त्रिपिटकम् (बौद्धदर्शनम्)


वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्म- पिटकस्य रचना संजाता ।

गौतमबुद्धः

बौद्धधर्मः

बौद्धधर्मः

सुत्तपिटके पञ्च निकायाः सन्ति-दीर्घनिकायः, मज्झिमनिकायः, संयुक्तनिकायः, अङ्गुत्तरनिकायः, खुद्दकनिकायश्चेति । एषां धम्मपदानि जातकाश्च सुप्रसिद्धा वर्तन्ते । धम्मपदेषु बुद्धस्योपदेशानां संग्रहो विद्यते । बु- द्धस्य पूर्वजन्मानां कथा जातकेषु गृहीताः सन्ति । ग्रन्थान्तरेषु खुद्दकपाठ-उदान-इतिवृत्तक-सुत्तानिपात-विमानवत्थु-पेतवेत्थु-थेरगाथा-थेरीगाथा-निद्देस,परिसम्मिदा-मग्ग-अवदान-बु०द्धवंश-चरियापिटकादयः प्रमुखाः सन्ति ।

विनयपिटकस्य त्रयो भागाः सन्ति-सुत्तविभङ्गोऽथवा पातिमोक्खः,भिक्खुपातिमोक्खः,महावग्ग-चूलवग्गादयश्चेति । अभिधम्मपिटके सप्त ग्रन्थाः सन्ति-पुग्गलपज्झतिः, धातुकथाः, धम्मसंगतिः, विभंगः, पट्ठान-प्रकरणम्, कथावस्तु,यमकश्चेति । त्रिपिटकवत् ‘मिलिन्दपन्हो’ अपि बौद्धधर्मे सुप्रसिद्धोऽस्ति ।एषा रचना नागसेनस्यास्ति।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

East-Asian tradition:

Tibetan tradition:

Tripitaka Collections: Extensive list of online tripitakas