ज्ञानी जैल सिंह
श्रीज्ञानी जैल सिंह ( ( शृणु) /ˈdʒŋɑːniː dʒɛɪlə sɪnɡə/) (पञ्जाबी: ਗਿਆਨੀ ਜ਼ੈਲ ਸਿੰਘ, हिन्दी: ज्ञानी जैल सिंह, आङ्ग्ल: Gaini Zail Singh) भारतस्य सप्तमः राष्ट्रपतिः । अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैल सिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।) सः देशभक्तः, धार्मिकसिक्ख-जनः, योग्यराष्ट्रपतिः च आसीत् ।
ज्ञानी जैल सिंह ਗਿਆਨੀ ਜ਼ੈਲ ਸਿੰਘ Gaini Zail Singh | |
---|---|
भारतस्य सप्तमः राष्ट्रपतिः | |
कार्यालये २५/७/१९८२ – २५/७/१९८७ | |
प्रधानमन्त्री | इन्दिरा गान्धी राजीव गान्धी |
उपराष्ट्रपतिः | मुहम्मद हिदायतुल्लाह श्रीरामस्वामी वेङ्कटरामन् |
पूर्वगमः | श्रीनीलं सञ्जीव रेड्डि |
पादानुध्यातः | श्रीरामस्वामी वेङ्कटरामन् |
गृहमन्त्रालयः | |
कार्यालये १४/१/१९८० – २२/६/१९८२ | |
प्रधानमन्त्री | इन्दिरा गान्धी |
पूर्वगमः | यशवन्त राव चव्हाण |
पादानुध्यातः | श्रीरामस्वामी वेङ्कटरामन् |
दलनिरपेक्षान्दोलनस्य सचिवः | |
कार्यालये १२/३/१९८३ – ६/९/१९८६ | |
पूर्वगमः | फिडल् केस्ट्रो |
पादानुध्यातः | रॉबर्ट् मुगाबे |
व्यक्तिगत विचाराः | |
जननम् | ५/५/१९१६ सन्धवान-ग्रामः, पञ्जाबराज्यम् |
मरणम् | २५/१२/१९८४ (७९ वयसि) चण्डीगढ, भारतम् |
राजनैतिकपक्षः | कॉङ्ग्रेस् |
मुख्यशिक्षणम् | साहिब सिंह मिशनरि कॉलेज् |
धर्मः | सिक्खधर्मः |
जन्म, बाल्यञ्च
सम्पादयतु१९१६ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९१६) दिनाङ्के पञ्जाबराज्यस्य फरीदकोटमण्डलस्य कोटपुरा-पत्तनात् किञ्चित् दूरस्थे सन्धवान-ग्रामे श्रीज्ञानिनः जन्म अभवत् । तस्य पितुः, मातुः च नाम क्रमेण किशन सिंह, बीबी इन्द कौर च आसीत् । तयोः कनिष्ठतमः पुत्रः एव श्रीज्ञानी जैल सिंह ।
किशन सिंह अत्यन्तः निर्धनः आसीत् । अतः स्वपरिवारस्य पोषणं सः परिश्रमेण करोति स्म । श्रीज्ञानी यदा एकादशमासीयः आसीत्, तदैव तस्य मातुः देहान्तः अभवत् । परिवारस्य स्थितिः सुदृढा नासीत् इत्यतः पत्न्याः निधनेन सम्पूर्णस्य परिवारस्य दायित्वं किशन सिंह इत्यस्योपरि आपतितम् । सः कृषिकार्यस्य, परिवारस्य च दायित्वं ओढुं प्रयासम् अकरोत्, परन्तु असफलः अभवत् । अन्ततो गत्वा सः स्वश्यालीं (wife’s sister) स्वपुत्रस्य पालनार्थं न्यवेदयत् । तस्य श्याली बीबी दया कौर श्रीज्ञानिनः पालनस्य दायित्वं स्व्यकरोत् । सा तं पुत्रवदेव पालयन्ती आसीत् । पञ्चदशवर्षवयसः पर्यन्तं श्रीज्ञानी स्वमातृभगिनीम् एव मातृत्वेन पश्यति स्म । ततः तस्य ज्ञानमभूत् यत्, "एषा तु मम मातृभगिनी" इति ।
किशन सिंह धार्मिकस्वभावी आसीत् । सः नित्यं गुरुग्रन्थसाहिब पठति स्म । तस्य संस्काराः तस्य पुत्रे अपि आसन् । गुरुग्रन्थसाहिब अनुसारं मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरुग्रन्थसाहिब इत्यस्य मर्मं श्रीज्ञानी बाल्यकालादेव जानाति स्म । सिक्खगुरूणां जीवनचरित्रस्य श्रावणकाले गुरून् प्रति आदरभावेन तस्य पितुः अक्षिणि अश्रूणि दृष्ट्वा श्रीज्ञानी अपि धर्मस्य दायित्वं सम्यक् अवगच्छति स्म । पितुः धर्मभावना, देशभक्तिः श्रीज्ञानिनः शरीरे रक्तत्वेन सञ्चरति स्म ।
पठने श्रीज्ञानिनः रुचिः नासीत् । अतः बाल्यकाले श्रीज्ञानिनः औपचारिकशिक्षा तु सम्यग्तया न जाता एव । परन्तु पितुः धर्मशिक्षा तेन सम्यक् अधीता । सः नित्यं स्वपित्रा सह गुरुग्रन्थसाहिब इत्यस्य पठनम् आरभत । स्वल्पे काले एव गुरुग्रन्थसाहिब-पुस्तकं कण्ठस्थं जातं तस्य । पित्रा सह सोऽपि कीर्तनं प्रारभत । पितुः सान्निध्ये तेन सिक्खसम्प्रदायस्य इतिहासः, सिक्खसिद्धान्तश्च अधीतः । अतः तस्य औपचारिकशिक्षणस्य अभावः न केनापि अनुभूतः ।
१९२७ तमे वर्षे द्वादशवर्षीयः श्रीज्ञानी केनचित् आत्मघातिरोगेण ग्रस्तः अभवत् । कोऽपि वैद्यः तं रोगमुक्तं कर्तुं न शक्तः । एकस्मिन् दिने वैद्यः तस्य पितरम् अवदत्, “अहं यावत् कर्तुं शक्नोमि स्म, तावदमहम् अकर्वम् । परन्तु अधुना मम हस्ते किमपि नास्ति” इति । वैद्यस्य गमनानन्तरं किशन सिंह गुरुग्रन्थसाहिब इत्यस्य समीपम् उपविश्य प्रार्थयत्, “हे वाहे गुरो ! मम पुत्रं रक्षस्व । मम पुत्रस्य रक्षा यदि करोषि, तर्हि तं तुभ्यमेव समर्पयिष्ये इति प्रतिज्ञां करोम्यहम्” । आर्तभावेन तेन कृता ईश्वरप्रार्थना भगवता श्रुता । श्रीज्ञानी स्वस्थः अभवत् । ततः तस्य पिता वचनानुसारं तं भजन-कीर्तन-सेवादिकार्येषु न्ययोजयत् । शनैः शनैः श्रीज्ञानिनः धर्मस्य ज्ञानम् एतावत् दृढम् अभूत् यत्, सर्वे तस्मै ज्ञानी इति उपाधिम् अयच्छन् । सः यदा चतुर्दशवर्षीयः आसीत्, तदारभ्य ज्ञानी इति उपाधिना सह एव तम् आह्वयन्ति स्म जनाः ।
विवाहः, परिवारश्च
सम्पादयतुश्रीज्ञानी ग्रामं ग्रामं भ्रमन् कीर्तन-गुरुचरित्रकथन-सेवादिकार्याणि करोति स्म । तेन सह बहूनि धर्मप्रियाणि मित्राणि अपि संलग्नानि आसन् । यत्र कुत्रापि कीर्तनं भवति स्म, तत्र सर्वाणि मित्राणि एकसाकमेव गच्छन्ति स्म । मार्गे धर्मस्य, देशस्य च चर्चाः अपि भवन्ति स्म । १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोदशे (२३/३/१९३१) दिनाङ्के यदा भगत सिंह इत्यस्य हननं कृतम् आङ्ग्लैः, तदा सर्वैः मित्रैः "क्रान्तिकारिभिः मिलित्वा देशस्वतन्त्रतायाः कार्यं कर्तव्यम्" इति निश्चितम् । परन्तु श्रीज्ञानिनः आयुः न्यूनः आसीत् । अतः क्रान्तिकारिणां दले सः अन्तर्भवनाय अयोग्यः सिद्धः । क्रान्तिकारिणां दले पुत्रस्य रुचिः उद्भूता इति समाचारान् अश्रृणोत् किशन सिंह । पुत्रस्य निर्णयं ज्ञात्वा श्रीज्ञानिनः पिता तस्य विवाहस्य निर्णयम् अकरोत् । श्रीज्ञानी यदा पञ्चवर्षीयः आसीत्, तदैव तस्य विवाहः बीबी प्रधान कौर इत्यनया सह निश्चितः आसीत् । युवा श्रीज्ञानी बाल्यकाले निश्चितं तं विवाहं न अङ्ग्यकरोत् । परन्तु मातृभगिनी वात्सल्येन तम् अबोधयत् । ततः १९३४ तमे वर्षे अष्टादशवर्षस्य वयसि सः बीबी प्रधान कौर इत्यनया सह विवाहम् अकरोत् । तयोः चत्वारः शिशवः जाताः । एकः पुत्रः, त्रिस्रः पुत्र्यः च ।
स्वातन्त्र्यसङ्ग्रामे श्रीज्ञानी
सम्पादयतुआदरणीयानाम् आग्रहेण श्रीज्ञानिना विवाहस्तु कृतः, परन्तु देशस्वतन्त्रतायाः विचाराः तस्य मानसपटलात् न गताः । भारतस्य पराधीनता तम् अशान्तं, क्षुब्धं च करोति स्म । तस्य दुःखे वर्धनं तु तदा भवति स्म, यदा देशस्य जनाः एव आङ्ग्लानां साहाय्यं कुर्वन्तः आसन् इति सः पश्यति स्म । पारिवारिकबन्धनात् बद्धः सः आङ्ग्लविरोधाय क्रान्तिकारिवत् कार्यं कर्तुं न शक्नोति स्म । परन्तु तस्य पार्श्वे धर्मस्य शक्तिः तु आसीदेव । सः यत्र कुत्रापि कीर्तनाय गच्छति स्म, तत्र देशस्वतन्त्रतायै जनजागृतिं करोति स्म । फरीदकोट-पत्तनस्य राजा दमनकारी आसीत् । सः आङ्ग्लानां साहाय्यं कुर्वन् देशजनान् एव पीडयति स्म । अतः श्रीज्ञानी मुहुर्मुहुः जनसामान्यानाम् आह्वानम् अकरोत् । सः स्वभाषणे फरीदकोट इत्यस्य राज्ञः, आङ्ग्लानां च विरोधं कर्तुं जनसामान्यान् अबोधयत् । तस्य भाषणं श्रोतुं बहवः जनाः गच्छन्ति स्म । तत् दृष्ट्वा एकेन देशभक्तेन "अकाली-दलस्य सदस्यः भवतु" इति परामर्शः तस्मै दत्तः । अतः १९३७ तमे वर्षे सः अकाली-दलस्य सदस्यः अभवत् ।
श्रीज्ञानिनः भाषणैः प्रभाविताः अकाली-दलस्य सदस्याः तस्मै अध्यक्षस्य स्थानम् अयच्छन् । अकाली-दलस्य मुख्यवक्तिः तदा मास्टर् तारा सिंह आसीत् । तस्य सम्पर्केण श्रीज्ञानिनः बोधः जातः यत्, “देशेऽस्मिन् राजशासनस्य अन्तः करणीयश्चेत् कोङ्ग्रेस-पक्षस्य सदस्यः भवितव्यम्” इति । अकालीदलस्य, कोङ्ग्रेसपक्षस्य च सदस्यो भूत्वा सः नित्यम् एकम् आङ्ग्लविरोधिभाषणं करोति स्म । तस्य भाषणे आङ्ग्लविरोधेन सह राजशासनस्य विरोधः अपि भवति स्म । श्रीज्ञानिनः भाषणैः भीतः फरीदकोट इत्यस्य राजा तं बन्दिनम् अकरोत् । सः श्रीज्ञानिने पञ्चवर्षं यावत् कारावासस्य दण्डम् अयच्छत् ।
पञ्चवर्षानन्तरम् अर्थात् १९४३ तमे वर्षे श्रीज्ञानी कारागारात् मुक्तः अभवत् । सः यदा कारागारात् बहिः आगतः, तदा देशे भारतस्वतन्त्रतायाः वातावरणमासीत् । महात्मना “भारत छोडो”-आन्दोलनस्य घोषणा कृता आसीत् । सर्वेषाम् अक्षिणि भारतस्वतन्त्रतायाः स्वप्नः आसीत् । परन्तु आङ्ग्लैः राजशासितेभ्यः प्रदेशेभ्यः क्रान्तिकारिदमनस्य आज्ञा दत्ता आसीत् । अतः श्रीज्ञानी दलं निर्मितुम् अशक्तः अभवत् । सः अन्यजनानां साहाय्यं प्राप्तुं लाहोर-महानगरम् अगच्छत् । तदा तस्य पुरातनेन मार्गदर्शकेन मास्टर् तारा सिंह इत्यनेन सह तस्य पुनः सम्पर्कः अभवत् । सः सिक्ख मिशनरी कॉलज् इत्यस्य प्रधानाचार्यस्य समीपं श्रीज्ञानिनं प्रैषयत् । तत्र श्रीज्ञानी वर्षत्रयं यावत् स्थित्वा सिक्खसम्प्रदायस्य प्रचारस्य कार्यम् अकरोत् ।
१९४६ तमे वर्षे भारतस्य स्वतन्त्रतायाः दिनस्य यदा घोषणा अभवत्, तदा श्रीज्ञानी पुनः फरीदकोट अगच्छत् । सः तत्र लोकहितकारिसर्वकाररचनायाः सङ्कल्पम् अकरोत् । तस्य सङ्कल्पस्य जनाः स्वागतम् अकुर्वन् । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतस्य स्वतन्त्रतानन्तरमपि राजशासितप्रदेशाः क्रान्तिकारिणां दमनं नास्थगयन् । राज्ञः अत्याचारैः त्रस्तः श्रीज्ञानी अभूतपूर्वं निर्णयम् अकरोत् । १९४८ तमस्य वर्षस्य 'मार्च'-मासस्य प्रथमे दिनाङ्के फरीदकोट इत्यस्य न्यायालय-कोषागार-सचिवालय-आरक्षकभवनानि जनाधिकारे कर्तुं तानि भवनानि स्वस्य अधिकारे अनयत् सः । फरीदकोट इत्यस्य राजा तदा मलेरकोटला इत्येतत् स्थलं गतः आसीत् । ततः प्रतिगत्वा सः पुनः सर्वं स्वाधिकारम् अकरोत्, श्रीज्ञानिने च सश्रमकारागारस्य दण्डम् अयच्छत् । लोहपुरुष-नेहरू इत्यनयोः हस्तक्षेपेण विंशतिदिनानन्तरमेव राजा श्रीज्ञानिनं कारागारात् प्रामुञ्चयत् । ततः लोहपुरुषस्य सत्प्रयासैः १९४८ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्ये फरीदकोट विलीनम् अभवत् ।
भारतस्वतन्त्रतानन्तरं श्रीज्ञानी
सम्पादयतुसर्वेषां हृदि भारतस्वतन्त्रतायाः उल्लासः आसीत् । परन्तु देशविभाजनेन सः उल्लासः शोके परिवर्तितः । धर्माधारितेन देशविभाजनेन देशस्य प्रशासनिकव्यवस्था शिथिला अभवत् । आभारते अराजकतायाः वातावरणमासीत् । परन्तु सीमाप्रदेशत्वात् पञ्जाबराज्ये अराजकता अधिका आसीत् । पाकिस्थानात् भारतम् आगच्छन्तः जनाः पञ्जाबराज्ये एव निवसन्ति स्म । पञ्जाबराज्यस्य समस्यां निराकर्तुं भारतसर्वकारेण ‘पेप्सू’-नामकस्य (पेप्सू (PEPSU) – पटियाला एण्ड ईस्ट पञ्जाब स्टेट्स यूनियन्) राज्यस्य रचना कृता । तस्य राज्यस्य मुख्यमन्त्री ज्ञान सिंह रारेवाला आसीत् । परन्तु भारतसर्वकारेण महत्वपूर्णस्य 'राजस्व'-मन्त्रालयस्य दायित्वं श्रीज्ञानिने प्रदत्तम् । ततः तत् पेप्सू-राज्यं पञ्जाबराज्ये अन्तर्निहितं सर्वकारेण । ततः १९५१ तमे वर्षे पञ्जाबराज्ये कोङ्गेस-पक्षस्य सर्वकारस्य रचना अभवत् । तस्मिन् सर्वकारे श्रीज्ञानी कृषिमन्त्री आसीत् । १९५६ तमे वर्षे राज्यसभायाः सदस्यत्वं सम्प्राप्य श्रीज्ञानी देहली-महानगरे स्वनिवासं निश्चितम् अकरोत् । १९६२ वर्षपर्यन्तं देहली-महानगरे स्थित्वापि सः पञ्जाबराज्यस्य विकासार्थम् अविरतं प्रयत्नशीलः आसीत् । १९६० तः १९७२ पर्यन्तं सः पञ्जाबराज्यस्य विभिन्नेषु स्थानेषु कार्यम् अकरोत् । १९७२ तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे (१७/३/१९७२) दिनाङ्के सः पञ्जाबराज्यस्य मुख्यमन्त्रिपदं व्यभूषयत् ।
मुख्यमन्त्रित्वेन श्रीज्ञानी
सम्पादयतुयदा श्रीज्ञानी पञ्जाबराज्यस्य मुख्यमन्त्री आसीत्, तदा पञ्जाबराज्यस्य औद्योगिकप्रगतिः अवर्धत । तस्य कार्यकालः कृषिक्षेत्रे हरितक्रान्तेः (green revolution) कालः आसीत् । भारतस्वतन्त्रतासङ्ग्रामे ये क्रान्तिकारिणः भागम् अवहन्, तेषां गृहं गत्वा तेषां सम्मानम् अकरोत् सः । भारतस्वतन्त्रतासङ्ग्रामाय ये क्रान्तिकारिणः स्वप्राणाहुतिम् अयच्छन्, तेषां परिवारेभ्यः योग्यधनराशिः प्रदत्ता तेन । सिक्खसम्प्रदायं प्रति स्वादरं प्रकटयितुं पञ्जाबराज्ये गोविन्द सिंह-मार्गस्य निर्माणं कारितं तेन । सः गोविन्द सिंह-मार्गः पञ्जाबराज्यस्य नवतिः (९०) पवित्रधामानि योजयति । सः मार्गः त्रिशताधिकद्वात्रिंशत् (३३२) ग्रामान् अपि योजयति । सिक्खसम्प्रदायस्य द्वे अत्यन्तपवित्रस्थाने अर्थात् आनन्दपुरे स्थितं श्रीकेशगढ-गुरुद्वारं (तत्र श्रीगुरु गोविन्द सिंह इत्यनेन खालसा-सम्प्रदायस्य स्थापना कृता आसीत् ।) दमदमा-गुरुद्वारं च योजयति सः मार्गः ।
राष्ट्रपतिप्रत्याशी श्रीज्ञानी
सम्पादयतु१९८० तमे वर्षे भारतस्य गृहमन्त्रिपदं व्यभूषयत् सः । परन्तु गृहमन्त्रित्वेन सः वर्षद्वयम् एव कार्यम् अकरोत् । १९८२ तमे वर्षे श्रीनीलं सञ्जीव रेड्डि इत्यस्य राष्ट्रपतित्वेन कार्यकालः पूर्णः अभवत् । अतः तत्कालीनः प्रधामन्त्री इन्दिरा गान्धी स्वपक्षस्य राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । तस्याः उद्देशः स्पष्टः आसीत् यत्, “अल्पसङ्ख्यकसिक्खजनेषु यदि कोऽपि राष्ट्रपतिः भविष्यति, तर्हि पक्षस्य मतसङ्ख्यायां वृद्धिः भविष्यति” इति । एवं विचिन्त्य सा राष्ट्रपतिप्रत्याशित्वेन श्रीज्ञानिनः नाम औद्घोषयत् । ततः श्रीज्ञानी गृहमन्त्रिपदस्य त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । श्रीज्ञानिनः नामोद्घोषानन्तरं विपक्षेणापि हंसराज खन्ना-नामकः राष्ट्रपतिप्रत्याशित्वेन घोषितः । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चदशे (१५/७/१९८२) दिनाङ्के राष्ट्रपतिनिर्वाचने श्रीज्ञानी पादोनपञ्चलक्षमतैः विजयी अभवत् । १९८२ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के उच्चतमन्यायालयस्य मुख्यन्यायाधीशः श्री वी. वी. चन्द्रचूड श्रीज्ञानिना राष्ट्रपतित्वेन शपथम् अकारयत् । एवं श्रीज्ञानी भारतगणराज्यस्य सप्तमः राष्ट्रपतिः अभवत् ।
राष्ट्रपतित्वेन श्रीज्ञीनी
सम्पादयतुकर्मनिष्ठया, ईश्वरस्योपरि श्रद्धया, व्यावहारिकज्ञानेन च लघुकुटीरे प्राप्तजन्मः श्रीज्ञानी भारतगणराज्यस्य सर्वोच्चसांविधानिकपदे आरूढः । सः भारतगणराज्यस्य उत्कृष्टतमेषु भवनेषु अन्यतमे राष्ट्रपतिभवने न्यवसत् । राष्ट्रपतित्वेन वर्षद्वयमेव सः शान्त्या कार्यम् अकरोत् । ततः श्रीज्ञानिनः राष्ट्रपतित्वेन वर्षत्रयस्य कार्यकालस्य जनसामान्यैः, राजनीतिज्ञैः च कठोरनिन्दा कृता अस्ति ।
पृष्ठभूमिः
सम्पादयतुराजनैतिकस्वार्थेन ग्रस्ताः नेतारः देशद्रोहिनाम्, उत्कोचकानाम्, आतङ्कवादिनाञ्च साहाय्येन स्वसत्तायाः रक्षणं, वर्धनं च साधयन्ति इत्यस्य प्रमुखोदाहरणत्वेन 'ऑपरेशन् ब्लू स्टार्', सिक्खविरोधिहिंसा च अस्ति । पञ्जाबराज्ये अकालीदलस्य वर्चस्वम् आसीत् । कोङ्ग्रेस-पक्षस्य विजयस्य आशा अपि नासीत् । तस्मिन् काले कोङ्ग्रेस-सर्वकारेण यः व्यक्तिः अकालीदलविरुद्धं कोङ्ग्रस-पक्षाय मतवृद्धिं कर्तुं शक्नुयात्, तादृशस्य व्यक्तेः अन्वेषणं प्रारब्धम् । अकालीदलस्य विरोधी भिण्डरवाला इत्यस्य व्यक्तेः परिचयः अभवत् तेषाम् । पञ्जाबराज्ये कोङ्ग्रेस-पक्षः भिण्डरवाला इत्यस्य समर्थनं करोति चेत्, कोङ्ग्रेस-पक्षस्य विजयः भवति इति आशा आसीत् । अतः इन्दिरा गान्धी राजनैतिकरीत्या, आर्थिकरीत्या च भिण्डरवाला इत्यस्य समर्थनम् अकरोत् । पञ्जाबराज्यस्य निर्वाचने भिण्डरवाला बहुमतेन अजयत । सः जानाति स्म यत्, “मम पृष्ठे यावत् इन्दिरा गान्धी अस्ति, तावत् मम कोऽपि अहितं कर्तुं न शक्ष्यति” इति । अतः सः स्वस्य महत्वाकाक्षां पूरयितुम् असांविधानिककार्याणि, सिक्खसम्प्रदायविरोधीनि कार्याणि च प्रारभत । मुगल-राज्ञाम् अत्याचारात् हिन्दुधर्मस्य रक्षणं कर्तुं खालसासम्प्रदायस्य स्थापना अभवत् इति गुरु ग्रन्थ साहिब इत्यस्य मर्मं सः व्यस्मरत् । भारतगणराज्यात् पञ्जाबराज्यं भिन्नं, हिन्दुधर्मात् सिक्खजनाः भिन्नाः इति सः प्रचारं प्रारभत । 'खलिस्थान' इति भिन्नस्य राष्ट्रस्य सः घोषणाम् अकरोत् ।
इन्दिरा गान्धी इत्यनया या धनराशिः भिण्डरवाला इत्यनेन प्राप्ता आसीत्, तस्याः धनराशेः उपयोगः सः आयुधक्रयणाय, आतङ्कवादिदलं निर्मितुं च अकरोत् । सायुधं गुरुद्वारप्रवेशे निषेधः अस्ति । सिक्खसम्प्रदायस्य कृते कार्यं कुर्वन् अस्मि इति मिथ्या आडम्बरं कुर्वन् भिण्डरवाला धर्मविरोधी, राष्ट्रविरोधी च कार्यम् अकरोत् । सः आयुधानि गुरुद्वारस्य पवित्रे परिसरे गौपयत् । तस्मिन् परिसरे अनेकाः आतङ्कवादिनः अपि आसन् । पञ्जाबराज्यस्य जनाः भिण्डरवाला इत्यस्य बहुविरोधम् अकुर्वन् । परन्तु ये केऽपि तस्य सम्मुखं विरोधं प्रादर्शयन्, तान् सर्वान् सः अमारयत् । पञ्जाबराज्यस्य अत्यन्तहिंसकवातावरणस्य सूचना केन्द्रसर्वकारेण प्राप्ता । केन्द्रसर्वकारस्य अनेकैः जनैः तस्य एतादृशस्य दुःसाहसस्य कृते साम-दान-भेदादीनाम् उपयोगः कृतः । परन्तु केन्द्रात् प्राप्तसंरक्षणः सः केन्द्रसर्वकारमेव युद्धाय आह्वयन् आसीत् । बहवः नेतारः, समाचारपत्रस्य सम्पादकाः, धर्मगुरवः तं मिलित्वा "देशद्रोहम्, अधर्माचरणं च मा कुरु" इति अबोधयन् । परन्तु सः न कस्यापि कथनम् अङ्ग्यकरोत् । अन्ततो गत्वा इन्दिरा गान्धी आतङ्कवादशमनार्थं सैन्यस्य साहाय्यं स्वयकरोत् । सैन्यबलं गुरुद्वारस्य पवित्रपरिसरं प्रविश्य आतङ्कवादिनः मारयेयुः इति आदेशः इन्दिरा गान्धी इत्यनया दत्तः । सैन्यबलेन गुरुद्वारे स्थितानाम् आतङ्कवादिनाम् उन्मूलनं कर्तुम् एका योजना कृता । तस्याः योजनायाः नाम आसीत् ‘ऑपरेशन् ब्लू स्टार्’ इति । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्वयकरोत् । (प्रमाणं नास्ति ।)
१९८४ तमस्य वर्षस्य 'जून'-मासस्य तृतीये (३/६/१९८४) दिनाङ्के ‘ऑपरेशन् ब्लू स्टार्’ इति योजनायाः प्रारम्भः अभवत् । षड् दिनानि यावत् अर्थात् अष्टम(८)दिनाङ्कपर्यन्तं भारतीयसैन्यस्य, गुरुद्वारे निगूढानां (hidden) आतङ्कवादिनां च मध्ये सशस्त्रयुद्धम् अभूत् । तस्मिन् युद्धे भारतीयसैन्येन शतघ्न्याः (cannon), युद्धविमानानां, रासायणिकशस्त्राणां चोपयोगः कृतः । ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्याः योजनायाः प्रमुखः कुलदीप सिंह बरार अकथयत्, “एतस्मिन् युद्धे दव्यशीतिः (८२) सैनिकाः स्वप्राणाहुतिम् अयच्छन्, विंशत्यधिकद्विशतं (२२०) सैनिकाः आहताः (injure) अभवन्, द्विनवत्यधिकचतुःशतं (४९२) नागरिकाः मृताश्च” इति । (परन्तु संशोधने सा सङ्ख्या पञ्चसहस्राधिका (५०००) इति सिद्धम् अभवत् ।) ।
भिण्डरवाला इत्यस्य मृत्योः अनन्तरम् एव समाप्ता ‘ऑपरेशन् ब्लू स्टार्’ इतीयं योजना । तस्याः योजनायाः समाप्त्या सह भिन्नराष्ट्रस्य 'खलि'स्थानस्य निराधारयाचना अपि मृता । परन्तु षड्दिनं यावत् सुवर्णमन्दिरे याः गोलिकाः अचलन्, ताभिः अकाल तख्त-नामकं गुरुद्वारस्य पवित्रस्थानं नष्टम्, अपवित्रं चाभवत् । तेन सिक्खसम्प्रदायस्य जनेषु बहुरोषः आसीत् । साप्रदायिकभावनायाः हननस्य, गुरुद्वारस्य पवित्रस्थलस्य नाशस्य च दण्डत्वेन इन्दिरा गान्धी इत्यस्याः हननं तस्याः सिक्ख-आरक्षकाभ्यां कृतम् । तौ आरक्षकौः त्रयस्त्रिंशत् (३३) गोलिकाः अचालयन् इन्दिरा गान्धी इत्यस्याः उपरि । तासु त्रयस्त्रिंशत् (३३) गोलिकासु त्रयोविंशतिः (२३) तस्याः शरीरं विभेद्य गताः, सप्त गोलिकाश्च (७) तस्याः शरीरे एव आसन् । १९८४ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के इन्दिरा गान्धी इत्यस्याः मृत्युः तस्याः निवासस्थाने एव अभवत् । तस्याः करुणहत्यानन्तरं देशे सिक्खविरोधिभावः उद्भूतः इति कथनमासीत् केन्द्रसर्वकारस्य । तस्य सिक्खविरोधिभावस्य फलमेवासीत् १९८४ तमस्य वर्षस्य सिक्खविरोधिनी साम्प्रदायिकहिंसा ।
‘ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै इन्दिरा गान्धी सैन्यबलस्य सेनापतेः अर्थात् राष्ट्रपतेः अङ्गीकारं स्व्यकरोत् इत्यस्य केन्द्रसर्वकारस्य कथनस्य खण्डनं कुर्वन्त्याः श्रीज्ञानिनः पुत्र्याः कथनमस्ति यत्, “‘ऑपरेशन् ब्लू स्टार्’ इत्येतस्यै योजनायै श्रीज्ञानी अनुमतिं नायच्छत् । तस्य तु ज्ञानमेव नासीत् एतादृश्याः योजनायाः विषये । श्रीज्ञानी तु धार्मिकः सिक्खानुयायी, देशभक्तः च आसीत् । सः एतादृश्याः योजनायाः कृते अनुमतिं सर्वथा नैव ददाति । योजनायाः आरम्भानन्तरमेव तेन ज्ञातम् योजनायाः विषये” इति । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
१९८४ तमस्य वर्षस्य सिक्खविरद्धहिंसायाम् अनेकाः सिक्खजनाः मृताः । आलोचकानां कथनमस्ति यत्, “जलियावाला-नरहत्याः अपि भयावहः आसीत्, १९८४ तमस्य वर्षस्य सिक्खविरोधिनरहत्या” इति । हिन्दुधर्मस्य रक्षणार्थं यस्य सम्प्रदायस्य स्थापना अभवत्, तस्य सम्प्रदायस्य जनानां हननं हिन्दुजनाः एव अकुर्वन् इति सत्तालोलुपाः नेतारः आक्षिपन् । परन्तु सत्यता तु भिन्ना एवासीत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
इन्दिरा गान्धी इत्यस्याः मृत्योः अनन्तरं तस्याः पुत्रः राजीव गान्धी भारतस्य प्रधानमन्त्री अभवत् । इन्दिरा गान्धी यस्मिन् दिने मृता, तस्मिन् दिने सायं सार्धपञ्चवादने एव सः प्रधानमन्त्रित्वेन शपथम् अकरोत् । भारतगणराज्यस्य सम्मानरक्षणस्य, प्रधामन्त्रिपदस्य गौरवस्य रक्षणस्य च शपथं श्रीज्ञानी एव अकारयत् । परन्तु तस्माद्दिनादेव देहली-महानगरे सिक्खजनानां निर्ममहननस्य प्रारभन्त । दिनत्रयं यावत् आरक्षकाः, सैनिकाः, व्यवस्थापकाश्च देहली-महानगरं हिंसकजनानां हस्ते अयच्छन् । तेषां क्रूराणां पार्श्वे मतदातॄणां सूचिः आसीत् । मतदातॄणां सूचिं पश्यन्तः ते हिंसकजनाः सिक्खजनानां गृहं प्रविश्य बाल-वृद्ध-महिलानां हननम् अकुर्वन् । या मतदातॄणां गुप्तसूचिः सर्वकारस्य पार्श्वे एव भवेत्, सा सूचिः तैः हिंसकजनैः कुतः प्राप्ता इत्यस्य आलोचकानां प्रश्नस्य अद्यापि उत्तरं न लभ्यते । तस्यां साम्प्रदायिकहिंसायां अष्टसहस्राधिकाः (८०००+) निर्दोषसिक्खजनाः मृताः इति सर्वकारेण उद्घोषितम् । परन्तु संशोधनेन देशस्य ज्ञानम् अभवत् यत्, “तस्यां हिंसायां त्रिसहस्राधिकानां (३०००+) जनानां हननं तु देहली-महानगरे एव अभवत्” इति ।
बहूनाम् आलोचकानां कथनमासीत् यत्, “सिक्खजनानां प्रतिनिधिः अर्थात् श्रीज्ञानी जैल सिंह भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सिक्खविरोधहिंसायाः विषये कमपि निर्णयं नाकरोत्” इति । परन्तु सत्यता भिन्ना एव आसीत् । राष्ट्रपतिः सेनात्रयस्य सेनापतिः अस्ति । परन्तु साक्षात् सः कमपि कस्मिंश्चित् कार्ये सल्लग्नयितुम्, अपाकर्तुं च न प्रभवति । सः हिंसायाः विषये बहुवारं प्रधामन्त्रिकार्यालयं दूरवाणीम् अकरोत् । परन्तु तस्य दूरवाण्याः उत्तरम् एव न कोऽपि अयच्छत् । दिनत्रयं तस्य मानसिकस्थितिः अतीव दयनीया आसीत् । भारतगणराज्यस्य सर्वोच्चसंविधानिकस्थाने स्थित्वापि सः असांविधानिकं कार्यं स्थगयितम् अशक्तः आसीत् । सिक्खविरोधहिंसासमये तस्य स्थितिः किदृशी आसीत् इत्यस्य वर्णनं तस्य पुत्री एकस्मिन् साक्षात्कारे अकरोत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।)
१९८४ तमस्य वर्षस्य हिंसायाः दोषिणः शिक्षां प्राप्नुयुः इति देहली उच्चन्यायलये एकः अभियोगः पीडितैः कृतः । देहली उच्चन्यायालयेन एतावता एकमेव उल्लेखनीयं वाक्यम् उक्तमस्ति यत् -
“ | Though we boast of being the world's largest democracy and Delhi being its national capital, the sheer mention of the incidents of 1984 anti-Sikh riots in general and the role played by Delhi Police and state machinery in particular makes our heads hang in shame in the eyes of the world polity. | ” |
ततः अद्यपर्यन्तम् अस्य अभियोगस्य कृते न्यायप्रक्रिया अग्रे नाभवत् । त्रिंशद्वर्षानन्तरम् २०१४ तमे वर्षे U.P.A. उपाध्यक्षेण राहुल गान्धी इत्यनेन अङ्गीकृतं यत्, “१९८४ तमस्य वर्षस्य सिक्खविरोधिहिंसायां कोङ्ग्रेसपक्षस्य तत्कालीनाः नेतारः सम्मिलिताः आसन्” इति । तस्य अङ्गीकरणानन्तरमपि दोषिणः शिक्षां न प्राप्नुवन् इति खेदस्य विषयः ।
श्रीज्ञानी ‘ऑपरेशन् ब्लू स्टार्’ इत्यनया योजनया, सिक्खविरोधिहिंसया च दुःखितः आसीत् । सः स्वस्य दुःखं पत्रमाध्यमेन राजीव गान्धी इत्यस्य सम्मुखं प्रकटम् अकरोत् । परन्तु स्वस्य पत्रस्य उत्तरं सः कदापि न प्रापत् । १९८७ तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के राष्ट्रपतित्वेन कार्यकालसमाप्त्यनन्तरम् उद्विग्नमनसा सः राष्ट्रपतिभवनम् अत्यजत् । परन्तु गमनकाले तस्य मुखे चिन्ता-शोक-क्रोधान् सर्वे सहसा अपश्यन् ।
मृत्युः
सम्पादयतुराष्ट्रपतिभवनात् निर्गत्य सः देहली-महानगरस्य सर्क्युलर्-मार्गस्थे स्वगृहे वासम् आरभत । सः राजनीतिक्षेत्रेऽपि सक्रियः आसीत् । परन्तु १९९४ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के मार्गदुर्घटनायां सः आहतः अभवत् । सप्तविंशतिदिनं यावत् सः मूर्च्छितः (in coma) आसीत् । ततः १९९४ तमस्य वर्षस्य 'दिसम्बर'-मासस्य पञ्चविंशतितमे दिनाङ्के तस्य मृत्युः अभवत् ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यानुबन्धाः
सम्पादयतुhttp://www.youtube.com/watch?v=OcgvFhED7cM
http://www.youtube.com/watch?v=YNsB85JNszQ
http://www.youtube.com/watch?v=Zb01XTXPfLg
http://www.youtube.com/watch?v=_iFSfvaCifs
http://www.youtube.com/watch?v=MZN5LrBtBrs
http://www.youtube.com/watch?v=_iFSfvaCifs