

राजगृहे चातुर्मास्यं कृत्वा भगवान् तत्र एव निवसन् आसीत् । तदा राजगृह-नगरस्य बहवः मुख्यनागरिकाः श्रमणधर्मं, श्रावकधर्मं च स्व्यकुर्वन् । तस्मिन्वर्षे भगवतः वर्षावासः राजगृह-नगरे एव अतीतः ।

अष्टमवर्षम्सम्पाद्यताम्

राजगृह-नगरात् भगवान् पुनः आलम्भिया-नगरं गतवान् । ततः कौशाम्बी-नगरीं गतवान् । तस्मिन् समये उज्जयिनी-नगर्याः राजा चण्डप्रद्योतः आसीत् । सः कौशाम्बी-नगरीं जेतुम् इच्छति स्म । कौशाम्बी-नगर्याः राज्ञी मृगावती आसीत् । तस्य उदयन-नामकः अवयस्कः पुत्रः अपि आसीत् । चण्डप्रद्योतः मृगावत्या आकृष्टः अभवत् । अतः सः तया सह विवाहं कर्तुम् इच्छति स्म ।

महावीरस्य आगमनेन मृगावती प्रसन्ना जाता । एकदा महवीरस्य प्रवचने मृगावती, चण्डप्रद्योतश्च समुपस्थितः आसीत् । तस्मिन् समये एव मृगावती महावीरात् दीक्षां सम्प्रापत् । लोकलज्जायाः कारणात् चण्डप्रद्योतः किमपि वक्तुम् असमर्थः आसीत् । चण्डप्रद्योतस्य अन्याभिः अङ्गारवती-इत्यादिभिः राज्ञीभिः अपि दीक्षा स्वीकृता । अनन्तरं भगवान् वैशाली-नगरं प्राप्तवान् । तत्र भगवता महावीरेण चातुर्मास्यं कृतम् ।

नवमवर्षम्सम्पाद्यताम्

वैशाली-नगरे चातुर्मास्यं समाप्य भगवान् काकन्दी-नगरीम् अगच्छत् । जितशत्रुः नामकः तस्याः नगर्याः राजा आसीत् । सः अपि भगवतः दर्शनार्थं गतवान् । भगवान् ततः पोलासपुर-ग्रामं प्राप्तवान् । पोलासपुर-ग्रामे सद्दालपुत्र-नामकः कश्चन धनिकः कुम्भकारः आसीत् । तस्य पत्नी अग्निमित्रा आसीत् । तौ श्रमणधर्मं स्वीकृतवन्तौ । अनन्तरं भगवान् महावीरः पोलासपुर-ग्रामतः वाणिज्य-ग्रामं गत्वा चातुर्मासस्यं चकार ।

दशमवर्षम्सम्पाद्यताम्

तदनन्तरं भगवान् राजगृह-नगरं प्राप्तवान् । राजगृह-नगरे महाशतकः नामकः कश्चन गाथापतिः आसीत् । तेन श्रावकधर्मः स्वीकृतः । अपरं च ये पार्श्वपरम्पराम् अनुसरन्ति स्म, तैः अपि श्रमणधर्मः, श्रावकधर्मश्च स्वीकृतः । तस्मिन् वर्षे भगवान् महावीरः तत्रैव चातुर्मास्यं कृतवान् ।

एकादशवर्षम्सम्पाद्यताम्

भगवान् राजगृहतः कृतङ्गला-नगरीं गतवान् । कृतङ्गला-नगर्याः समीपं श्रावस्ती-नगरी आसीत् । तस्यां नगर्यां कात्यायनगोत्रीयः कश्चन स्कन्दक-नामकः परिव्राजकः निवसति स्म । पिङ्गलेन सह तस्य मेलनम् अभवत् । तयोः चर्चा जाता । चर्चायां पिङ्गलेन बहवः प्रश्नाः पृष्टाः । किन्तु स्कन्दकः तेषां प्रश्नानाम् उत्तराणि दातुं नाशक्नोत् । यतः प्रश्नेषु शङ्काः समुद्भूताः । अतः सः शङ्काः समाधातुं महावीरस्य समीपं गतवान् । यदा भगवता शङ्कानां समाधानं कृतं, तदा स्कन्धकेन दीक्षा अङ्गीकृता । अनन्तरं भगवान् महावीरः वाणिज्य-नगराय प्रस्थितवान् । तत्र गत्वा भगवता महावीरेण चातुर्मास्यं कृतम् ।

द्वादशवर्षम्सम्पाद्यताम्

वाणिज्य-नगरे चातुर्मास्यं समाप्य भगवान् महावीरः ब्राह्मणकुण्ड-नामकं नगरं गतवान् । तत्र बहुशाल-नामकम् उद्यानम् आसीत् । तस्मिन् उद्याने भगवान् निवसति स्म । अनन्तरं ततः कौशाम्बी-नगरीं गतवान् । तत्र सूर्यचन्द्रमसौ भगवतः दर्शनार्थं समागतौ । भगवान् महावीरः पुनः ततः राजगृहं गत्वा चातुर्मास्यं कृतवान् ।

त्रयोदशवर्षम्सम्पाद्यताम्

त्रयोदशे वर्षे भगवान् चम्पा-नगरीं प्राप्तवान् । किञ्चित् कालात् प्राक् मगध-देशस्य राज्ञः श्रेणिकस्य मृत्युः जातः । तेन कारणेन कोणिकः मगध-देशस्य राजधानी चम्पा-नगरीम् अकरोत् । यदा भगवान् चम्पा-नगरीं प्राप्तवान्, तदा कोणिकः परिवारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । चम्पा-नगर्यां भगवतः महावीरस्य प्रवचनम् अभवत् । भगवतः प्रवचनं श्रुत्वा श्रेणिकस्य दशपुत्रैः मुनिधर्मः अङ्गीकृतः । नगर्याः बहुभिः धनिकैः अपि श्रावकधर्मः स्वीकृतः । अनन्तरं भगवान् मिथिला-नगरीं गतवान् । तत्र भगवता चातुर्मास्यं कृतम् ।

चतुर्दशवर्षम्सम्पाद्यताम्

भगवान् पुनः चम्पा-नगरीं प्रापत् । तस्मिन् समये वैशाली मगध इत्येतयोः युद्धं प्रचलत् आसीत् । वैशाली-नगरस्य राजा चेटकः, मगध-देशस्य राजा कोणिकः च आसीत् । अन्ते कोणिकः विजयी अभवत् । किन्तु कोणिकस्य कालादयः दशपुत्राः चेटकेन हताः । अतः काली इत्यादिभिः राज्ञीभिः विलापः कृतः । अन्ते ताभिः राज्ञीभिः अपि दीक्षा अङ्गीकृता । अनन्तरं भगवान् महावीरः पुनः मिथिला-नगरीं प्राप्तवान् ।

पञ्चदशवर्षम्सम्पाद्यताम्

पञ्चदशे वर्षे भगवान् मिथिला-नगरीतः श्रावस्ती-नगरीं गतवान् । तस्यां नगर्यां गोशालकः निवसति स्म । भगवतः महावीरस्य रहस्यकाले गोशालकः षड्वर्षाणि यावत् महावीरेण सह एव विचरन् आसीत् । तेन भगवतः एव तेजोलेश्यायाः उपायः प्राप्तः । अनन्तरं सः महावीरात् पृथक् अभवत् । तस्य पार्श्वे तेजोलेश्याज्ञानम्, अष्टाङ्गनिमित्तज्ञानं च आसीत् । अतः “अहं तीर्थङ्करः, सर्वज्ञः, केवलज्ञानी च अस्मि” इति गोशालकः मन्यते स्म । सर्वत्र तस्य विषये चर्चा भवन्ती आसीत् । तस्मिन् समये गौतमः अपि तत्र भिक्षार्थं गतवान् । गोशालकस्य चर्चां श्रुत्वा गौतमः चकितः अभवत् । गौतमेन महावीरः पृष्टः यत् – “ एषः गोशालकः कः ? तदा महावीरेण वास्तविकता कथिता ।

गौतममहावीरयोः संवादं गोशालकः श्रुतवान् । तदा सः क्रुद्धः जातः । अतः सः विवादं कर्तुं महावीरस्य निवासस्थलं प्राप्तवान् । तत्र गत्वा गोशालकः अभद्रव्यवहारं कृतवान् । किन्तु भगवता महावीरेण गोशालकः भद्रतया अवबोधितः । तथापि गोशालकः न अवगतः । ततः अपि अधिकः क्रुद्धः अभवत् गोशालकः । गोशालकेन भगवति महावीरे तेजोलेश्यायाः प्रयोगः कृतः । किन्तु सा तेजोलेश्या भगवतः परिक्रमां कृत्वा गोशालकं प्रति प्रत्यागत्य तस्यैव शरीरं प्राविशत् । तया तेजोलेश्यया गोशालकस्य शरीरं दह्यमानम् आसीत् । भगवान् महावीरः गोशालकाय उक्तवान् यत् – “भवान् सप्तदिवसानन्तरं मृत्युं प्राप्स्यति” इति । भगवतः महावीरस्य वचनानुसारं सप्तदिवसानन्तरं गोशालकः दिवङ्गतः । मरणसमये गोशालकः पश्चात्तापं कृतवान् । तेन सः देवलोके देवः अभवत् ।

अनन्तरं भगवान् श्रावस्ती-नगर्याः मेण्ढिय-ग्रामं गतवान् । तत्र भगवतः शरीरे तेजोलेश्यायाः प्रभावः अभवत् । तेजोलेश्यायाः प्रभावेण भगवतः शरीरं दुर्बलम् अभवत् । तदा सिंहमुनिना आग्रहेण भगवाता महावीरेण ओषधिः सेविता । तेन भगवान् स्वस्थः अभवत् । सः पुनः मेण्ढिय-ग्रामतः मिथिला-नगरीं गतवान् । तस्यां नगर्यां भगवान् महावीरः चातुर्मास्यं कृतवान् ।

षोडशवर्षं, सप्तदशवर्षं चसम्पाद्यताम्

षोडशे वर्षे मिथिला-नगरीतः भगवान् पुनः श्रावस्ती-नगरीं प्राप्तवान् । ततः भगवान् हस्तिनापुरं गतवान् । पुनः भगवान् ततः वाणिज्यग्रामं गत्वा चातुर्मास्यं कृतवान् । सप्तदशे वर्षे महावीर राजगृह-नगरं गतवान् । तत्र सः चातुर्मास्यं कृतवान् ।

अष्टदशवर्षम्सम्पाद्यताम्

चातुर्मास्यं समाप्य भगवान् महावीरः चम्पा-नगरीं प्राप्तवान् । चम्पा-नगर्याः राजा शालः आसीत् । महाशालः-नामकः तस्य अनुजः आसीत् । राज्ञा शालेन स्वस्मै भागिनेयाय गाङ्गली-इत्याख्याय राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं शालः, महाशालश्च महावीरात् दीक्षां प्राप्तवन्तौ ।

भगवान् चम्पा-नगर्याः दशार्णपुरं प्रापत् । दशार्णपुरस्य राजा दशार्णभद्रः आसीत् । सः अहङ्कारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । किन्तु इन्द्रेण तस्य अहङ्कारः नाशितः । दशार्णभद्रः महावीरात् दीक्षाम् अङ्गीकृतवान् । तस्मिन् वर्षे भगवता महावीरेण वाणिज्यग्रामे एव चातुर्मास्यं कृतम् आसीत् ।

एकोनविंशतितमवर्षं, विंशतितमवर्षं चसम्पाद्यताम्

एकोनविंशतितमे वर्षे भगवान् काम्पिल्यपुरं प्राप्तवान् । ततः पुनः सः वैशाली-नगरं गतवान् । तत्रैव भगवता चातुर्मास्यं कृतम् । विंशतितमे वर्षे वाणिज्य-ग्रामं गत्वा पुनः वैशाली-नगरं प्राप्तवान् । तत्र सः चातुर्मास्यं कृतवान् ।

एकविंशतितमवर्षतः, एकोनत्रिंशत्तमवर्षपर्यन्तं च[१७]सम्पाद्यताम्

  • एकविंशतितमे वर्षे भगवान् वैशाली-नगरीतः राजगृह-नगरं प्रस्थितवान् । तत्र भगवान् चातुर्मास्यं कृतवान् ।
  • द्वाविंशतितमे वर्षे भगवता महावीरेण नालन्दा-जनपदि चातुर्मास्यं कृतम् आसीत् ।
  • त्रयोविंशतितमे वर्षे भगवान् वैशाली-नगर्यां चातुर्मास्यं कृतवान् आसीत् ।
  • चतुर्विंशतितमे वर्षे महावीरः कौशल-देशस्य साकेत-नामिकां नगरीं गतवान् । तस्याः नगर्याः राजा किरात आसीत् । सः भगवतः दर्शनं कृत्वा विरक्तः जातः । अनन्तरं तेन महावीरात् दीक्षा सम्प्राप्ता । अनन्तरं भगवान् विचरन् मिथिला-नगरीं प्रापत् । तत्रैव भगवता चातुर्मास्यं कृतम् आसीत् ।
  • पञ्चविंशतितमे वर्षे भगवान् राजगृह-नगरं गत्वा चातुर्मास्यं कृतवान् । भगवतः एकादशगणधरेषु प्रभास-नामकः अन्यतमः गणधरः एकमासं यावत् अनशनं चकार । अनन्तरं सः निर्वाणं प्रापत् ।
  • षड्विंशतितमे वर्षे भगवान् नालन्दा-जनपदं प्राप्तवान् । तस्मिन् वर्षे अचलभ्राता, मेतार्यः इत्याख्यौ गणधरौ मोक्षं प्राप्तवन्तौ ।
  • सप्तविंशतितमे वर्षे भगवान् महावीरः मिथिला-नगर्यां चातुर्मास्यं कृतवान् ।
  • अष्टाविंशतितमे वर्षे अपि महावीरेण मिथिला-नगर्याम् एव चातुर्मास्यं कृतम् आसीत् ।
  • एकोनत्रिंशत्तमे वर्षे भगवान् राजगृह-नगरं गतवान् । तत्र गत्वा तेन चातुर्मास्यं कृतम् । अग्निभूतिः, वायुभूतिः इत्याख्यौ गणधरौ अनशनं चक्रतुः । अनन्तरं तयोः निर्वाणम् अभवत् ।

अन्तिमं त्रिंशत्तमवर्षम्सम्पाद्यताम्

चातुर्मास्यानन्तरं भगवान् राजगृह-नगरे एव निवसन् आसीत् । तस्मिन् वर्षे अव्यक्तः, मण्डितः, मौर्यपुत्रः, अकम्पितः इत्याख्याः गणधराः अनशनपूर्वकं निर्वाणं प्राप्तवन्तः । अनन्तरं भगवान् पावा-नगरं गतवान् । तत्र भगवतः अन्तिमं चातुर्मास्यम् आसीत् ।

अन्तिमप्रवचनम्सम्पाद्यताम्

भगवता महावीरेण सम्पूर्णभूमण्डले बहूनि प्रवचनानि कृतानि । सः सार्धैकोनत्रिंशत् वर्षाणि यावत् सर्वत्र विचरणं कुर्वन् आसीत् । तेन बहूनां जनानां मार्गदर्शनं कृतम् आसीत् । सम्पूर्णे आर्यजनपदे भगवतः महावीरस्य प्रभावः विशिष्टः आसीत् । तस्य प्रवचनैः अन्यानि दर्शनानि अपि प्रभावितानि जातानि । अतः पशुबलेः, दासप्रथायाः च अपि शनैः शनैः शमनम् अभवत् ।

सर्वे जनाः स्वधर्मेषु अहिंसाधारितानि कर्माणि कुर्वन्ति स्म । महावीरस्य काले जनाः तत्त्वज्ञानं प्रापन् । भगवता महावीरेण स्वस्य अन्तिमवर्षावासः लिच्छवी, मल्लि इत्यादिषु गणराज्येषु व्यतीतः । जनाः जानन्ति स्म यत् – “इदं भगवतः अन्तिमवर्षम् अस्ति । अतः दर्शनसेवाप्रवचनानां लाभः स्वीकर्त्तव्यः ।

आश्विन-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ रात्रौ भगवता अन्तिमम् अनशनं कृतम् । भगवतः सेवायां बहवः श्रद्धालवः, चतुर्विधससङ्घजनाः इत्यादयः समागताः आसन् । महावीरेण सर्वे अवबोधिताः । आश्विन-मासस्य कृष्णपक्षस्य अमावस्यायां तिथौ भगवतः महावीरस्य अन्तिमं प्रवचनम् आसीत् । प्रवचने बहवः जनाः, राजानः च आसन् । सर्वे महावीरस्य उपासकाः आसन् । तस्मिन् दिवसे भगवतः महावीरस्य षष्ठतपः आसीत् ।

प्रवचने महावीरः पञ्चपञ्चाशत् अध्ययनपुण्यफलविपाकविषये, पञ्चपञ्चाशत् अध्ययनपापफलविपाकविषये च अवबोधितवान् । प्रवचने जनैः प्रश्नाः अपि कृताः । अनन्तरं भगवता षड्त्रिंशत् अध्ययनानि उक्तानि । तानि साम्प्रतम् “उत्तराध्ययन” इति नाम्ना प्रसिद्धम् अस्ति । भगवता महावीरेण षोडशप्रहरात्मकं प्रवचनं कृतम् आसीत् [१८]

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् महावीरः चतुर्विधतीर्थस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा महावीरेण धार्मिकपरिवारस्य अपि रचना कृता[१९]

  1. ११ गणधराः
  2. ७०० केवलज्ञानिनः
  3. ५०० मनःपर्यवज्ञानिनः
  4. १,३०० अवधिज्ञानिनः
  5. ७०० अवैक्रियलब्धिधारिणः
  6. ३०० चतुर्दशपूर्विणः
  7. ४०० चर्चावादिनः
  8. १४,००० साधवः
  9. ३६,००० साध्व्यः
  10. १,५९,००० श्रावकाः
  11. ३,१८,००० श्राविकाः

अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “गौतम-इन्द्रभूतिः” इत्याख्यः प्रथमः गणधरः आसीत् ।

एकादश गणधराःसम्पाद्यताम्

भगवतः महावीरस्य धार्मिकपरिवारे एकादश (११) गणधराः सन्ति [१५]। ते -

  1. गौतम-इन्द्रभूतिः = अस्य ५०० शिष्याः आसन् । “आत्मनः अस्तित्वम्” मिति इन्द्रभूतेः शङ्का आसीत् ।
  2. अग्निभूतिः = अस्य ५०० शिष्याः आसन् । “पुरुषाद्वैतम्” इति अग्निभूतेः शङ्का आसीत् ।
  3. वायुभूतिः = अस्य ५०० शिष्याः आसन् । “तज्जीवं, तच्छरीरवादश्च” इति वायुभूतेः शङ्का आसीत् ।
  4. व्यक्तः = अस्य ५०० शिष्याः आसन् । “ब्रह्ममयं जगत्” इति व्यक्तस्य शङ्का आसीत् ।
  5. सुधर्मा = अस्य ५०० शिष्याः आसन् । “जन्मान्तरम्” इति सुधर्मणः शङ्का आसीत् ।
  6. मण्डितः = अस्य ३५० शिष्याः आसन् । “आत्मनः संसारित्वम्” इति मण्डितस्य शङ्का आसीत् ।
  7. मौर्यपुत्रः = अस्य ३५० शिष्याः आसन् । “देवः, देवलोकश्च” इति मौर्यपुत्रस्य शङ्का आसीत् ।
  8. अकम्पितः = अस्य ३०० शिष्याः आसन् । “नरकं, नारकीयः जीवश्च” इति अकम्पितस्य शङ्का आसीत् ।
  9. अचलभ्राता = अस्य ३०० शिष्याः आसन् । “पुण्यं, पापं च” इति अचलभ्रातुः शङ्का आसीत् ।
  10. मेतार्यः = अस्य ३०० शिष्याः आसन् । “पुनर्जन्म” इति मेतार्यस्य शङ्का आसीत् ।
  11. प्रभासः = अस्य ३०० शिष्याः आसन् । “मुक्तिः” इति प्रभासस्य शङ्का आसीत् ।

इन्द्रस्य आयुष्यप्रार्थनासम्पाद्यताम्

भगवतः निर्वाणसमयः समीपे आसीत् । भगवतः समीपे सर्वे जनाः, देवाः च आसन् । तदा इन्द्रेण पृष्टं यत् – “भवतः जन्मकाले उत्तराफाल्गुनी-नक्षत्रम् आसीत् । तस्य उपरि इदानीं भस्मग्रहसङ्क्रान्तः भविष्यति । सः सङ्क्रान्तः भवतः जन्मनक्षत्रे द्विसहस्रं वर्षाणि यावत् भविष्यति । अतः भवान् स्वस्य आयुष्यकालं वर्धयतु । तेन तस्य सङ्क्रान्तस्य प्रभावः न भविष्यति” ।

भगवता उक्तं यत् – “इन्द्र ! न कोऽपि आयुष्यं वर्धयितुम् अल्पीकर्तुं वा शक्नोति । ग्रहाः, नक्षत्राणि च केवलं सूचकानि भवन्ति” । अनेन प्रकारेण भगवता इन्द्रस्य शङ्कासमाधानं कृतम् [२०]

निर्वाणम्सम्पाद्यताम्

भगवान् महावीरः त्रिकालज्ञानी आसीत् । अतः पूर्वमेव तस्मै निर्वाणसमयस्य ज्ञानम् अभवत् । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।

आश्विन-मासस्य कृष्णपक्षस्य अमावस्यां तिथौ स्वाति-नक्षत्रे पावापुरी-नामके नगरे भगवतः महावीरस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [२१]

महावीरेण कौमारावस्थायां त्रिंशद्वर्षाणां, दीक्षायां द्वाचत्वारिंशद्वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने द्विसप्ततिवर्षाणि भुक्तानि आसन् ।

पार्श्वनाथस्य निर्वाणानन्तरं सार्धद्विशतं वर्षाण्यनन्तरं भगवतः महावीरस्य मोक्षः अभवत् ।

गौतम-इन्द्रभूतेः केवलज्ञानम्सम्पाद्यताम्

भगवतः निर्वाणस्य चर्चा सर्वत्र भवन्ती आसीत् । तां चर्चां श्रुत्वा इन्द्रभूतये भगवतः महावीरस्य निर्वाणस्य ज्ञानम् अभवत् । इन्द्रभूतिः त्वरितमेव पावापुरी-नगरं प्राप्तवान् । भगवतः पार्थिवं शरीरं दृष्ट्वा इन्द्रभूतिः मूर्च्छितो जातः । किञ्चित्क्षणानन्तरं यदा तेन चैतन्यं प्राप्तं, तदा सः विललाप । सः भगवतः विषये विचारं कुर्वन् आसीत् । तदा तस्मिन् क्षणे एव इन्द्रभूतिना कैवल्यज्ञानं प्रापत् ।

भगवतः महावीरस्य निर्वाणं, इन्द्रभूतेः कैवल्यज्ञानं च एकस्मिन् दिवसे (आश्विन कृष्ण अमावस्या) एव अभवत् । अतः जैनधर्मे आश्विन-मासस्य कृष्णपक्षस्य अमावस्या तिथिः ऐतिहासिकपर्वत्वेन मन्यते आचर्यते च ।

अग्निसंस्कारःसम्पाद्यताम्

भगवतः निर्वाणसमये देवाः, इन्द्राः, सहस्राधिकजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा भगवतः शरीरस्य अग्निसंस्कारः कृतः आसीत् । पावापुरी-नगरस्य राज्ञा हस्तिपालेन कार्यक्रमस्य विशेषव्यवस्था कृता । कार्यक्रमे उपस्थितानाम् अतिथीनां व्यवस्था अपि हस्तिपालेन एव कृता आसीत् । देवगणाः अपि विभिन्नासु व्यवस्थासु संलग्नाः आसन् । भगवतः महावीरस्य अग्निसंस्कारानन्तरं जनाः भगवतः उपदेशान् संस्मृत्य गृहं गतवन्तः । यदा भगवतः निर्वाणम् अभवत्, तदा चतुर्थयुगस्य आरम्भाय सार्धाष्टमासोत्तरत्रिवर्षाणि एव अवशिष्टानि आसन्[२२]

जैनतीर्थङ्कराः
  पूर्वतनः
पार्श्वनाथः
महावीरः अग्रिमः
 

 सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३७
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९२
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १६४
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९१
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७८-१८९
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९३
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९४
  8. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९४-१९५
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९७
  10. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९७-२१५
  11. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१५
  12. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१६
  13. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३३-२३५
  14. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३३
  15. १५.० १५.१ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१८
  16. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१९-२३०
  17. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २२८-२२९
  18. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३०
  19. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३६
  20. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३१
  21. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. २४४
  22. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३२
"https://sa.wikipedia.org/w/index.php?title=महावीरः&oldid=321877" इत्यस्माद् पुनः प्राप्तिः