टि आर् अनन्तरामु
अनन्तरामु कर्णाटकस्य कश्चित् भूविज्ञानी, संशोधकः, परिशोधकः, समर्थः जनप्रियः च विज्ञानलेखकः, सम्पादकः च । अनेकासु साप्ताहिकमासिकपत्रिकासु अत्यन्तं विद्वत्पूर्णान् विचारपूर्णान् च लेखान् प्रकाशितवान् । ५० अधिकान् ग्रन्थान् रचितवन् । नीरसभूविज्ञानस्य विषयेषु अपि कौतूहलपूर्णं जनमानससुगमम् आकर्षकं लिखितवान् । एतादृशः वैज्ञानिकः लेखकः कन्नडभाषायां न सन्ति । कन्नडविश्वकोशः, ज्ञानविज्ञानकोशः, किरियरकर्णाटक, कर्णाटकसङ्गाति, कर्णाटककोशः, इत्यादयः प्रसिद्धाः ग्रन्थाः कर्णाटकभाषया अनेन लिखिताः । क्रि.श. २००९तमे वर्षे अगस्ट् मासस्य नवमे दिने अस्य अभिनन्दनकार्यक्रमः तुमकूरुनगरे वैभवेन समाचरितम् । ६०वयसः अस्य ५०ग्रन्थानां लोकार्पणमपि तद्दिने अभवत् । कर्णाटके कावेरीनदीविवादः उत्तुङ्गे वर्तमाने काले नद्याः पात्रम् आयामं च स्पष्टं विलिख्य लोकार्पितवान् ।
Tanjore Ramachandra Anantharaman | |
---|---|
जननम् |
November 25, 1927 Tanjore, Tamil Nadu, British India, |
मरणम् | १९, २००९ | (आयुः ८१)
नागरीकता | India |
देशीयता | Indian |
कार्यक्षेत्राणि | Metallurgy, Material Science and Engineering, |
संस्थाः |
Indian Institute of Science Banaras Hindu University Thapar Institute of Engineering and Technology |
मातृसंस्थाः |
Madras University Indian Institute of Science Oxford University |
प्रमुखाः प्रशस्तयः | Shanti Swarup Bhatnagar Prize (1967) |
धर्मः | Hindu |
जन्म गृहपरिसरः च
सम्पादयतुताळगुन्द रामण्णस्य पुत्रः अनन्तरामु क्रि.श. १९४९तमवर्षस्य अगस्टमासस्य तुमकूरुमण्डलस्य शिरोपमण्डलस्य ताळगुन्द इति ग्रामे अजायत । अध्ययानसक्ता माता वेङ्कटलक्ष्मम्मा बालस्य वेङ्करामस्य आदर्शव्यक्तिः । अध्ययने सा एव प्रेरणादायिनी । क्रि.श. १९७२तमे वर्षे मैसूरुविश्वविद्यालये भूविज्ञानविषयमधिकृत्य एम्.एस्सि पदवीं प्रथमश्रेण्या समुत्तीर्णः ।
वृत्तिजीवनम्
सम्पादयतु- क्रि.श. १९७२तः क्रि.श. १९७६पर्यन्तं बेङ्गळूरुमहानगरस्य सर्वकारिये विज्ञानमहाविद्यालये भूविज्ञानस्य प्राध्यापकाः ।
- दक्षिणकन्नडमण्डलस्य सुरत्कल् प्रदेशस्य प्रादेशिके अभियन्तृमाहाविद्यालये सेवाम् अकरोत् ।
- क्रि.श. १९७७तमे वर्षतः २००८पर्यन्तः बेङ्गळूरुमहानगरस्य भारतीयभूवैज्ञानिकसर्वेक्षणसंस्थायां सेवा ।
- राज्ये बहुत्र सञ्चरन् सुवर्णस्य निक्षेपस्य शोधम् अकरोत् ।
प्रशस्तयः
सम्पादयतु- गतत्रिशद्वर्षेभ्यः वैज्ञानिकविषयान् जनप्रियान् कर्तुं राज्यस्य विविधासु पत्रिकासु अष्टशताधिकान् लेखान् प्रकाशितवान् ।
- प्रकटितानि विज्ञानपुस्तकानि ५०
- हिमदसाम्राज्यदल्लि इति कृतेः क्रि.श. १९८५तमे वर्षे अत्युत्तमा विज्ञानकृतिः इति कर्णाटकसाहित्याकादमिपुरस्कारः प्राप्तः ।
- भूकम्पनगळु इति कृतेः रचनार्थं क्रि.श. १९९४तमे वर्षे आर्यभटप्रशस्तिः, कालगर्भस्य कीलिकै इति कृतिरचनार्थं क्रि.श. २०००तमे वर्षे गोरूरु रामस्वामिप्रशस्तिः च प्रदत्ता ।
- कर्तारनिगोन्दु किविमातु क्रि.श. २००३तमे वर्षे अत्युकृष्टा विज्ञानकृतिः इति कर्णाटकसाहित्याकदमी पुरस्कारः प्रदत्तः ।
- क्रि.शा. २००६तमे वर्षे विज्ञानशिक्षकेभ्यः अथवा संवाकेभ्यः दीयमाना कर्णाटकसर्वकारस्य वार्षिकप्रशस्तिः मौल्यगौरवप्रशस्तिः क्रि.श. २००६तमे वर्षे अनेन सम्पादिता ।
साहित्यानुष्ठाः
सम्पादयतु- सुभषप्रकाशनसंस्थया प्रकाशितायः विस्मयविज्ञानमालिके इति पत्रिकायाः प्रधानसम्पदकः अभवत् ।
- नवकर्णाटकसंस्थया प्रकाश्यमानस्य जज्ञानविज्ञानकोशस्य सहायकः सम्पादकः अभवत् ।
- नवकर्णाटकसंस्थया प्रकाश्यमानस्य पदविरणकोशस्य सहायकः सम्पादकः अभवत् । तस्य परिष्कृतकोशे क्रि.श. २००५तमे वर्षे विज्ञानलेखान् योजितवान् ।
- कन्नडाभिवृद्धिप्रधिकरेण प्रकाशितस्य कर्णाटकसङ्गाति इति परामर्शनग्रन्थार्थं भूविज्ञानविषस्य आकरलेखान् अकरोत् ।
- कन्नडविश्वविद्यालयस्य विज्ञानसङ्गाति इति मासपत्रिकायाः सम्पादकत्वं क्रि.श. २००२-०३काले निरूढवान् ।
- कन्नडविश्वविद्यालयेन प्रकाशितासु किरियरकर्णाटक, कर्णाटकज्ञानकोश इयादिषु पत्रिकासु लेखान् प्रकटितवान् ।
- कर्णाटकराज्यस्य विज्ञानपरिषदः प्रकाशनस्य बालविज्ञानम् इति मासपत्रिकायाः सम्पादकसमितेः सदस्यः अभवत् ।
- विज्ञानस्य आविष्कारविषये बेङ्गळूरुमहानगरस्य आकाशवाण्या क्रि.श. १९७२तः १००अधिकानि अस्य भाषणानि प्रसारितानि ।
- नवदेहलीनगरस्य न्याशनल् बुक् ट्रस्ट् आफ् इण्डिया इति संस्थायाः, सि.एस्.ऐ.आर्. संस्थायाः च विज्ञानपुस्तकानाम् अनुवादकर्यं कृतवान् ।
- डि.एस्.इ.आर्.टि. इति शालापाठ्यपुस्तकप्रकाशनसंस्थयाः शिलाविषयके साक्ष्यचित्रे साहाय्यः कृतः ।
- मैसूरुविश्वविद्यालयेन प्रकाशितस्य कन्नडविश्वकोशे भुविज्ञानलेखनानि अनेन लिखितानि ।
- उदय इति कन्नडस्वायत्तदूरदर्शनवाहिन्या अनेन निरूपितः सन्दर्शनकर्यक्रमः प्रसारितः ।
- ई टीवी इति कन्नडस्वायत्तदूरदर्शनवाहिन्या कडलतीरद भारगव इति उपाधियुतः शिवरामकारन्तः इति मालिकायां शिवरमकारन्तस्य विज्ञानसाहित्वविषये एषः भाषितवान् ।
- प्रसारभारत्याः चन्दन इति कन्नडवाहिन्यः विज्ञानकार्यक्रमेषु अस्य योगदानम् अस्ति ।
- कर्णाटकराज्य मैसूरुनगस्य भारतीयभाषाविज्ञानकेन्द्रेन (CICL) निर्मिते कर्णाटकमन्दाकिनी इति कार्यक्रममालिकायां भूविज्ञानस्य अद्भुतानां विषये साहित्यरचनं कृतवान् ।
- बेङ्गळूरुनगरस्य कन्नडगणकपरिषदा विवर्धितस्य मैसूरुविश्वविद्यालयस्य कन्नडविश्वकोशः इति सान्द्रमुद्रिकाकार्ये अस्य योगदानम् अस्ति ।
- अन्ताराष्ट्रिय भूग्रहवर्षाचरणावसरे क्रि.श. २००८-०९तमे काले राज्ये बहुत्र उपन्यासः ।
- कर्णाटकराज्य विज्ञानप्ररिषदः कार्यक्रमेषु मार्गदर्शनोपान्यासः विहिताः ।
- कन्नडभाषापुस्तकप्राधिकरस्य प्रकल्पे जे.डि.बर्नाल् इत्यस्य Science in History कृतेः अनुवादस्य प्रधानसम्पादकः अभावत् ।
अस्य योगदानम्
सम्पादयतुभारतीयभूवैज्ञानिकसर्वेक्षणसंस्थायां ज्येष्ठः विज्ञानी सन् अस्य अनन्तरामु वर्यस्य योगदानं महत्वपूर्णम् अस्ति । एषः अन्यविज्ञानिनः इव न केवलं विषयसङ्ग्रहणं, संस्करणं, विश्लेषणं, शुद्धीकरणं, पारिभाषिकपदानां सर्जनम्, कृतवान् किन्तु अन्यकार्येषु अपि सक्रियः अभवत् । यथा कर्णाटकस्य कोलार् गोल्ड् फील्ड् इति सुवर्णखनिसुरङ्गायां ३कि.मी.दूरं गत्वा ६९सें. तापमाने शोधकार्यं कृतवान् । उत्तरभारतस्य मेघालयराज्यस्य उपत्यकासु अपि निक्षेपानां शोधनकार्यं यशसा कृतवान् । दक्षिणभारतस्य मलेमहदेश्वरशैलेषु २५००च.कि.मी. विस्तीर्णे दुर्गमे कानने सञ्चरन् तत्रैव पटगृहे वसन् निक्षेपानां (खनिजः, मृद्भेदः, जलम्, अरण्यवैविध्यम्) मानचित्रं रचितवान् । एतादृशकार्यकर्तृषु अयं प्रथमः ।
कर्णाटकादमीप्रशस्तिः
सम्पादयतुअनन्तरामु वर्याय पश्चिममुखी इति प्रवासकथनग्रन्थरचनार्थं कर्णाटकसर्वकारस्य साहित्याकादेमी प्रशस्तिः प्रदत्ता । क्रि.श. २००८तमे वर्षे प्रवासोद्यमविभागे सुरक्षिता प्रशस्तिः अस्मै एव प्रदत्ता । क्रि.श. २००८तमे वर्षे परिसरंरक्षणपत्रिकोद्यमस्य प्रशस्तिः अनेन एव प्राप्ता । प्रशस्तिपुरस्कारकार्यक्रमेण दत्तं सर्वं धनं परिसरसंरक्षणस्य योजनायां विनियोजितवान् ।
न्याशनल् जियालोजिकल् मान्युमेण्ट्स् विशिष्टाकृतिः
सम्पादयतुभूवैज्ञानिकसर्वेक्षणसंस्थायाः १५०तमवर्षोत्सवे अनेन सम्पादिताकृतिः न्याशनल् जियोलाजिकल् मान्युमेण्ट्स् अतिविशिष्टा महत्वपूर्णा च कृतिः । इयं कृतिः बहुकालपर्यन्तं शोधच्छात्रानां सहाया भवति इति विमर्शकानाम् अभिप्रायः । कर्णाटकस्य मरडिहळ्ळि समीपस्थितः दिम्बुलावः, बेङ्गळूरुनगरस्य लाल्बागे स्थितः प्रस्तरशैलः, मङ्गळूरुनगरस्य समीपेस्थितः सेण्ट्मेरीद्वीपस्य शिलस्तम्भाः, के.जि.एफ्. समीपेविद्यमानः ज्वालामुखिशिलशैलः इत्यादीनाम् अध्ययनं कृत्वा स्वकृतिपट्टिकायां योजितवान् ।
परिशुद्धव्यक्तित्वम्
सम्पादयतुअनन्तरमु महोदयस्य व्यक्तित्वस्य सर्वायामेषु अत्युन्नताः भवन्ति तस्य आसक्तिः, श्रद्धा, सर्ननात्मकता, लेखनस्य गाढता विस्तारः वैविध्यं च । तस्य ५०कृतिषु ३५अधिकाः कृतयः भूविज्ञानसम्बद्धाः । अन्याः भूविज्ञानिनां चरित्रं, सम्पादितकृतयः, अनूदिताः च । कर्णाटकराज्यस्य विविधासु पत्रिकासु अस्य ८००अधिकाः लेखाः प्रकाशिताः । विस्मयविज्ञानमालिके इत्यस्मिन् ३३कृतीनां सम्पादनम्, साक्ष्यचित्रस्य साहित्यरचनम्, कन्नडविश्वकोशः, ज्ञानविज्ञानकोशः, किरियर कर्णाटक, कर्णाटकसङ्गाति, कर्णाटककोशः, इत्यादयः अस्य परामर्शनग्रन्थाः कन्नडभाषासाहित्यक्षेत्रे एतं विशिष्टाम्व्यक्तिम् अकुर्वन् ।
जनप्रियविज्ञानविषये आदरः
सम्पादयतुविश्वविद्यालयानाम् एतादृशेषु विषयेषु अनादरः इति अस्य खेदः आसीत् । अपि च ख्यातः न कोऽपि विज्ञानी कन्नडेन लेखितुम् इच्छति । वैज्ञानिकविषयानां भारतीयभाषालिखितारः विलरलाः एव । इति सर्वदा वदति स्म ।
कौटुम्बिकसहकारः
सम्पादयतुसहधर्मिणीति पदस्य अन्वर्थकत्वेन अस्य पत्नी अन्नपूर्णा । अस्य लेखनकार्येषु सर्वदा साहचर्यं करोति स्म । लेखपरिष्कारः सूचनादानं, मुद्रणे सहकारः च सर्वदा करोति स्म । पुत्रः बेङ्गळूरुनगरस्य संस्थायाम् अभियन्ता पुत्री स्पेन् देशे वसति । पौत्रः अमोघः पौत्री अनन्या च पितामहस्य अतिप्रियौ ।
प्रो.जि.टि.नारायण राव् इत्यस्य प्रशंसा
सम्पादयतुप्रो.जि.टि.नारायन राव् बहुपूर्वमेव अनन्तरामुवर्यस्य प्रतिभाम् अभिज्ञातवान् । जि.टि.नारायणः, नागेश हेगडे, ड. एच्.आर्.कृष्णमुर्तिः इत्यदयः एतं विज्ञानविश्वकोशः इत्येव प्राशंसन् । नागेश हेगडे अनेन सह मिलित्वा जनप्रिया विज्ञानपत्रिका कन्नडभाषायां कथं स्यात् इति दर्शितवान् । एतयोः सम्पादकत्वेन हम्पी कन्नडविश्वविद्यालयस्य पत्रिकाः सर्वदा सर्वश्रेष्ठं कन्नडकाव्यरुपेण तिष्ठन्ति । किन्तु इदानी सा पत्रिका स्थगिता अस्ति इति विज्ञानप्रियाणां दौर्भाग्यविशेषः ।
अस्य प्रकाशितकृतयः
सम्पादयतु- क्रि.श १९७८ कन्नडदल्लि भूविज्ञानम् - नभश्री प्रकाशनम् मैसूरु ।
- क्रि.श १९७९ एम्.एस्.कृष्णन् - राष्ट्रोत्थानसाहित्यम्, बेङ्गळूरु ।
- क्रि.श १९८० भूमिय अन्तराळ - कन्नडविज्ञानपरिषत् बेङ्गळूरु ।
- क्रि.श १९८० बिसिनीरिन बुग्गेगळु - कन्नडसाहित्यपरिषत् बेङ्गळूरु ।
- क्रि.श १९८० बदलागुत्तिदे भूमि ।
- क्रि.श १९८५ हिमदसाम्राज्यदल्लि - कर्णाटकसाहित्याकदमी प्रशस्तिः ।
- क्रि.श १९९१ भूमिय वयस्सु ।
- क्रि.श १९९१ भूगर्भयात्रे ।
- क्रि.श १९९१ बेळेयुत्तिदे हिमालय ।
- क्रि.श १९९२ राजर लोह लोगळ राज चिन्न ।
- क्रि.श १९९२ ज्वालामुखी ।
- क्रि.श १९९२ पेडम्भूतगळु अळिदवेके ।
- क्रि.श १९९२ विश्वविख्यात नैसर्गिकविकोपाः ।
- क्रि.श १९९४ रत्नानि ।
- क्रि.श १९९४ भूकम्पनानि ।
- क्रि.श १९९४ मळे ।
- क्रि.श १९९५ अल्प्रेड् वेगेनर् - कन्नडपुस्तकप्राधिकारः बेङ्गलूरु ।
- क्रि.श १९९५ सम्पन्मूलार्थं समुद्रमथनम् - अनुवादः
- क्रि.श १९९५ नम्म जलसम्पन्मूलगळु ।
- क्रि.श १९९६ पेडम्भूतगळु बालानां सचित्रकोशः
- क्रि.श. १९९७ प्री हिस्टरिक् अनिमल्स ।
- क्रि.श. १९९७ कावेरी हरिदुबन्द दारि ।
- क्रि.श. १९९९ भूविज्ञानम् (द्वितीयमुद्रणम्)
- क्रि.श. १९९७ अण्टार्टिक् निदेशनालयः
- क्रि.श. १९९९ चौ चौ चाकि ।
- क्रि.श. १९९९ प्राचीनभारतदल्लि लोहतन्त्रज्ञान ।
- क्रि.श. १९९९ पेट्रोल् लिकाल् बेङ्गळूरु ।
- क्रि.श. २००० वराहमिहिर ।
- क्रि.श. २००० बानङ्गळद बत्तळिकेयल्लि ।
- क्रि.श. २००० त्रिविक्रम हेज्जेगळु ।
- क्रि.श. २००० विस्मयगळ् अनाडिनल्लि ।
- क्रि.श. २००१ बीर्बल् साह्नि ।
- क्रि.श. २००२ शक्तिसारथि राष्ट्रपति अब्दुल् कलाम्
- क्रि.श. २००२ सृष्टिवादिगळ मुष्टियल्लि डार्विन् ।
- क्रि.श. २००३ कर्तारनिगोन्दु किविमातु ।
- क्रि.श. २००५ परिस्थितिवरदि मत्तु कार्ययोजने
- क्रि.श. २००६ सरस्वती नदी ।
- क्रि.श. २००५ दिव्यनेत्र ।
- क्रि.श. २००६ अमूल्य रेड्डि ।
- क्रि.श. २००७ दणियिल्लद धरणे ।
- क्रि.श. २००७ सुनीता विलियम्स् (अनुवादः)
- क्रि.श. २००८ पश्चिममुखी (प्रवासकथनम्)
- क्रि.श. २००८ लोहविद्यापारङ्गत के.नागेश राव् ।
- क्रि.श. २००९ तन्त्रप्रपञ्चदल्लि न्यानो मन्त्र ।
- क्रि.श. २००९ ऋषिनमन ।
- क्रि.श. २००९ अण्टार्क्टिक् कथे ।
- क्रि.श. २००९ सर् एम्.विश्वेश्वरय्य ।
- क्रि.श. २००९ डार्विन् कण्ड गलपगास् द्वीप ।
- क्रि.श. २००९ दूरदर्शन कण्ड विश्वरूप ।
- क्रि.श. २०१० कन्नडदल्लि विज्ञानसंहने । (प्रो.एच्.आर्. रामकृष्णराव् महोदयेन सह)
निवृत्तिः
सम्पादयतुअनन्तरामुवर्यः क्रि.श. २००८तमवर्षस्य डेसेम्बर् मासे वृत्त्या निवृत्तः अभवत् क्तिन्तु प्रवृत्त्या न हि ।