डी वी सदानन्द गौड

(डी. वी. सदानन्द गौडः इत्यस्मात् पुनर्निर्दिष्टम्)

देवरगुण्ड वेङ्कप्प सदानन्द गौड अथवा डी.वी.सदानन्द गौडः (जननं क्रि.श.१९५२तमवर्षस्य मार्चमासस्य १८दिनाङ्कः) भारतीयजनतापक्षस्य कश्चित् राजनीतिज्ञः अपि च कर्णाटकस्य मुख्यमन्त्री । नाम कर्णाटकसर्वकारस्य परमाधिकारि भवति । एषः पञ्चदशे लोकसभानिर्वाचने उडुपिचक्कमगळूरुमण्डलम्|चिक्कमगळूरु]]विधानसभाक्षेत्रस्य प्रतिनिधिभूत्वा जयशाली अभवत् । दक्षिणभारते सर्वप्रथमतया भा.ज.पक्षस्य अधिकारग्रहणे अस्य योगदानम् अशिकम् अस्ति । सक्रियः सङ्घटकः कन्नडभाषाप्रेमी च ।

देवरगुण्ड वेङ्कप्प सदानन्द गौडः
२६तमः कर्णाटाकस्य मुख्यमन्त्री ।
In office
४ अगस्त २०११ – १२ जुलाई २०१२
Preceded by बि.एस्.यडियूरप्पः
Constituency उडुपी - चिक्कमगळूरु
व्यैय्यक्तिकसूचना
Born (१९५३-२-२) १९ १९५३ (आयुः ७१)"Future of Karnataka’s New CM". Archived from the original on 2012-07-24. आह्रियत 2012-03-01. 
सुळ्य, दक्षिणकन्नडमण्डलम्, कर्णाटकराज्यम्
Political party भारतीयजनतापक्षः
Spouse(s) डाटी सदनन्दः
Children एकः पुत्रः
Residence पुत्तूरु,दक्षिणकन्नडमण्डलम्, कर्णाटकराज्यम्
Website http://sadanandagowda.com
As of सप्टेम्बर् मासस्य २३, २०११
Source: [१]

बाल्यं शिक्षा वृतिजीवनं च सम्पादयतु

सदानन्द गौडः कोडगुप्रन्तस्य देवरगुण्ड गौडपरिवारस्य, सुळ्य उपमण्डस्य मुण्डेकोलु ग्रामे निवसतोः वेङ्कप्प गौड कमला दम्पत्योः पुत्रः । अस्य प्रथमिकशिक्षा पुत्तूरु जनपदस्य केय्यूरु सुळ्यप्रदेशे च अभवत् । सुळ्यपत्तनस्य फिलोमिना महाविद्यालये विज्ञानपदवीम् आप्नोत् । तदनन्तरं वैकुण्ठबाळिगा अधुनिकन्यायशास्त्र पदवीं प्राप्तवान् । न्यायसंहितायाः अध्ययनावसरे विद्यार्थिसङ्गस्य कार्यदर्शी च अभवत् । मण्डलस्य विद्यार्थिपरिषदः मुख्यकार्यदर्शी भूत्वा प्रसिद्धः अभवत् । अनन्तरं उत्तरकन्नडमण्डलस्य शिरसिपत्तने कञ्चित्कालं सार्वजनिकन्यायवानः वृत्ति समाश्रितवान् । क्रि.श.१९८१तमे वर्षे डाटी इति कोडवकन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण कौशिकः, कार्त्तिक, पुत्रौ अभवताम् । कर्तिक गौडः अभियन्तृपदवीं प्राप्तवान् । ज्येष्टः पुत्रः कौशिकः वैद्यकीयविद्यार्थी आसीत् । क्रि.श.२००३तमे वर्षे पुत्तूरुसमीपमार्गे सम्भूते वाहनापघाते अकाले दिवङ्गतः । [१].

राजनीतिजीवनम् सम्पादयतु

सदानन्द गौडः तदानीन्तकालस्य जनसङ्घस्य सदस्यत्वेन स्वस्य राजकीयजीवनम् आरब्धवान् । कालक्रमेण सुळ्य विधानसभाक्षेत्रस्य दक्षिणकन्नडमण्डलस्य पक्षाध्यक्षः अभवत् । क्रमेण जनासङ्घस्य रूपान्तरस्य भारतीयजनतापक्षस्य युवविभाध्यक्षः अभवत् । तदनन्तरं क्रमशः दक्षिणकन्नडस्य भा.ज.पक्षस्य उपध्यक्षः, कर्णाटकराज्यस्य युवविभागाध्यक्षः, युवविभागस्य कार्यदर्शी (क्रि.श.१९८२ - ८८) भा.ज.प.राज्यकार्यदर्शी (क्रि.श.२००२ - ०४), पक्षस्य राष्ट्रीयकार्यदर्शी (क्रि.श.२००४), राज्याध्यक्षः (क्रि.श.२०१०) च भूत्वा पक्षस्य च राज्यस्य सेवाम् अकरोत् । क्रि.श. १९४४तमे वर्षे अपि च क्रि.श.१९९९तमे वर्षे दक्षिणकन्नडमण्डलस्य पुत्तूरुविधासभाक्षेत्रे चिर्वाचने स्पर्थयित्वा विजयी अभवत् । स्वस्य द्वितीयावधौ रज्यस्य प्रतिपक्षस्य उपनायकः अभवत् । क्रि.श.२००४तमे वर्षे मङ्गळूरुलोकसभाक्षेत्रे वीरप्प मोय्लिं जित्वा चतुर्दशलोकसभायाः सांसदः अभवत् । [२].क्रि.श.२००९तमे वर्षे पक्षेण एषः उडुपिचिक्कमगळूरुक्षेत्रस्य प्रतिनिधिः इति परिवर्तितः[३]. चतुर्दशे लोकसभायां वाणिज्यसमित्याः सदस्यः अनन्तरं संसत्सदनस्य विज्ञानतन्त्रज्ञास्य समितेः सदस्यः च अभवत् ।

जनसङ्घमज्दूरसङ्गयोः सेवायाम् सम्पादयतु

सदानन्द गौडः जनसङ्घस्य सक्रियराजकीये भागी असीत् । भारतीयमज्दूर् सङ्घस्य (बि.एम्.एस्.) सेवापरकार्येषु अपि अग्रेसरः आसीत् । सुळ्यजानपदस्य आटोरिचालकनां यजनानां च सङ्घे अपि सेवाम् अकरोत् ।

आसक्तिः स्वभावः च सम्पादयतु

सदानन्द गौडः विद्यार्जनकाले खो खो क्रीडायाम् अतीव आसक्तः आसीत् । राज्यस्तरीयस्पर्धायां मैसूरुविश्वविद्यालयस्य प्रतिनिधित्वेन क्रीडितवान् । ब्याड्मिण्टेन्, टेन्निस्, इत्यादिषु क्रीडासु अपि परिणतः आसीत् । अस्य कर्णाटकराज्यस्य तीरप्रदेशस्य विशिष्टशास्त्रीयकलायां यक्षगाने अपि अतीव आसक्तिः अस्ति । प्रप्ते समये अवश्यं यक्षगानप्रदर्शन अवलोकते ।

मुख्यमन्त्रिपदम् सम्पादयतु

भारतीयजनतापक्षस्य मुख्यमन्त्रिणः यडियूरप्पस्य मन्त्रिपदस्य लोपानन्तरं पक्षस्य राष्ट्रवरिष्टाः सदानन्द गौडमहोदयं राज्यस्य मुख्यमन्त्रिपदे नियोजितवन्तः । मुख्यमन्त्रिपदं सम्यक् निर्वहन् प्रतिपक्षस्य विरोधमपि सम्यक् अभिमुखं कुर्वन् राज्यस्य समर्थः नायकः भूत्वा अल्पेनैव कालेन प्रसिद्धः साञ्जातः । प्रभुत्वस्य अवशिष्टावधिं यथायोग्यं सम्पूरयति इति प्रजानां विश्वासः अस्ति ।

अलङ्कृतानि उन्नतपदानि सम्पादयतु

  • 1994-2004 Member, Karnataka Legislative Assembly (two terms)
  • 1995-1996 Member, Cell for preparing Draft Bill on Prohibiting atrocities on Women, Government of Karnataka
  • 2001-2002 Member, Committee for Energy, Fuel & Power, Karnataka Legislative
  • 2002-2003 Member, Public Undertaking Committee, Karnataka Legislative Assembly
  • 2003-2004 President, Public Accounts Committee, Karnataka Legislative Assembly
  • 1999-2004 Deputy Leader of Opposition, Karnataka Legislative Assembly
  • Member, Committee on Commerce
  • National Secretary, BJP
  • 1983-1988 State Secretary, BJP Yuva Morcha, Karnataka
  • 2004-2006 Elected to 14th Lok Sabha
  • 2006-Present State President, BJP, Karnataka
  • 5 August 2006-onwards Member, Committee on Commerece
  • 18 January 2006-onwards Member, Sub-committee of the Department Related ==pArlimeMTari==
  • Standing Committee on Commerce for Special Economic Zones
  • 5 Aug. 2007 onwards Member, Committee on Commerce
  • 2009 Elected to 15th Lok Sabha
  • Chief Ministerial candidate
  • Voted the new Chief minister of Karnataka.He was supported by former chief Minister BS Yediyurappa.
  • D V Sadananda Gowda 26th Chief Minister of Karnataka State

बाह्यानुबन्धाः सम्पादयतु

उल्लेखाः सम्पादयतु

  1. "Sadananda Gowda to head State BJP". Archived from the original on 2007-12-07. आह्रियत 2012-03-08. 
  2. "Moily loses to Sadananda Gowda". Archived from the original on 2004-06-27. आह्रियत 2012-03-08. 
  3. "DV Sadananda: The dark horse from the coast". 
"https://sa.wikipedia.org/w/index.php?title=डी_वी_सदानन्द_गौड&oldid=482035" इत्यस्माद् प्रतिप्राप्तम्